25 मध्वधिकरणम्

ब्रह्मविद्यायां देवादीनामप्यधिकारोऽस्तीत्युक्तम्; इदमिदानीं चिन्त्यते, येषूपासनेषु या

देवता एवोपास्यास्तेषु तासामधिकरोस्ति, न ? इति; किं प्राप्तम् ? नास्त्यधिकारस्तेषु मध्वादिष्विति

जैमिनिर्मन्यते; कुतः ? असम्भवात् । नह्यादित्यवस्वादिभिरुपास्या आदित्यवस्वादयोऽन्ये सम्भवन्ति । न च वस्वादीनां सतां वस्वादित्वं प्राप्यं भवति, प्राप्तत्वात्; मधुविद्यायामृग्वेदादिप्रतिपाद्यकर्मनिष्पाद्यस्य रश्मिद्वारेण प्राप्तस्य रसस्याश्रयतया लब्धमधुव्यपदेशस्यादित्यस्यांशानां वस्वादिभिर्भुज्यमानानामुपास्यत्वं वस्वादित्वञ्च प्राप्यं श्रूयते “असौ वा आदित्यो देवमधु” इत्युपक्रम्य “तद्यत्प्रथमममृतं तद्वसव उपजीवन्ति” इत्युक्तवा “स य एतदेवममृतं वेद वसूनामेवैको भूत्वा अग्निनैव मुखेनैतदेवामृतं दृष्ट्वा तृप्यति” इत्यादिना ।

“तं देवा ज्योतिषां ज्योतिरायुर्होपासतेऽमृतम्” इति ज्योतिषि परस्मिन् ब्रह्मणि उपासनं देवानां श्रूयते । देवमनुष्योभयसाधारणे परब्रह्मोपासने देवानामुपासकत्वकथना देवानामितरोपासननिवृत्तिं द्योतयति । अत एषु वस्वादीनामनधिकारः ॥ 31 ॥ इति प्राप्तेऽभिधीयते -

आदित्यवस्वादीनामपि तेष्वधिकारभावं भगवान् बादरायणो मन्यते । अस्ति ह्यादित्यवस्वादीनामपि स्वावस्थब्रह्मोपासनेन वस्वादित्वप्राप्तिपूर्वकब्रह्मप्रेप्सासंभवः । इदानीं वस्वादीनामपि सतां कलपान्तरेऽपि वस्वादित्वप्राप्तिश्चापेक्षिता भवति । अत्र हि कार्यकारणोभयावस्थब्रह्मोपासनं विधीयते, “असौ वा आदित्यो देवमधु” इत्यारभ्य, “अत तत ऊध्वर् उदेत्य” इत्यतः प्राक् आदित्यवस्वादिकार्यविशेषावस्थं ब्रह्म उपास्यमुपदिश्यते; “अथ तत ऊर्ध्व उदेत्य” इत्यादिना आदित्यान्तरात्मतयाऽवस्थितं कारणावस्थमेव ब्रह्म उपास्यमुपदिश्यते । तदेवं कार्यकारणोभयावस्थं ब्रह्मोपासीनः कल्पान्तरे वस्वादित्वं प्राप्य तदन्ते कारणं परं ब्रह्मैवाप्नोति । “न ह वा अस्मा उदेति न निम्रोचति; सकृद्दिवा हैवास्मै भवति, य एतामेवं ब्रह्मोपनिषदं वेद” इति कृत्स्नायाः मधुविधायाः ब्रह्मोपनिषत्त्वश्रवणात् ब्रह्मप्राप्तिपर्यन्तवस्वादित्वफलस्य श्रवणाच्च वस्वादिभोग्यभूतादित्यांशस्य संभवति । एवञ्च ब्रह्मण एवोपास्यत्वात्, “तं देवा ज्योतिषां ज्योतिः” इत्यादि उपपद्यते । तदाह वृत्तिकारः, “अस्ति हि मध्वादिषु संभवः; ब्रह्मण एव सर्वत्र निचाय्यत्वात्” इति ॥

॥ इति मध्वधिकरणम् ॥