24 देवताधिकरणम्

परस्य ब्रह्मणोऽङ्गुष्ठप्रमितत्वोपपत्तये मनुष्याधिकारं ब्रह्मोपासनशास्त्रमित्युक्तम् । तत्प्रसङ्गेनेदानीं

ब्रह्मविद्यायां देवादीनामप्यधिकारोऽस्ति, नास्तीति विचार्यते । किन्तावद्युक्तम् ? नास्ति देवादीनामधिकार इति । कुतः ? सामर्थ्याभावात्, न ह्यशरीराणां देवादीनां विेकविमोकादिसाधनसप्तकानुगृहीतब्रह्मोपासनोपसंहारसामर्थ्यमस्ति । न च देवादीनां सशरीरत्वे प्रमाणमुपलभामहे । यद्यपि परिनिष्पन्नेऽपि वस्तुनि व्युत्पत्तिसम्भावनाया वेदान्तवाक्यानि परे ब्रह्मणि प्रमाणभावमनुभवन्ति; तथापि देवादीनां विग्रहवत्त्वप्रतिपादनपरं न किञ्चिदपि वाक्यमुपलभ्यते । मन्त्राथर्वादास्तु कर्मविधिशेषतयाऽन्यपरत्वान्न देवादिविग्रहसाधने प्रभवन्ति । कर्मविधयश्च स्वापेक्षितोद्देश्यकारकत्वातिरेकिदेवतागतं किमपि न साधयन्ति । अत

एव तासामर्थित्वमपि न सम्भवति । अतस्सामर्थ्यार्थित्वयोरभावाद्देवादीनामनधिकार इति ।

एवं प्राप्ते प्रचक्ष्महे तदुपर्यपि बादरायणस्सम्भवात् । तदुपर्यपि तत् ब्रह्मोपासनम्, उपरि- देवादिष्वपि, सम्भवतीति भगवान्बादरायणो मन्यते, तेषामर्थित्वसामर्थ्ययोस्सम्भवात् । अर्थित्वं तावदाध्यात्मिकादिदुर्विषहदुःखाभितापात्परस्मिन् ब्रह्मणि च निरस्तनिखिलदोषगन्धे अनवधिकातिशयासङ्घयेयकल्याणगुणगणे निरतिशयभोग्यत्वादिज्ञानाच्च सम्भवति । सामर्थ्यमपि

पटुतरदेहेन्द्रियादिमत्तया सम्भवति । देहेन्द्रियादिमत्त्वं च ब्रह्मादीनां सकलोपनिषत्सु सृष्टिप्रकरणेषूपासनप्रकरणेषु च श्रूयते । तथा हि “सदेव सोम्येदमग्र आसीत्” “तदैक्षत बहु स्यां प्रजायेयेति तत्तेजोऽसृजत” इत्यारभ्य सर्वमचेतनं तेजोऽबन्नप्रमुखावस्थाविशेषवद्य्वाकृत्य “अनेन जीवेनात्मनाऽनुप्रविश्य नामरूपे व्याकरवाणि” इति सङ्कल्प्य ब्रह्मादिस्थावरान्तं चतुर्विधं भूतजातं तत्तत्कर्मोचितशरीरं तदुचितनामभाक् चायमकरोदित्युक्तम् । एवं सर्वत्र सृष्टिवाक्येषु देवतिर्यङ्मनुष्यस्थावरात्मना चतुर्विधा सृष्टिराम्नायते । देवादिभेदश्च तत्तत्कर्मानुगुणब्रह्मलोकप्रभृतिचतुर्दशलोकस्थफलभोगयोग्यदेहेन्द्रियादियोगायत्तः, आत्मनां स्वतो देवादित्वाभावात् । तथा “तद्धोभयो देवासुरा अनुबुबुधिरे ते होचुः इन्द्रो ह वै देवानामभिप्रवव्राज विरोचनोऽसुराणां तौ हासंविदानावेव समित्पाणी प्रजापतिसकाशमाजग्मतुः” “तौ ह द्वात्रिंशतं वर्षाणि ब्रह्मचर्यमूषतुः तौ ह प्रजापतिरुवाच” इत्यादिना स्पष्टमेव शरीरेन्द्रियवत्त्वं देवादीनां प्रतीयते । कर्मविधिशेषभूतमन्त्रार्थवादेष्वपि “वज्रहस्तः पुरन्दरः” “तेनेन्द्रो

वज्रमुदयच्छत्” इत्यादिभिः प्रतीयमानं विग्रहादिमत्त्वं प्रमाणान्तराविरुद्धं तत्प्रमेयमेव । न चानुष्ठेयार्थप्रकाशनस्तुतिपरत्वाभ्यां प्रतीयमानार्थान्तराविवक्षा शक्यते वक्तुम्, स्तुत्याद्युपयोगित्वात्तेन विना स्तुत्याद्यनुपपत्तेश्च । गुणकथनेन हि स्तुतित्वम् । गुणानामसद्भावे स्तुतित्वमेव हीयेत । न चासता गुणेन कथितेन प्ररोचना जायते; अतः कर्म प्ररोचयन्तो गुणसद्भावं बोधयन्त एवार्थवादाः । मन्त्राश्च कर्मसु विनियु

क्तास्तत्र तत्र किञ्चित्करत्वायानुष्ठेयमर्थं प्रकाशयन्तो देवतादिगतविग्रहादिगुणविशेषमभिदधत एव तत्र किञ्चित्कुर्वन्ति, अन्यथेद्रादिस्मृत्यनुपपत्तेः । न च निर्विशेषा देवता धियमधिरोहति । तत्र प्रमाणान्तराप्राप्तान् गुणान् स्वयमेव बोधयित्वा तैः कर्म प्ररोचयन्ति; गुणविशिष्टं वा प्रकाशयन्ति; प्राप्तांश्चानूद्य तैः प्ररोचनप्रकाशने कुर्वन्ति; विरुद्धत्वे तु तद्वाचिभिश्शब्दैरविरुद्धान् गुणान् लक्षयित्वा कुवर्न्ति । कर्मविधेश्च

देवताया ऐश्वर्यमपेक्षितमेव, कामिनः कर्त्तव्यतया कर्म विधीयमानं स्वयं क्षणप्रध्वंसि कालान्तरभाविनः फलस्य स्वर्गादेस्साधकमपेक्षते । मन्त्रार्थवादयोश्च “वायुर्वै क्षेपिष्ठा देवता वायुमेव स्वेन भागधेयेनोपधावति स एवैनं भूतिं गमयति” “यदनेन हविषाऽऽशास्ते तदश्यात्तदृध्यात्तदस्मै देवा राधन्ताम्” इत्यादिषु देवतायाः कर्मणाऽऽराधितायाः फलदायित्वं तदनुगुणञ्चैश्वर्यं प्रतीयमानमपेक्षितत्वेन वाक्यार्थो समन्वीयते । देवपू

जाभिधायिनो यजिधातोश्च यागाख्यं कर्म स्वाराध्यदेवताप्रधानं प्रतीयते । तदेवं कृत्स्नवाक्यपर्यालोचनया वाक्यादेव विध्यपेक्षितं सर्वमवगतमिति नापूर्वादिकं व्युत्पत्तिसमयानवगतं कर्मविधिष्वभिधेयतया कल्प्यतया वाऽऽश्रयितव्यम् । तथा सङ्कीर्णब्राह्मणमन्त्रार्थवादमूलेषु धर्मशास्त्रेतिहासपुराणेषु ब्रह्मादीनां देवासुर

प्रभृतीनां देहेन्द्रियादयस्स्वभावभेदाः स्थानानि भोगाः कृत्यानि चेत्येवमादयस्सुव्यक्ताः प्रतिपाद्यन्ते; अतो विग्रहादिमत्त्वाद्देवादीनामप्यधिकारोऽस्त्येव ॥

देवादीनां विग्रहादिमत्त्वाभ्युपगमे कर्मणि विरोधः प्रसज्यते, बहुषु यागेषु युगपदेकस्येन्द्रस्य विग्रहवत्त्वे “अग्निमग्न आवह” “इन्द्र आगच्छ हरिव आगच्छ” इत्यादिना आहूतस्य तस्य सन्निधानानुपपत्तेः । दर्शयति चाग्न्यादीनां तत्र तत्रागमनं “कस्य वाह देवा यज्ञमागच्छन्ति कस्य वा न बहूनां याजमानानां यो वै देवताः पूर्वः परिगृह्णाति स एनाश्श्वो भूते यजते” इति । अतो विग्रहादिमत्त्वे कर्मणि विरोधः प्रसज्यत इति चेत् तन्न अनेकप्रतिपत्तेर्दर्शनात् दृश्यते हि सौभरिप्रभृतीनां शक्तिमतां युगपदनेकशरीरप्रतिपत्तिः ॥

विरोध इति वर्त्तते । माभूत्कर्मणि विरोधोऽनेकशरीरप्रतिपत्तेः । शब्दे तु वैदिके विरोधः प्रसज्यते, अनित्याथर्संयोगात् । विग्रहवत्त्वे हि सावयवत्वेनेन्द्रादेरर्थस्यानित्यत्वमनिवार्यम्; ततो देवदत्तादिशब्दवदिन्द्राद्यर्थजन्मनः प्राग्विनाशादूद्र्ध्वं चेन्द्रादिशब्दानां वैदिकानामर्थशून्यत्वमनित्यत्वं वा वेदस्य स्यादिति चेत् तन्न;

अतः प्रभवात्- अस्मादिन्द्रादिशब्दादेव पुनः पुनरिन्द्राद्यर्थस्य प्रभवात् । एतदुक्तम्भवति- न हि देवदत्तादिशब्दवदिन्द्रादिशब्दाः वैदिकाः व्यक्तिविशेषमात्रे सङ्केतपूर्वकाः प्रवृत्ताः, अपि तु स्वभावत एव गवादिशब्द वदाकृतिविशेषवाचित्वेन । ततश्चैकस्यामिन्द्रव्यक्तौ विनष्टायामत एव वैदिकादिन्द्रशब्दान्मनसि विपरिवर्त्त

मानादवगततद्वाच्यभूतेन्द्राद्यर्थाकारो घाता तदाकारमेवापरमिन्द्रं सृजाति; यथा कुलालो घटशब्दान्मनसि विपरिवर्त्तमानात्तदाकारमेव घटमिति । कथमिदमवगम्यते ? प्रत्यक्षानुमानाभ्याम्- श्रुतिस्मृतिभ्यामित्यर्थः । श्रुतिस्तावत् “वेदेन रूपे व्याकरोत् सतासती प्रजापतिः” इति, तथा “स भूरिति व्याहरत् स भूमिससृजत स भुव इति व्याहरत् सोऽन्तरिक्षमसृजत” इत्यादि । वाचकशब्दपूर्वकं तत्तदर्थसंस्थानं स्मरन् तत्तत्संस्थानविशिष्टं

तं तमर्थं सृष्टवानित्यर्थः । स्मृतिरपि “अनादिनिधना ह्येषा वागुत्सृष्टा स्वयम्भुवा । आदौ वेदमयी दिव्या

यतस्सर्वाः प्रसूतयः” इति; “सर्वेषान्तु स नामानि कर्माणि च पृथक् पृथक् । वेदशब्देभ्य एवादौ पृथक् संस्थाश्च निर्ममे” इति । संस्थाः- संस्थानानि, रूपाणीति यावत्; तथा “नामरूपञ्च भूतानां कृत्यानां च प्रपञ्चनम् । वेदशब्देभ्य एवादौ देवादीनां चकार सः” इति । अतो देवादीनां विग्रहवत्त्वेऽपि न वैदिकशब्दानामानर्थक्यं वेदस्यादिमत्त्वं च न प्रसज्यते ॥

यत एवेन्द्रवसिष्ठादिशब्दानां सेवर्षिवाचिनां तत्तदाकारवाचित्वम्, तत्तच्छब्देन तत्तदर्थस्मृतिपूर्वीका च तत्तदर्थसृष्टिः, तत एव “मन्त्रकृतो वृणीते” “नम ऋषिभ्यो मन्त्रकृद्य्भः” “अयं सो अग्निरिति विश्वामित्रस्य

सूक्तं भवति” इत्यादिभिर्वसिष्ठादीनां मन्त्रकृत्वकाण्डकृत्त्वऋषित्वादौ प्रतीयमानेऽपि वेदस्य नित्यत्वमुपपद्यते । एभिरेव “मन्त्रकृतो वृणीते” इत्यादिभिर्वेदशब्दैस्तत्तत्काण्डसूक्तमन्त्रकृतामृषीणामाकृतिशक्तयादिकं परामृश्य तत्तदाकारान् तत्तच्छक्रियुक्तांश्च सृष्ट्वा प्रजापतिस्तानेव तत्तन्मन्त्रादिकरणे नियुङ्क्त्े । तेपि प्रजापतिना आहितशक्तयस्तत्तदनुगुणं तपस्तप्त्वा नित्यसिद्धान् पूर्वपूर्ववसिष्ठादिदृष्टान् तानेव मन्त्रादीननधीत्यैव स्वरतो वर्णतश्चास्खलितान् पशयन्ति; अतश्च वेदानां नित्यत्वमेषाञ्च मन्त्रकृत्त्वमुपपद्यते ॥

अथ स्यात् - नैमित्तिकप्रलयादिष्विन्द्राद्युत्पत्तौ वेदशब्देभ्यः पूर्वपूर्वेन्द्रादिस्मरणेन प्रजापतिना देवादिसृष्टिरुपपद्यतां नाम; प्राकृतप्रलये तु स्रष्टुः प्रजापतेः भूताद्यहङ्कारपरिणामशब्दस्य च विनष्टत्वात्कथं प्रजापतेः शब्दपूर्विका सृष्टिरुपपद्यते; कथन्तरां विनष्टस्य वेदस्य नित्यत्वम् ? अतो वेदनित्यत्ववादिना देवादीनां विग्रहवत्त्वाभ्युपगमेऽपि

लोकव्यवहारस्य प्रवाहानादिता आश्रयणीयेति । अत्रोत्तरं पठति -

कृत्स्नोपसंहारे जगदुत्पत्त्यावृत्तावपि पूर्वोक्तात्समाननामरूपत्वादेव न कश्चिद्विरोधः ।

विश्वास-प्रस्तुतिः

तथाहि, स भगवान् पुरुषोत्तमः
प्रलयावसान-समये पूर्व-संस्थानं जगत् स्मरन्
“बहु स्याम्” इति सङ्कल्प्य
भोग्य-भोक्तृ-जातं स्वस्मिन् शक्ति-मात्रावशेषं प्रलीनं विभज्य
महद्-आदि-ब्रह्माण्डं हिरण्य-गर्भ-पर्यन्तं यथा-पूर्वं सृष्ट्वा

वेदांश् च पूर्वानुपूर्वी-विशेष-संस्थितान् आविष्कृत्य
हिरण्य-गर्भायोपदिश्य
पूर्ववद् एव देवाद्य्-आकार-जगत्-सर्गे तं नियुज्य
स्वयम् अपि तद्-अन्तरात्मतयाऽवतस्थे,
अतो यथोक्तं सर्वम् उपपन्नम् ।

मूलम्

तथाहि, स भगवान् पुरुषोत्तमः प्रलयावसानसमये पूर्वसंस्थानं जगत्स्मरन् “बहु स्याम्” इति सङ्कल्प्य भोग्यभोक्तृजातं स्वस्मिन् शक्तिमात्रावशेषं प्रलीनं विभज्य महदादिब्रह्माण्डं हिरण्यगर्भपर्यन्तं यथापूर्वं सृष्ट्वा वेदांश्च पूर्वानुपूर्वीविशेषसंस्थितानाविष्कृत्य हिरण्यगर्भायोपदिश्य पूर्ववदेव देवाद्याकारजगत्सर्गे तं नियुज्य स्वयमपि तदन्तरात्मतयाऽवतस्थे, अतो यथोक्तं सर्वमुपपन्नम् । एतदेव च वेदस्यापौरुषेयत्वं नित्यत्वञ्च, यत्पूर्वपूर्वोच्चारणक्रमजनितसंस्कारेण तमेव क्रमविशेषं स्मृत्वा तेनैव क्रमेणोच्चार्यत्वम्; तदस्मासु सर्वेश्वरेऽपि समानम् । इयांस्तु

एतदेव च वेदस्यापौरुषेयत्वं नित्यत्वञ्च, यत्पूर्वपूर्वोच्चारणक्रमजनितसंस्कारेण तमेव क्रमविशेषं स्मृत्वा तेनैव क्रमेणोच्चार्यत्वम्; तदस्मासु सर्वेश्वरेऽपि समानम् ।

इयांस्तु विशेषः, संस्कारानपेक्षमेव स्वयमेवानुसन्धत्ते पुरुषोत्तमः । कुत इदं यथोक्तमवगम्यत इति चेत्तत्राह- दर्शनात् स्मृतेश्च । दर्शनं तावत् “यो ब्रह्माणं विदधाति पूर्वं यो वै वेदांश्च प्रहिणोति तस्मै” इति । स्मृतिरपि मानवी

“आसीदिदं तमोभूतम्” इत्यारभ्य “सोऽभिध्याय शरीरात्खात्सिसृक्षुर्विविधाः प्रजाः । अप एव ससर्जादौ तासु वीर्यमपासृजत् । तदण्डमभवद्धैमं सहस्रांशुसमप्रभम् । तस्मिन् जज्ञे स्वयं ब्रह्मा सर्वलोकपितामहः” इति । तथा पौराणिकी “तत्र सुप्तस्य देवस्य नाभौ पद्ममजायत । तस्मिन् पद्मे महाभाग वेदवेदाङ्गपारगः । ब्रह्मोत्पन्नस्स तेनोक्तः प्रजाः सृज महामते” । तथा “परो नारायणो देवस्तस्माज्जातश्चतुर्मुखः” इति । तथा “आदिसर्गमहं बक्ष्ये”

इत्यारभ्योच्यते “सृष्ट्वा नारं तोयमन्तस्स्थितोऽहं येन स्यान्मे नाम नारायणेति । कल्पे कल्पे तत्र शयामि भूयः सुप्तस्य मे नाभिजं स्याद्यथाऽब्जम् । एवम्भूतस्य मे देवि नाभिपद्मे चतुर्मुखः । उत्पन्नस्स बया चोक्तः प्रजास्सृज

महामत्ते” इति । अतो देवादीनामप्यर्थित्वसामर्थ्ययोगाद्ब्रह्मविद्यायामधिकारोऽस्तीति सिद्धम् ॥