23 प्रमिताधिकरणम्

कठवल्लीषु श्रूयते- “अङ्गुष्ठमात्रः पुरुषो मध्य आत्मनि तिष्ठति । ईशानो भूतभव्यस्य न ततो विजुगुप्सते । एतद्वै तत्” “अङ्गुष्ठमात्रः पुरुषो ज्योतिरिवाधूमकः । ईशानो भूतभव्यस्य स एवाद्य स उ श्वः । एतद्वै तत्” “अङ्गुष्ठमात्रः पुरुषोऽन्तरात्मा सदा जनानां हृदये सन्निविष्टः । तं स्वाच्छरीरात्प्रवृहेन्मुञ्जादिवैषीकां धैर्य्येण । तं विद्याच्छुक्रममृतम्” इति । तत्र सन्दिह्यते; किमयमङ्गुष्ठमात्रप्रमितः प्रत्यगात्मा, उत परमात्मा ? इति । किं युक्तम् ? प्रत्यगात्मेति । कुतः ? जीवस्यान्यत्राङ्गुष्ठमात्रत्वश्रुतेः । “प्राणाधिपः सञ्चरति स्वकर्मभिः ।

अङ्गुष्ठमात्रो रवितुल्यरूपः सङ्कल्पाहङ्कारसमन्वितो यः” इति । न चान्यत्रोपासनार्थतयापि

परमात्मनोऽङ्गुष्ठमात्रत्वं श्रूयते । एवं निश्चिते जीवत्वे ईशानत्वं शरीरेन्द्रियभोग्यभोगोपकरणापेक्षयापि भविष्यति । इति प्राप्ते ब्रूमः शब्दादेव प्रमितः । अङ्गुष्ठप्रमितः परमात्मा । कुतः ? “ईशानो भूतभव्यस्य” इति शब्दादेव;

न च भूतभव्यस्य सर्वस्येशितृत्वं कर्मपरवशस्य जीवस्योपपद्यते । कथं तर्हि परमात्मनोऽङ्गुष्ठमात्रत्वमित्यत्राह -

परमात्मन उपासनार्थमुपासकहृदये वर्तमानत्वादुपासकहृदयस्याङ्गुष्ठप्रमाणत्वात्तदपेक्षयेदमङ्गुष्ठप्रमितत्वमुपपद्यते, जीवस्याप्यङ्गुष्ठप्रमितत्वं हृदयान्तर्वर्तित्वात्तदपेक्षमेव तस्याराग्रमात्रत्वश्रुतेः । मनुष्यमाणामेवोपासकत्वसम्भावनाया शास्त्रस्य मनुष्याधिकारत्वान्मनुष्यहृदयस्य च तत्तदङ्गुष्ठप्रमितत्वात्खरतुरगभुजगादीनामनङ्गुष्ठप्रमितत्वेऽपि न कश्चिद्दोषः, स्थितं तावदुत्तरत्र समापयिष्यते ।

“अङ्गुष्ठमात्रः पुरुषो मध्य आत्मनि तिष्ठति”, अङ्गुष्ठमात्रः पुरुषोऽन्तरात्मा" इत्यनयोर्वाक्ययोर्मध्ये, “यदिदं किञ्च जगत् सर्वं प्राण एजति निस्सृतम् । महद्भयं वज्रमुद्यतं य एतद्विदुरमृतास्ते भवन्ति । भयादस्याग्निस्तपति भयात् तपति सूर्यः । भयादिन्द्रश्च वायुश्च मृत्युर्धावति पञ्चमः” इति कृत्स्नस्य जगतोऽग्निसूर्यादीनां चास्मिन् अङ्गुष्ठमात्रे पुरुषे प्राणशब्दनिर्दिष्टे स्थितानां सर्वेषां ततो निस्सृतानां तस्मात् सञ्जातमहाभयनिमित्तम् एजनं

कम्पनं श्रूयते । तच्छासनातिवृत्तौ किं भविष्यतीति महतो भयात्, वज्रादिवोद्यतात्, कृत्स्नं जगत् कम्पत इत्यर्थः । “भयादस्याग्निस्तपति” इत्यनेनैकार्थ्यात् “भहद्भयं वज्रमुद्यतम्” इति पञ्चम्यर्थं प्रथमा । अयञ्च परस्य

ब्रह्मणः स्वभावः; एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतः" “भीषाऽस्माद्वातः पवते भीषेदेति सूर्यः । भीषाऽस्मादग्निश्चेन्द्रश्च मृत्युर्धावति पञ्चमः” इति परस्य ब्रह्मणः पुरुषोत्तमस्यैवंविधैश्वर्यावगतेः । इतश्चाङ्गुष्ठप्रमितः पुरुषोत्तमः -

तयोरेवाङ्गुष्ठप्रमितविषययोर्वाक्ययोर्मध्ये परब्रह्मासाधारणं सर्वतेजसां छादकं सर्वतेजसां कारणभूतमनुग्राहकं च अङ्गुष्ठप्रमितस्य ज्योतिर्दृश्यते- “न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयमग्निः । तमेव

भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति” इति । अयमेव श्लोक आथर्वणे परं ब्रह्माधिकृत्य श्रूयते । परज्योतिष्ट्वं च सर्वत्र परस्य ब्रह्मणः श्रूयते; यथा- “परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यते”, “तं देवा ज्योतिषां ज्योतिरायुर्होपासतेऽमृतम्”, “अथ यदतः तदतः परो दिवी ज्योतिर्दीप्यते” इत्यादिषु । अतः अङ्गुष्ठप्रमितः परं ब्रह्म ॥ 41। ॥ ॥ इति प्रमिताधिकरणशेषः ॥