22 दहराधिकरणम्

इदमामनन्तिच्छब्दोगाः “अथ यदिदमस्मिन् ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तर

आकाशस्तस्मिन् यदन्तस्तदन्वेष्टव्यं तद्वा व विजिज्ञासितव्यम्” इति । तत्र सन्देहः, किमसौ हृदयपुण्डरीकमध्यवर्ती दहराकाशो महाभूतविशेषः, उत प्रत्यगात्मा, अथ परमात्मा ? इति । किं तावद्युक्तम् ? महाभूत

विशेष इति । कुतः ? आकाशशब्दस्य भूताकाशे प्रसिद्धिप्रकषर्ात्, “तस्मिन् यदन्तस्तदन्वेष्टव्यम्” इत्यन्वेष्टव्यान्तरस्याधारतया प्रतीतेश्च ॥

इत्येवं प्राप्तेऽभिधीयते - दहर उत्तरेभ्यः । दहराकाशः परं ब्रह्म । कुतः ? उत्तरेभ्यो वाक्यगतेभ्यो हेतुभ्यः । “एष आत्माऽपहतपाप्मा विजरो विमृत्युविर्शोकोविजिघत्सोऽपिपासस्सत्यकामस्सत्यसङ्कल्पः” इति निरुपाधिकात्मत्वमपहतपाप्मत्वादिकं सत्यकामत्वं सत्यसङ्कल्पत्वं चेति दहराकाशे श्रूयमाणा गुणा दहराकाशं

परं ब्रह्मेति ज्ञापयन्ति । “अथ य इहात्मानमनुविद्य व्रजन्त्येतांश्च सत्यान्कामांस्तेषां सर्वेषु लोकेषु कामचारो भवति” इत्यादिना “यं कामं कामयते सोऽस्य सङ्कल्पादेव समुत्तिष्ठति तेन सम्पन्ने महीयते” इत्यन्तेन दहराकाशवेदिनः सत्यसङ्कल्पत्वप्राप्तिश्चोच्यमाना दहराकाशं परं ब्रह्मेत्यवगमयति । “यावान्वा अयमाकाशस्तावानेषोऽन्तर्हृदय आकाशः” इत्युपमानोपमेय भावश्च दहराकाशस्य भूताकाशत्वेनोपपद्यते । हृदयावच्छेदनिबन्धन उपमानोपमेयभाव इति चेत्; तथा सति हृदयावच्छिन्नस्य द्यावापृथिव्यादिसर्वाश्रयत्वं नोपपद्यते । ननु च दहराकाशस्य परमात्मत्वेऽपि बाह्याकाशोपमेयत्वं न सम्भवति “ज्यायान् पृथिव्या ज्यायानन्तरिक्षात्” इत्यादौ सर्वस्माज्ज्यायस्त्वश्रवणात्- नैवम्; दहराकाशस्य हृदयपुण्डरीकमध्यवर्त्तित्वप्राप्ताल्पत्वनिवृत्तिपरत्वादस्य वाक्यस्य; यथा अधिकजवेऽपि सवितरि “इषुवद्गच्छति सविता"इति वचनं गतिमान्द्यनिवृत्तिपरम् । अथ स्यात् “एष आत्माऽपहतपाप्मा” इत्यादिना दहराकाशो न निर्द्दिश्यते “दहरोऽस्मिन्नन्तर आकाशस्तस्मिन्

यदन्तस्तदन्वेष्टव्यम्” इति दहराकाशान्तर्वर्तिनस्ततोऽन्यस्यान्वेष्टव्यत्वेन प्रकृतत्वादिह “एष आत्माऽपहतपाप्मा” इति तस्यैवान्वेष्टव्यस्य निर्देष्टुं युक्तत्वात्; स्यादेतदेवम्, यदि श्रुतिरेव दहराकाशं तदन्तर्वर्तिनं च व्यभाङ्क्ष्यत् व्यभांक्षीत्तु सा, तथा हि “अथ यदिदमस्मिन् ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तर आकाशस्तस्मिन् यदन्तस्तदन्वेष्टव्यम्” इति ब्रह्मपुरशब्देनोपास्यतया सन्निहितपरब्रह्मणः पुरत्वेनोपासकशरीरंनिर्दिश्य तन्मध्यवर्ति च तदवयवभूतं पुण्डरीकाकारमल्पपरिमाणं हृदयं परस्य ब्रह्मणो वेश्मतया अभिधाय सर्वज्ञं सर्वशक्तिमाश्रितवात्सल्यैकजलधिमुपासकानुग्रहाय तस्मिन्वेश्मनि सन्निहितं सूक्ष्मतया ध्येयं दहरा

काशशब्देन निर्द्दिश्य तदन्तर्वर्ति चापहतपाप्मत्वादिस्वभावतो निरस्तनिखिलहेयत्वसत्यकामत्वादिस्वाभाविकानवधिकातिशयकल्याणगुणजातं च ध्येयं “तदन्वेष्टव्यम्” इत्युपदिश्यते । अत्र “तदन्वेष्टव्यम्” इति तच्छब्देन दहराकाशम्, तदन्तवर्र्तिगुणजातं च परामृश्य तदुभयमन्वेष्टव्यमित्युपदिश्यते; “यदिदमस्मिन्

ब्रह्मपुरे दहरं पुण्डरीकं वेश्म” इत्यनूद्य तस्मिन् दहरपुण्डरीकवेश्मनि यो दहराकाशः यच्च तदन्तर्वर्ति गुणजातं

तदुभयमन्वेष्टव्यमिति विधीयत इत्यर्थः । दहराकाशशब्दनिर्द्दिष्टस्य परब्रह्मत्वं “तदस्मिन् यदन्तः” इति निर्द्दिष्टस्य च तद्गुणत्वम् तच्छब्देनोभयं परामृश्योभयस्याप्यन्वेष्टव्यतया विधानं च कथमवगम्यत इति चेत्, तदवहितमनाः शृणु “यावान्मा अयमाकाशस्तावानेषोऽन्तर्हृदय आकाशः” इति दहराकाशस्यातिमहत्तामभिधाय “उभे अस्मिन् द्यावापृथिवी अन्तरेव समाहिते । उभावग्निश्च वायुश्च सूर्याचन्द्रमसावुभौ । विद्युन्नक्षत्राणि” इति प्रकृतमेव दहराकाशमस्मिन्निति निर्द्दिश्य तस्य सर्वजगदाधारत्वमभिधाय “यच्चास्येहास्ति यच्च नास्ति सर्वं तदस्मिन्त्समा

हितम्” इति पुनरप्यस्मिन्निति तमेव दहराकाशं परामृश्य तस्मिन्नस्योपासकस्येह लोके यद्भोग्यजातमस्ति यच्च मनोरथमात्रगोचरमिह नास्ति सर्वं तद्भोग्यजातमस्मिन् दहराकाशे समाहितमिति निरतिशयभोग्यत्वं दहराकाशस्याभिधाय तस्य दहराकाशस्य देहावयवभूतहृदयान्तर्वर्त्तित्वेऽपि देहस्य जराप्रध्वंसादौ सत्यपि

परमकारणतया अतिसूक्ष्मत्वेन निर्विकारत्वमुक्तवा “तत एवैतत्सत्यं ब्रह्मपुरम्” इति तमेव दहराकाशं सत्यभूतं

ब्रह्माख्यं पुरं निखिलजगदावासभूतमित्युपपाद्य “अस्मिन्कामास्समाहिताः” इति दहराकाशमस्मिन्निति निर्दिश्य काम्यभूतांश्च गुणान् कामा इति निर्दिश्य तेषां दहराकाशान्तर्वर्तित्वमुक्तवा तदेव दहराकाशस्य काम्यभूत

कल्याणगुणविशिष्टत्वं तस्यात्मत्वं च “एष आत्माञपहतपाप्मा” इत्यादिना “सत्यसङ्कल्पः” इत्यन्तेन स्फुटीकृत्य “यथा ह्येवेह प्रजा अन्वाविशन्ति” इत्यारभ्य “तेषां सर्वेषु लोकेष्वकामचारो भवति” इत्यन्तेन तदिदं गुणाष्टकं तद्विशिष्टं दहराकाशशब्दनिर्दिष्टमात्मानं चाविदुषामेतद्य्वतिरिक्तभोग्यसिद्धये च कर्म कुर्वतामन्तवत्फलावाप्तिमसत्यसङ्कल्पत्वं चाभिधाय” अथ य इहात्मानमनुविद्य ब्रजन्त्येतांश्च सत्यान् कामांस्तेषां सवेषु लोकेषु कामचारो भवति" इत्यादिना दहराकाशशब्दनिर्दिष्टमात्मानं तदन्तर्वर्तिनश्च काम्यभूतानपहतपाप्म

त्वादिकान् गुणान् विजानतामुदारणसागरस्य तस्य परमपुरुषस्य प्रसादादेव सर्वकामावाप्तिस्सत्यसङ्कल्पता चोच्यते; अतो दहराकाशः परं ब्रह्म, तदन्तर्वर्ति चापहतपाप्मत्वादि काम्यगुणजातम् तदुभयमन्येष्टव्यं विजिज्ञासितव्यमिति चोच्यत इति निश्चीयते । तदेतद्वाक्यकारोऽपि स्पष्टयति “तस्मिन्यदन्तरिति कामव्यपदेशः” इत्यादिना । अत एतेभ्यो हेतुभ्यो दहराकाशः परमेव ब्रह्म ॥

इतश्च दहराकाशः परं ब्रह्म “तद्यथा हिरण्यनिधिं निहितसक्षेत्रज्ञा उपर्युपरि सञ्चरन्तो न विन्देयुरेवमेवेमाः सर्वाः प्रजा अहरहर्गच्छन्त्य एतं ब्रह्मलोकं न विन्दन्त्यनृतेन हि प्रत्यूढाः” इति । एतमिति प्रकृतं दहराकाशं निर्दिश्य तत्राहरहस्सर्वेषां क्षेत्रज्ञानां गमनम्, गन्तव्यस्य तस्य दहराकाशस्य ब्रह्मलोकशब्दनिर्देशश्च दहराकाशस्य परब्रह्मतां गमयतः । कथमनयोरस्य परब्रह्मत्वसाधकत्वमित्यत आह - तथा हि दृष्टमिति । परस्मिन्

ब्रह्मणि सर्वेषां क्षेत्रज्ञानामहरहस्सुषुप्तिकाले गमनमन्यत्राभिधीयमानं दृष्टम् “एवमेव खलु सोम्येमास्सर्वाः प्रजास्सति सम्पद्य न विदुस्सति सम्पत्स्यामह इति” इति “सत आगम्य न विदुस्सत आगच्छामह इति” इति च । तथा ब्रह्मलोकशब्दश्च परस्मिन् ब्रह्मणि दृष्टः “एष ब्रह्मलोकस्सम्राडिति होवाच” इति । माभूदन्यत्र ब्रह्मणि गमनदर्शनम्; एतदेव तु दहराकाशे सर्वेषां क्षेत्रज्ञानां प्रलयकाल इव निरस्तनिखिलदुःखानां सुषुप्तिकालेऽव-स्थानं श्रूयमाणमस्य परब्रह्मत्वे पर्याप्तं लिङ्गम्, तथा ब्रह्मलोकशब्दश्च समानाधिकरणवृत्त्या अस्मिन् दहराकाशे प्रयुज्यमानोऽस्य ब्रह्मत्वे प्रयोगान्तरनिरपेक्षं पर्याप्तं लिङ्गमित्याह - लिङ्गं चेति । निषादस्थपतिन्यायाच्च षष्ठी

समासात्समानाधिकरणसमासौ न्यायः । अथवा “अहरहर्गच्छन्त्यः” इति न सुषुप्तिविषयं गमनमुच्यते; अपि त्वन्तरात्मत्वेन सर्वदा वर्तमानस्य दहराकाशस्य परमपुरुषार्थभूतस्योपर्युपर्यहरहर्गच्छन्त्यः सर्वस्मिन् काले वर्तमानाः तमजानन्त्यस्तं न विन्दन्ति - न लभन्ते; यथा हिरण्यनिधिं निहितं तत्स्थानमजानानास्तदुपरि सर्वदा वर्तमाना अपि न लभन्ते तद्वदित्यर्थः । सेयमेवमन्तरात्मत्वेन स्थितस्य दहराकाशस्योपरि तन्नियमितानां सर्वासां प्रजानामजानतीनां सर्वदा गतिरस्य दहराकाशस्य परब्रह्मतां गमयति । तथा ह्यन्यत्र परस्य ब्रह्मणोऽन्तरात्मतया अवस्थितस्य स्वनियाम्याभिः स्वस्मिन् वर्तमानाभिः प्रजाभिरवेदनं दृष्टम् । यथा अन्तर्यामिब्राह्मणे “य आत्मनि तिष्ठन्नात्मनोऽन्तरो यमात्मा न वेद यस्यात्मा शरीरं य आत्मानमन्तरो यमयति” इति, “अदृष्टो द्रष्टा अश्रुतः श्रोता” इति च । माभूदन्यत्र दर्शनम्; स्वयमेव त्वियं निधिदृष्टान्तावगतपरमपुरुषार्थभावस्यास्य हृदयस्थस्योपरि तदाधारतयाऽहरहस्सर्वदा सर्वासां प्रजानामजानतीनां गतिरस्य परब्रह्मत्वे पर्याप्तं लिङ्गम् ॥ इतश्च दहराकाशः परं ब्रह्म

“अथ य आत्मा” इति प्रकृतं दहराकाशं निर्दिश्य “स सेतुर्विधृतिरेषां लोकानामसम्भेदाय” इत्यस्मिन् जगद्विधरणं श्रूयमाणं दहराकाशस्य परब्रह्मतां गमयति; जगद्विधरणं हि परस्य ब्रह्मणो महिमा, “एष सर्वेश्वर एष सर्वभूताधिपतिरेष भूतपाल एष सेतुर्विधरण एषां लोकानामसम्भेदाय” इति, “एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतः” इत्यादिभ्यः । स चायं तस्य परस्य ब्रह्मणो धृत्याख्यो महिमाऽस्मिन् दहराकाश उपलभ्यते; अतो दहराकाशः परं ब्रह्म ॥

आकाशशब्दश्च परस्मिन् ब्रह्मणि प्रसिद्धः “को ह्येवान्यात्कः प्राण्यात् । यदेष आकाश आनन्दो न स्यात्” “सर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्ते” इत्यादिषु; अपहतपाप्मत्वादिगुणसनाथा प्रसिद्धिर्भूताकाशप्रसिद्धेर्बलीयसीत्यभिप्रायः ।

एवं तावद्द्रहराकाशस्य भूताकाशत्वं प्रतिक्षिप्तम् । अथेदानीं दहराकाशस्य प्रत्यगात्मत्वमाशङ्कय निराकर्तुमुपक्रमते -

यदुक्तं वोक्यशेषवशाद्दहराकाशः परं ब्रह्मेति । तदयुक्तम्; वाक्यशेषे परस्मादितरस्य जीवस्यैव साक्षात्परामर्शात् “अथ य एष सम्प्रसादोऽस्माच्छरीरात् समुत्थाय परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यदन्ते एष आत्मेति होवाच एतदमृतमभयमेतद्ब्रह्म” इति । यद्यपि “दहरोऽस्मिन्नन्तर आकाशः” इति हृदयपुण्डरीकमध्यवर्तितयोपदिष्टस्याकाशस्योपमानोपमेयभावाद्यसम्भवाद्भूताकाशत्वं न सम्भवति, तथापि वाक्यशेषवशात् प्रत्यगात्मत्वं युक्तमाश्रयितुम् । आकाशशब्दोऽपि प्रकाशादियोगाज्जीव एव वर्तिष्यत इति चेत् अत्रोत्तरम्- नासम्भवादिति । नायं जीवः, न ह्यपहतपाप्मत्वादयो गुणा जीवे सम्भवन्ति ।

उत्तरात्- प्रजापतिवाक्यात् जीवस्यैवापहतपाप्मत्वादिगुणयोगो निश्चीयत इति चेत्, एतदुक्तं भवति; प्रजापतिवाक्यं जीवपरमेव । तथाहि “य आत्माऽपहतपाप्मा विजरो विमृत्युर्विशोको विजिघत्सोऽपिपासस्सत्यकामस्सत्यसङ्कल्पस्सोऽन्वेष्टव्यस्य विजिज्ञासितव्यः स सर्वांश्च कामान् यस्तमात्मानमनुविद्य विजानाति” इति प्रजापतिवचनमैतिह्यरूपेणोपश्रुत्यान्वेष्टव्यात्मस्वरूपजिज्ञासया प्रजापतिमुपसेदुषे मघवते प्रजापतिर्जागरितस्वप्नसुषुप्त्यवस्थं जीवात्मानं सशरीरं क्रमेण शुश्रूषुयोग्यतापरिचिक्षिषयोपदिश्य तत्र तत्र भोग्यमपश्यते परिशुद्धात्मस्वरूपोपदेशयोग्याय तस्मै मघवते “मघवन् मर्त्यं वा इदं शरीरमात्तं मृत्युना तदस्यामृतस्याशरीरस्या

त्मनोञधिष्ठान्तम्” इति शरीरस्याधिष्ठानतामात्मनश्चाधिष्ठातृतामशरीरस्य च तस्यामृतत्वस्वरूपतां चोक्तवा “न ह वै सशरीरस्य सतः प्रियाप्रिययोरपहतिरस्ति । अशरीरं वा व सन्तं न प्रियाप्रिये स्पृशतः” इति कर्मारब्धशरीरयोगिनस्तदनुगुणसुखदुःखभागित्वरूपनार्थं तद्विमोक्षे च तदभावमभिधाय “एषमेवैष सम्प्रसादोऽस्माच्छरीरात्मसमुत्थाय परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते” इति जीवात्मनः स्वरूपमेव शरीरR

वियुक्तमुपदिदेश । “स उत्तमः पुरुषः स तत्र पर्येति जक्षन् क्रीडन् रममाणः स्त्रीभिर्वा यानैर्वा ज्ञातिभिर्वा नोपजनं

स्मरन्निदं शरीरम्” इति प्राप्यस्य परस्य ज्योतिषः पुरुषोत्तमत्वम् निवृत्ततिरोधानस्य परं ज्योतिरुपसम्पन्नस्य प्रत्यगात्मनो ब्रह्मलोके यथेष्टभोगावाप्तिं प्रियाप्रियावियुक्तकमर्निमित्तशरीराद्यपुरुषार्थाननुसंधानं चाभिधाय “अथ यत्रैतदाकाशमनुविषण्णं चक्षुः स चाक्षुषः पुरुषो दर्शनाय चक्षुरथ यो वेदेदं जिघ्राणीति स आत्मा गन्धाय घ्राणमथ यो वेदेदमभिव्याहरणीति स आत्माऽभिव्याहाराय वागथ यो वेदेदं ृणवानीति स आत्मा श्रवणाय श्रोत्रमथ यो वेदेदं मन्वानीति स आत्मा मनोऽस्य देव चक्षुः” इति चक्षुरादीनां करणत्वं रूपादीनां ज्ञेयत्वमस्य च ज्ञातृत्वं प्रदर्श्य तत एव शरीरेन्द्रियेभ्योऽस्य व्यतिरेकमुपपाद्य “स वा एष एतेन दिव्येन चक्षुषा मनसैतान् कामान् पश्यन् रमते य एते ब्रह्मलोके” इति तस्यैव विधूतकमर्निमित्तशरीरेन्द्रियस्य मनश्शब्दाभिहितेन दिव्येन स्वाभाविकेन ज्ञानेन सर्वकामानुभवमुक्तवा “तं वा एतं देवा आत्मानमुपासते तस्मात्तेषां सर्वे च लोका आप्ताः सर्वे च कामाः” इत्येवंसवधमात्मानं ज्ञानिनो जानन्तीत्यभिधाय “सर्वांश्च लोकानाप्नोति सर्वांश्च कामान् यस्तमात्मानमनुविद्य विजानातीति ह प्रजापतिरुवाच” इत्येवंविधमात्मानं विदुषस्सर्वलोकसर्वकामावाप्त्युपलक्षितं ब्रह्मानुभवं फलमभिधायोपसंहृतम्; अतस्तत्रापहतपाप्मत्वादिगुणको ज्ञातव्यतया प्रक्रान्तो जीव एवेत्यवगतम्; अतो जीवस्यापहतपाप्मत्वादयस्यम्भवन्ति; अतो दहरवाक्यशेषे श्रूयमाणस्य जीवस्यापहतपाप्मत्वादिगुणसम्भवात्स एव दहराकाश इति निश्चीयत इति चेत् इति ।

तत्राह - आविर्भूतस्वरूपस्त्विति । पूर्वमनृततिरोहितापहतपाप्मत्वादिगुणकः स्वस्वरूपः पश्चाद्विमुक्तकर्मबन्धः शरीरात्समुत्थितः परं ज्योतिरुपसम्पन्नः आविर्भूतस्वरूपस्सन्नपहतपाप्मत्वादिगुणविशिष्टस्तत्र प्रजापतिवाक्येऽभिधीयते; दहरवाक्ये त्वतिरोहितस्वभावापहतपाप्मत्वादिविशिष्ट एव दहराकाशः प्रतीयते । आविर्भूतस्वरूपस्यापि जीवस्यासम्भावनीयास्सेतुत्वसर्वलोकविधरणत्वादयस्सत्यशब्दनिर्वचनावगतं

चेतनाचेतनयोर्नियन्तृत्वं दहराकाशस्य परब्रह्मतां साधयन्ति । सेतुत्वसर्वलोकविधरणत्वादय आविर्भूतस्वरूपस्यापि न सम्भवन्तीति “जगद्य्वापारर्वजम्” इत्यत्रोपपादयिष्यामः ।

यद्येवं दहरवाक्ये “अथ य एष सम्प्रदायः” इत्यादिना जीवप्रस्तावः किमर्थ इति चेत्तत्राह -

दहराकाशस्यैवापहतपाप्मत्वजगद्विधरणत्वोदिवन्मुक्तस्य तदुपसम्पत्त्याऽपहतपाप्मत्वादिकल्याणगुणविशिष्टस्वाभाविकरूपप्राप्तिकथनेन तद्धेतुत्वरूपं परमपुरुषासाधारणं गुणमुपदेष्टुं प्रजापतिवाक्योक्तस्य जीवस्यात्र परामर्शः । प्रजापतिवाक्ये च मुक्तात्मस्वरूपयाथात्म्यविज्ञानं दहरविद्योपयोगितयोक्तम्; ब्रह्म प्रेप्सोर्हि जीवात्मनः स्वस्वरूपं च ज्ञातव्यमेव स्वयमपि कल्याणगुण एव सन्ननवधिकातिशयासङ्खयेयकल्याणगुणगणं परं ब्रह्मानुभविष्यतीति ब्रह्मोपासनफलान्तर्गतत्वात्स्वस्वरूपयाथात्म्यविज्ञानस्य । “सर्वांश्च लोकानाप्नोति सर्वांश्च कामान्” “स तत्र पर्येति जक्षन् क्रीडन्” इत्यादिकं प्रजापतिवाक्ये कीर्त्यमानं फलमपि दहरविद्याफलमेव ॥

“दहरोऽस्मिन्” इत्यल्पपरिणामश्रुतिराराग्रोपमितस्य जीवस्यैवोपपद्यते, न तु सर्वस्माज्ज्यायसो ब्रह्मण

इति चेत्, तत्र यदुत्तरं वक्तव्यं तत्पूर्वमेवोक्तम् “निचाय्यत्वादेवम्” इत्यनेन । अतो दहराकाशोऽनाघ्राताविद्याद्यशेषदोषगन्धस्स्वाभाविकनिरतिशयज्ञानबलैश्वर्यवीर्यशक्तितेजःप्रकृत्यपरिमितोदारगुणसागरः पुरुषोत्तम एव । प्रजापतिवाक्यनिर्द्दिष्टस्तु “घ्नन्ति त्वेवैनं विच्छादयन्ति” इत्येवमादिभिरवगतकर्मनिमित्तदेहपरिग्रहः पश्चात्परञ्ज्योतिरुपसम्पद्याविर्भूतापहतपाप्मत्वादिगुणस्वस्वरूप इति न दहराकाशः ॥ इतश्चैतदेवम् -

तस्य दहराकाशस्य परस्य ब्रह्मणः, अनुकारात् अयमपहतपाप्मत्वादिगुणको विमुक्तबन्धः प्रत्यगात्मा न दहराकाशः । तदनुकारः- तत्साम्यम् । तथा हि प्रत्यगात्मनो विमुक्तस्य परब्रह्मानुकारः श्रूयते “यदा पश्यः पश्यते रुक्मवर्णं कर्तारमीशं पुरुषं ब्रह्मयोनिम् । तदाविद्वान् पुण्यपापे विधूय निरञ्जनः परमसाम्यमुपैति” इति । अतोऽनुकर्ता प्रजापतिवाक्यनिर्द्दिष्टः । अनुकार्यं ब्रह्म दहराकाशः ॥

संसारिणोऽपि मुक्तावस्थायां परमसाम्यापत्तिलक्षणः परब्रह्मानुकारस्मर्यते “इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः । सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च” इति । केचित् “अनुकृतेस्तस्य च” “अपि स्मर्यते” इति सूत्रद्वयमधिकरणान्तरं “तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति” इत्यस्याश्श्रुतेः परं ब्रह्मपरत्वनिर्णयाय प्रवृत्तं वदन्ति । तत्तु “अदृश्यत्वाधिकरणद्वयेन तस्य प्रकरणस्य परब्रह्मविषयत्वप्रतिपादनात् “ज्योतिश्चरणाभिधानात्” इत्यादिषु परस्य ब्रह्मणो भारूपत्वावगतेश्च पूर्वपक्षानुत्थानादयुक्तम्; सूत्राक्षरक्षरवैरूप्यं च ॥ दहराधिकरणं समाप्तम् ॥