20 अक्षराधिकरणम्

वाजसनेयिनो गार्गिप्रश्ने समामनन्ति “सहोवाचैतद्वैतदक्षरं गार्गि ब्राह्मणा अभिवदन्ति

अस्थूलमनण्वह्रस्वमदीर्धमलोहितमस्नेहमच्छायम्” इत्यादि । तत्र संशयः, किमेतदक्षरं प्रधानम्, जीवो वा; उत परमात्मा ? इति । किं युक्तम् ? प्रधानमिति । कुतः “अक्षरात्परतः परः” इत्यादिष्वक्षरशब्दस्य प्रधाने प्रयोगदर्शनादस्थूलत्वादीनां च तत्र समन्वयात् । “यथा तदक्षरमधिगम्यते” इत्यादिषु परस्मिन्नप्यक्षरशब्दो दृश्यत इति चेत् न, प्रमाणान्तरप्रसिद्धश्रुतिप्रसिद्धयोः प्रमाणान्तरप्रसिद्धस्य प्रथमप्रतीतेः, प्रतीतपरिग्रहे विरोधाभावात् । किञ्च “यदूर्ध्वं गार्गि दिवो यदर्वाक् पृथिव्याः” इत्यारभ्य सर्वस्य कालत्रितयवर्त्तिनः कारणभूताकाशाधारत्वे प्रतिपादिते “कस्मिन्नु खल्वाकाश ओतश्च प्रोतश्च” इत्याकाशस्यापि कारणं तदाधारभूतं किमिति पृष्टे प्रत्युच्यमानमक्षरं सर्वविकारकारणतया तदाधारभूतं प्रमाणान्तरप्रसिद्धं प्रधानमिति प्रतीयते, अतोऽक्षरं प्रधानम् ।

इति प्राप्त उच्यते- अक्षरमम्बरान्तधृतेः । अक्षरम् परं ब्रह्म । कुतः ? अम्बरान्तधृतेः, अम्बरस्य- आकाशस्य

अन्तः पारभूतम् अव्याकृतमम्बरान्तः, तस्य धृतेः तदाधारतयाऽस्याक्षरस्योपदेशादिति यावत् । अयमर्थः “कस्मिन्नु खल्वाकाश ओतश्च प्रोतश्च” इत्यत्राकाशशब्दनिर्दिष्टं न वायुमदम्बरम्, अपि तु तत्पारभूतमव्याकृतम्, अतस्तस्याव्याकृतस्याप्याधारत्वेनोच्यमानमक्षरं नाव्याकृतं भवितुमर्हतीति । नन्वाकाशशब्दनिर्द्दिष्टो न वायुमानाति कथमवगम्यते ? उच्यते “यदूर्ध्वं गार्गि दिवो यदर्वाक् पृथिव्या यदन्तरा द्यावापृथिवी इमे

एवं तर्ह्यक्षरशब्दनिर्दिष्टो जीवोऽस्तु, तस्य भूतसूक्ष्मपर्यन्तस्य कृत्स्नस्याचिद्वस्तुन आधारत्वोपपत्तेः, अस्थूलत्वाद्युच्यमानविशेषणोपपत्तेश्च । “अव्यक्तमक्षरे लीयते” “यस्याव्यक्तं शरीरं यस्याक्षरं शरीरम्” “क्षरस्सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते” इत्यादिषु प्रत्यगात्मन्यप्यक्षरशब्दप्रयोगदर्शनादित्यत्रोत्तरम् -

सा चाम्बरान्तधृतिरस्याक्षरस्य प्रशासनादेव भवतीत्युपदिश्यते “एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतः, एतस्य वा अक्षरस्य प्रशासने गार्गि द्यावापृथिव्यौ विधृते तिष्ठतः, एतस्य वा अक्षरस्य प्रशासने गागिर् निमेषा मुहूर्ता अहोरात्राण्यर्द्धमासा मासा ऋृतवस्सम्वत्सरा इति विधृतास्तिष्ठन्ति” इत्यादिना । प्रशासनम्- प्रकृष्ठं शासनम् । न चेदृशं स्वशासनाधीनसर्ववस्तुविधरणं बद्धमुक्तोभयावस्थस्यापि

प्रत्यगात्मनः सम्भवति, अतः पुरुषोत्तम एव प्रशासित्रक्षरम् ॥

अन्यभावः- अन्यत्वम्, प्रधानादिभावः । अस्याक्षरस्य परमपुरुषादन्यत्वं वाक्यशेषे व्यावर्त्यते “तद्वा एतदक्षरं गार्ग्यदृष्टं द्रष्ट्रश्रुतं श्रोत्रमतं मन्त्रविज्ञातं विज्ञातृ नान्यदतोऽस्ति द्रष्टृ नान्यदतोऽस्ति श्रोतृ नान्यदतोऽस्ति मन्तृ

नान्यदतोऽस्ति विज्ञातृ एतस्मिन्नु खल्वक्षरे गार्ग्याकाश ओतश्च प्रोतश्च” इति । अत्र द्रष्टृत्वश्रोतृत्वाद्यु

पदेशादस्याक्षरस्याचेतनभूतप्रधानभावो व्यावर्त्त्यते; सर्वैरदृष्टस्यैव सतस्सर्वस्य द्रष्टृत्वाद्युपदेशाच्च प्रत्यगात्मभावो व्यावर्त्यते, अत इयमन्यभावव्यावृत्तिरस्याक्षरस्य परमपुरुषतां द्रढयति । एवं वाऽन्यभावव्यावृत्तिः, अन्यस्य सद्भावव्यावृत्तिरन्यभावव्यावृत्तिः, यथैतदक्षरमन्यैरदृष्टं सदन्येषां द्रष्टृ च सत् स्वव्यतिरिक्तस्य सम

स्तस्याधारभूतम्, एवमनेनादृष्टमेतस्य द्रष्टृ च सदेतस्याधारभूतमन्यन्नास्तीति वदन् “नान्यदतोऽस्ति द्रष्टृ”

इत्यादिवाक्यशेषोऽत्यस्य सद्भावं व्यावर्तयन्नस्याक्षरस्य प्रधानभावं प्रत्यगात्मभावं च प्रतिषेधति । किञ्च “एतस्य वा अक्षरस्य प्रशासने गार्गि ददतो मनुष्याः प्रशंसन्ति यजमानं देवा दर्वीपितरोऽन्वायत्ताः” इति श्रौतं स्मार्तञ्च यागदानहोमादिकं सर्वं कर्म यस्याज्ञया प्रवर्तते, तदक्षरं परब्रह्मभूतः पुरुषोत्तम एवेति विज्ञायते । अपि च “यो वा एतदक्षरं गार्ग्यविदित्वाऽस्मिंल्लोके जुहोति यजते तपस्तप्यते बहूनि वर्षसहस्राण्यन्तवदेवास्य तद्भवति यो वा एतदक्षरं गार्ग्यविदित्वास्माल्लोकात्प्रैति स कृपणः अथ य एतदक्षरं गार्गि विदित्वाऽस्माल्लोकात्प्रैति स ब्राह्मणः” इति यदज्ञानात्संसारप्राप्तिः यज्ज्ञानाच्चामृतत्वप्राप्तिस्तदक्षरं परं ब्रह्मैवेति सिद्धम् ॥