19 भूमाधिकरणम्

इदमामनन्ति च्छन्दोगाः “यत्र नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति स भूमा । अथ यत्रान्यत्पश्यत्यन्यच्छृणोत्यन्यद्विजानाति तदल्पम्” इति । अत्रायं भूमशब्दो भावप्रत्ययान्तो व्युत्पाद्यते । तथा हि; पृथ्वादिषु बहुशब्दः पठ्यते, ततः “पृथ्वादिभ्य इमनिज्वा” इति इमनिच्प्रत्यये कृते

“बहोर्लोपो भू च बहोः” इति प्रकृतिप्रत्यययोर्विकारे भूमेति भवति । भूमा- बहुत्वमित्यर्थः । अत्र चायं बहुशब्दो वैपुल्यवाची, न सङ्खयावाची; “यत्रान्यत्पश्यति तदल्पम्” इत्यल्पप्रतियोगित्वश्रवणात् । अन्यशब्दनिर्द्दिष्टधर्मिप्रतियोगिप्रतिपादनपरत्वादेव धर्मिपरश्च निश्चीयते; न धर्ममात्रपरः । तदेवं भूमेति विपुल इत्यर्थः । वैपुल्यविशेष्यश्चेहात्मेत्यवगतः “तरति शोकमात्मवित्” इति प्रक्रम्य भूमविज्ञानमुपदिश्य “आत्मैवेदं सर्वम्” इति तस्यैवोपसंहारात् । अत्र संशय्यते, किमयं भूमगुण विशिष्टः प्रत्यगात्मा, उत परमात्मा ? इति । किं युक्तम् ?

प्रत्यगात्मेति । कुतः ? “श्रुतं ह्येवमेवं भगवद्दृशेभ्यस्तरति शोकमात्मवित्” इत्यात्मजिज्ञासयोपसेदुषे नारदाय नामादिप्राणपर्यन्तेषु उपास्यतयोपदिष्टेषु “अस्ति भगवो नामनो भूयः” “अस्ति भगवो वाचो भूयः” इत्यादयः प्रश्नाः, “वाग्वा व नाम्नो भूयसी” “मनो वाव वाचो भूयः” इत्यादीनि च प्रतिवचनानि प्राणात् प्राचीनेषु दृश्यन्ते; प्राणो तु न पश्यामः, अतः प्राणपर्यन्त एवायमात्मोपदेश इति प्रतीयते, तेनेह प्राणशब्दनिर्द्दिष्टः प्राणसहचारी प्रत्यगात्मैव, न वायुविशेषमात्रम् । “प्राणो ह पिता प्राणो ह माता” इत्यादयश्च प्राणस्य चेतनतामवगमयन्ति “पितृहा मातृहा” इत्यादिना सप्राणेषु नितृप्रभृतिषूपमर्द्दकारिणि हिंसकत्वनिमित्तोपक्रोशवचनात्तेष्वेव विगतप्राणेष्वत्यन्तोपमर्दकारिण्यप्युपक्रोशाभाववचनाच्च हिंसायोग्यश्चेतन एव प्राणशब्दनिर्द्दिष्टः । अप्राणेषु स्थावरेष्वपि चेतनेषूपमर्द्दभावाभावयोर्हिंसातदभावदर्शनादयं हिंसायोग्यतया निर्द्दिष्टः प्राणः प्रत्य

गात्मैवेति निश्चीयते, अत एव च अरनाभिदृष्टान्ताद्युपन्यासेन प्राणशब्दनिर्द्दिष्टः पर इति न भ्रमितव्यम् । परस्य हिंसाप्रसङ्गाभावात्, जीवादितरस्य तद्भोग्यभोगोपकरणभूतस्य कृत्स्नस्याचिद्वस्तुनो जीवायत्तस्थितित्वेन प्रत्यगात्मन्येवारनाभिदृष्टान्तोपपत्तेश्च । अयमेव च प्राणशब्दनिर्द्दिष्टो भूमा, “अस्ति भगवः प्राणाद्भूयः” इति प्रश्नस्य “अदो वाव प्राणाद्भूयः” इति प्रतिवचनस्य चाभावाद्भूमसंशब्दनात्प्राक्प्राणप्रकरणस्याविच्छेदात् । किञ्च प्राणवेदिनोऽतिवादित्वमुक्तवा तमेव “एष तु वा अतिवदति” इति प्रत्यभिज्ञाप्य “यस्सत्येनातिवदति” इति तस्य सत्यवदनं प्राणोपासनाङ्गतयोपदिश्य उपादेयस्य सत्यवदनस्य शेषितया पूर्वनिर्दिष्टप्राणयाथात्म्यविज्ञानं “यदा वै विजानात्यथ सत्यं वदति” इत्युपदिश्य तत्सिध्द्यथर्ं च मननश्रद्धानिष्ठाप्रयत्नानुपदिश्य तदारम्भाय च प्राप्य भूतप्राणशब्दनिर्दिष्टप्रत्यगात्मस्वरूपस्य सुखरूपताज्ञानमुपदिश्य तस्य च सुखस्य विपुलता “भूमा त्वेव विजिज्ञासितव्यः” इत्युपदिश्यते । तदेवं प्रत्यगात्मन एवाविद्यावियुक्तं रूपं विपुलसुखमित्युपदिष्टमिति “तरति शोकमात्मवित्” इत्युपक्रमाविरोधश्च; अतो भूमगुणविशिष्टः प्रत्यगात्मा यत एवं भूमगुणविशिष्टः प्रत्यगात्मा अत एवाहमर्थे प्रत्यगात्मनि “अहमेवाधस्तादहमुपरिष्टात्” इत्यारभ्य “अहमेवेदं सर्वम्” इति प्रत्यगात्मनो वैभवमुपदिशति । एवं प्रत्यगात्मत्वे निश्चिते सति तदनुगुणतया वाक्यशेषो नेतव्य इति ।

एवं प्राप्तेऽभिधीयते- भूमा सम्प्रसादादध्युपदेशात् । भूमगुणविशिष्टो न प्रत्यगात्मा, अपि तु परमात्मा । कुतः ? सम्प्रसादादध्युपदेशात्- सम्प्रसादः प्रत्यगात्मा, “एष सम्प्रसादोऽस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते” इत्युपनिषत्प्रसिद्धेः । संप्रसादात्- प्रत्यगात्मनोऽधिकतया भूमविशिष्टस्य सत्यशब्दाभिधेयस्योपदेशादित्यर्थः । सत्यशब्दाभिधेयं च परं बह्म । एतदुक्तं भवति, यथा नामादिषु प्राणपर्यन्तेषु पूर्वपूर्वाधिकतयोत्तरोत्तराभिधानार्त्पेवेभ्य उत्तरेषामर्थान्तरत्वम्; एवं प्राणशब्दनिर्दिष्टात्प्रत्यगात्मनोऽधिकतया निर्द्दिष्टस्सत्यशब्दाभिधेयस्तस्मादर्थान्तरभूत एव; सत्यशब्दनिर्द्दिष्ट एव भूमेति सत्याख्यं परं ब्रह्मैव भूमेत्युपदिश्यत इति । तदाह वृत्तिकारः “भूमा त्वेवेति भूमा ब्रह्म नामादिपरम्परया आत्मन ऊर्ध्वमस्योपदेशात्” इति । प्राणशब्दनिर्द्दिष्टादधिकतया सत्यस्योपदेशः कथमवगम्यत इति चेत् “स वा एष एवं पश्यन्नेवं मन्वान

एवं विजानन्नतिवादी भवति” इति प्राणविदोऽतिवादित्वमुक्तवा “एष तु वा अतिवदति यस्सत्येनातिवदति” इति सत्यवेदित्वेनातिवादिनं तुशब्देन पूर्वस्मादतिवादिनो व्यावतर्यति । अत एव “एष तु वा अतिवदति” इत्यत्र प्राणातिवादिनो न प्रत्यभिज्ञा, अतोऽस्यातिवादित्वनिमित्तं सत्यं पूर्वातिवादित्वनिमित्तात्प्राणादधिकमिति विज्ञायते । ननु च प्राणवेदिन एव सत्यवदनमङ्गत्वेनोपदिष्टम्; अतः प्राणप्रकरणाविच्छेद इत्युक्तम् । नैतद्युक्तम्; तुशब्देन ह्यतिवाद्येवान्यः प्रतीयते, न तु तस्यैवातिवादिनः सत्यवदनाङ्गविशिष्टतामात्रम् । “एष तु वा अग्निहोत्री यस्सत्यं वदति” इत्यादिष्वग्निहोत्र्यन्तराप्रतीतेः प्रतीतस्यैवाग्निहोत्रिणस्सत्यवदनाङ्गविधानमिति क्लिष्टा गति

राश्रीयते, अत्र त्वतिवाद्यन्तरत्वनिमित्तं सत्यशब्दाभिधेयं परं ब्रह्म प्रतीयते । सत्यशब्दश्च “सत्यं ज्ञानमनन्तं ब्रह्म” इत्यादिषु परस्मिन् ब्रह्मणि प्रयुक्तः, अतस्तन्निष्ठस्यातिवादिनः पूर्वस्मादधिकत्वं सम्भवतीति वाक्यस्वरससिद्धमन्यत्वं न बाधितव्यम् । अतिवादित्वं हि वस्त्वन्तरात्पुरुषार्थतया अतिक्रान्तस्वोपास्यवस्तुवादित्वम्; नामाद्याशापर्यन्तोपास्यवस्त्वतिक्रान्तस्वोपास्यप्राणशब्दनिर्द्दिष्टप्रत्यगात्मवादित्वात्प्राणविदोऽतिबादित्वम्; तस्यापि सातिशयपुरुषार्थत्वान्निरतिशयपुरुषार्थतयोपास्यपरब्रह्मवादिन एव साक्षादतिवादित्वमिति “एष तु वा अतिवदति यस्सत्येनातिवदति” इत्युक्तम् । सत्येनेतीत्थम्भूतलक्षणो तृतीया; सत्येन परेण ब्रह्मणोपास्येनोपलक्षितो योऽतिवदतीत्यर्थः । अत एवैवं शिष्यः प्रार्थयते “सोऽहं भगवस्सत्येनातिवदानि” इति । आचार्यश्च “सत्यं त्वेव विजिज्ञासितव्यम्” इत्याह । “आत्मनः प्राणः” इति च प्राणशब्दनिर्द्दिष्टस्यात्मन

उत्पत्तिरुच्यते; अतः “तरति शोकमात्मवित्” इति प्रक्रान्त आत्मा प्राणशब्दनिर्द्दिष्टादन्य इति गम्यते । “यत्तूक्तम्” “अस्ति भगवः प्राणाद्भूयः” इति प्रश्नस्य “अदो वाव प्राणाद्भूयः” इति प्रतिवचनस्य चादर्शनात्प्रक्रान्त आत्मोपदेशः प्राणोपदेशपर्यवसानो गम्यत इति । तदयुक्तम्, न हि प्रश्नप्रतिवचनाभ्यामेवार्थान्तरत्वं गम्यते; प्रमाणान्तरेणापि तत्सम्भवात् । उक्तं च प्रमाणान्तरम् । “अस्ति भगवः प्राणाद्भूयः” इत्यपृच्छतोऽयमभिप्रायः नामादिष्वाशापर्यन्तेष्वचेतनेषु पुरुषार्थभूयस्तया पूर्वपूर्वमतिक्रान्तेष्वप्युत्तरोत्तरेषूपदिष्टेषु तत्तद्वेदिन आचार्येणातिवादित्वं नोक्तम्, प्राणशब्दनिर्दिष्टप्रत्यगात्मयाथात्म्यवेदिनस्तु पुरुषार्थभूयस्त्वातिशयं मन्वानेन “स वा एष एवं पश्यन्नेवं मन्वान एवं विजानन्नतिवादी भवति” इत्यतिक्रान्तवस्तुवादित्वमुक्तम्; अतोऽत्रैवात्मोपदेशस्समाप्त इति मत्वा शिष्यो भूयो न पप्रच्छ । आचार्यस्त्विदमपि सातिशयं मत्वा निरतिशयपुरुषार्थभूतं सत्यशब्दाभिधेयं परं ब्रह्म “एष तु वा अतिवदति यस्सत्येनाति वदति” इति स्वयमेवोपचिक्षेप । शिष्योऽपि

परमपुरुषार्थरूपे परस्मिन् ब्रह्मण्युपक्षिप्ते तत्स्वरूपतदुपासनयाथात्म्यबुभुत्सया “सोऽहं भगवस्सत्त्येनातिवदानि” इति प्रार्थयामास । ततो ब्रह्मसाक्षात्कारनिमित्तातिवादित्वसिद्धये ब्रह्मसाक्षात्कारोपायभूतं ब्रह्मोपासनम् “सत्यं त्वेव विजिज्ञासितव्यम्” इत्युपदिश्य तदुपायभूतं ब्रह्ममननं “मतिस्त्वेव विजिज्ञासितव्या” इत्युपदिश्य श्रवणप्रतिष्ठार्थत्वान्मननस्य मननोपदेशेन श्रवणमर्थसिद्धं मत्वा श्रवणोपायभूतां ब्रह्मणि श्रद्धां “श्रद्धा त्वेव विजिज्ञासितव्या” इत्युपदिश्य तदुपायभूतां च तन्निष्ठां “निष्ठा त्वेव विजिज्ञासितव्या” इत्युपदिश्य तदुपायभूतां तदुद्योगप्रयत्नरूपां कृतिमपि “कृतिस्त्वेव विजिज्ञासितव्या” इत्युपदिश्य श्रवणाद्युपक्रमरूपकृतिसिद्धये

प्राप्यभूतस्य सत्यशब्दाभिहितस्य ब्रह्मणः सुखरूपता ज्ञातव्येति" “सुखं त्वेव विजिज्ञासितव्यम्” इत्युपदिश्य निरतिशयविपुलमेव सुखं परमपुरुषार्थरूपं भवतीति तस्यैव ब्रह्मणः सुखरूपस्य निरतिशयविपुलता ज्ञातव्येति “भूमा त्वेव विजिज्ञासितव्यः” इत्युपदिश्य निरतिशयविपुलसुखरूपस्य ब्रह्मणो लक्षणमिदमुच्यते “यत्र नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति स भूमा” इति । अयमर्थः, अनवधिकातिशयसुखरूपे ब्रह्मण्यनभूयमाने ततोऽन्यत्किमपि न पश्यत्वनुभविता, ब्रह्मस्वरूपतद्विभूत्यन्तर्गतत्वाच्च कृत्स्नस्य वस्तुजा

तस्य; अत ऐश्वर्यापरपर्यायविभूतिगुणविशिष्टं निरतिशयसुखरूपं ब्रह्मानुभवस्तद्य्वतिरिक्तस्य वस्तुनोऽभावादेव किमप्यन्यन्न पश्यति, अनुभाव्यस्य सर्वस्य सुखरूपत्वादेव दुःखं च न पश्यति; तदेव हि सुखम् यदनुभूयमानं पुरुषानुकूलं भवति । ननु चेदमेव जगद्ब्रह्मणोऽन्यतया अनुभूयमानं दुःखरूपं परिमितसुखरूपं च भवत्कथमिव ब्रह्मविभूतित्वेन तदात्मकतया अनुभूयमानं सुखरूपमेव भवेत् ? उच्यते; कर्मवश्यानां क्षेत्रज्ञानां ब्रह्मणोऽन्यत्वेनानुभूयमानं कृत्स्नं जगत्तत्तत्कर्मानुरूपं दुःखं च परिमितसुखं च भवति अतो ब्रह्मणोऽन्यतया परिमितसुखत्वेन दुःखत्वेन च जगदनुभवस्य कर्मनिमित्तत्वात्कर्मरूपाविद्याविमुक्तस्य तदेव जगद्विभूतिगुण

विशिष्टब्रह्मानुभवान्तर्गतं सुखमेव भवति । यथा पित्तोपहतेन पीयमानं पयः पित्ततारतम्येनाल्पसुखं विपरीतं च भवति, तदेव पयः पित्तानुपहतस्य सुखायैव भवति; यथैव राजपुत्रस्य पितुर्लीलोपकरणमतथात्वेनानुसन्धीयमानं प्रियत्वमनुपगतं तथात्वानुसन्धाने प्रियतमं भवति; तथा निरतिशयानन्दस्वरूपस्य ब्रह्मणोऽनवधिकातिशयासङ्खयेयकल्याणगुणाकरस्य लीलोपकरणं तदात्मकं चानुसन्धीयमानं जगन्निरतिशयप्रीतये भवत्येव; अतो जगदैश्वर्यविशिष्टमनवधिकातिशयसुखरूपं ब्रह्मानुभवंस्ततोन्यत्किमपि न पश्यति, दुःखं च न पश्यति । एतदेवोपपादयति वाक्यशेषः “स वा एष एवं पश्यन्नेवं मन्वान एवं विजानन्नात्मरतिरात्मक्रीड आत्ममिथुन आत्मानन्दः स स्वराड्भवति तस्य सर्वेषु लोकेषु कामचारो भवति अथ येऽन्यथाऽतो विदुरन्यराजानस्ते क्षय्यलोका भवन्ति तेषां सर्वेषु लोकेष्वकामचारो भवति” इति । स्वराट्- अकर्मवश्यः । अन्यराजानः- कर्मवश्याः । तथा “न पश्यो मृत्युं पश्यति न रोगं नोत दुःखताम् । सर्वं ह पश्यः पश्यति सर्वमाप्नोति सर्वशः” इति च । निरतिशयसुखरूपत्वं च ब्रह्मणः “आनन्दमयोऽभ्यासात्” इत्यत्र प्रपञ्चितम् । अतः प्राणशब्दनिर्द्दिष्टात्प्रत्यगात्मनोऽर्थान्तरभूतस्य सत्यशब्दाभिधेयस्य ब्रह्मणो भूमेत्युपदेशाद्भूमा परं ब्रह्म ।

अस्य भूम्नो ये धर्मा आम्नायन्ते तेऽपि परस्मिन्नेवोपपद्यन्ते । “एतदमृतम्” इति स्वाभाविकममृतत्वम्, “स्वे महिम्नि” इत्यनन्याधारत्वम्, “स एवाधस्तात्” इत्यादि “स एवेदं सर्वम्” इति सर्वात्मकत्वम्, “आत्मनः प्राणः” इत्यादिप्राणप्रभृतिसर्वस्योत्पादकत्वमित्यादयो हि धर्माः परमात्मन एव । यत्तु “अहमेवाधस्तात्” इत्यादिना

सर्वात्मकत्वमुपदिष्टम्, तद्भूमविशिष्टस्य ब्रह्मणोऽहंग्रहेणोपासनमुपदिश्यते “अथाऽतोऽहङ्कारादेशः” इत्यहं ग्रहोपदेशोपक्रमात् । अहमर्थस्य प्रत्यगात्मनोऽपि ह्यात्मा परमात्मेत्यन्तर्यामिब्राह्मणादिषूक्रम्; अतः प्रत्यगर्थस्य परमात्मपयर्वसानादहंशब्दोऽपि परमात्मपर्यवसायीति प्रत्यगात्मशरीरकत्वेन परमात्मानुसन्धानार्थोऽयमहंग्रहोपदेशः । परमात्मनः सर्वशरीरतया सर्वात्मत्वात् प्रत्यगात्मनोऽप्यात्मा परमात्मा । तदेव “अथात आत्मादेशः” इत्यादिना “आत्मैवेदं सर्वम्” इत्यन्तेनोच्यते । एतदेवोपपादयितुं प्रत्यगात्मनोऽप्यात्मभूतात् परमात्मनस्सर्वस्योत्पत्तिरुच्यते “तस्य ह वा एतस्यैवं पश्यत एवं मन्वानस्यैवं विजानत आत्मनः प्राण आत्मत आकाशः” इत्यादिना । उपासकस्यान्तर्यामितया अवस्थितात्परमात्मनः सर्वस्योत्पत्तिरित्यर्थः । अतः परमात्मनः

प्रत्यगात्मशरीरकत्वज्ञानप्रतिष्ठार्थमहंग्रहोपासनं कर्त्तव्यम् । तस्माद्भूमविशिष्टः परमात्मेति सिद्धम् ॥