18 द्युभ्वाद्यधिकरणम्

आथर्वणिका अधीयते “यस्मिन्द्यौः पृथिवी चान्तरिक्षमोतं मनस्सह प्राणैश्च सर्वैः । तमेवैकं जानथात्मानमन्या वाचो विमुञ्चथ अमृतस्यैष सेतुः” इति । तत्र संशयः- किमयं द्युपृथिव्यादीनामा

यतनत्वेन श्रूयमाणो जीवः, उत परमात्मा ? इति । किं युक्तम् ? जीव इति । कुतः ? “अरा इव रथनाभौ संहता यत्र नाड्यस्स एषोन्तश्चरते बहुधा जायमानः” इति परस्मिन् श्लोके पूर्ववाक्यप्रस्तुतं द्युपृथिव्याद्यायतनं “यत्र” इति पुनरपि सप्तम्यन्तेन परामृश्य तस्य नाड्याधारत्वमुक्तवा, पुनरपि “स एषोऽन्तश्चरते बहुधा जायमानः” इति तस्य बहुधा जायमानत्वञ्चोच्यते; नाडीसम्बन्धो देवादिरूपेण बहुधा जायमानत्वञ्च जीवस्यैव धर्मः । अस्मिन्नपि श्लोके “ओतं मनस्सह प्राणैश्च सर्वैः” इति प्राणपञ्चकस्य मनसश्चाश्रयत्वमुच्यमामं जीवधर्म एव ।

एवं जीवत्वे निश्चिते सति द्युपृथिव्याद्यायतनत्वादिकं यथाकथञ्चित्सङ्गमयितव्यमिति ।

एवं प्राप्ते प्रचक्ष्महेद्युभ्वाद्यायतनं स्वशब्दात् । द्युपृथिव्यादीनामायतनं परं ब्रह्म; कुतः ? स्वशब्दात् परब्रह्मासाधारणशब्दात् । “अमृतस्यैष सेतुः” इति परस्य ब्रह्मणोऽसाधारणश्शब्दः । “तमेवं विद्वानमृत इह भवति । नान्यः पन्था अयनाय विद्यते” इति सर्वत्रोपनिषत्सु स एवामृतत्वप्राप्तिहेतुश्श्रूयते । सिनोतेश्च बन्धनार्थत्वात्सेतुः अमृतस्य प्रापक इत्यर्थः । सेतुरिव वा सेतुः - नद्यादिषु सेतुर्हि कूलस्य प्रतिलम्भकः, संसाराणर्वपारभूतस्यामृतस्यैष प्रतिलम्भक इत्यर्थः । आत्मशब्दश्च निरुपाधिकः परस्मिन् ब्रह्मणि मुख्यवृत्तः, आप्नोतीति ह्यात्मा, स्वेतरसमस्तस्य नियन्तृत्वेन व्याप्तिस्तस्यैव सम्भवति; अतस्सोपि तस्यैव शब्दः । “यस्सर्वज्ञस्सर्ववित्” इत्यादयश्चो

परितनाः परस्यैव ब्रह्मणश्शब्दाः । नाड्याधारत्वं तस्यापि सम्भवति “सन्ततं सिराभिस्तु लम्बत्या कोशसन्निभम्” इत्यारभ्य “तस्याश्शिखाया मध्ये परमात्मा व्यवस्थितः” इति श्रवणात् । “बहुधा जायमानः” इत्यपि परस्मिन् ब्रह्मणि सङ्गच्छते । “अजायमानो बहुधा विजायते । तस्य धीराः परिजानन्ति योनिम्” इति देवादीनां समाश्रयणीयत्वाय

तत्तज्जातीयरूपसंस्थानगुणकर्मसमन्वितः स्वकीयं स्वभावमजहदेव स्वेच्छया बहुधा विजायते परः पुरुष इत्यभिधानात् । स्मृतिरपि “अजोपि सन्नव्ययात्मा भूतानामीश्वरोऽपि सन् । प्रकृतिं स्वामधिष्ठाय सम्भवाम्यात्ममायया” इति । मनःप्रभृतिजीवोपकरणाधारत्वं च सर्वाधारस्य परस्यैवोपपद्यते ।

इतश्च परमपुरुषः-

अयं द्युपृथिव्याद्यायतनभूतः पुरुषः संसारबन्धान्मुक्तैरपि प्राप्यतया व्यपदिश्यते । “यदा पश्यः पश्यते रुक्मवर्णं कतर्ारमीशं पुरुषं ब्रह्मयोनिम् । तथा विद्वान् पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैति” “यथा नद्यस्स्यन्दमानास्समुद्रे अस्तं गच्छन्ति नामरूपे विहाय । तथा विद्वान्नामरूपाद्विमुक्तः परात्परं पुरुषमुपैति दिव्यम्” इति । संसारबन्धनाद्विमुक्ता एव हि विधूतपुण्यपापा निरञ्जना नामरूपाभ्यां विनिर्मुक्ताश्च । पुण्यपापनिबन्धनाचित्संसर्गप्रयुक्तनामरूपभाक्तवमेव हि संसारः । अतो विधूतपुण्यपापैर्निरञ्जनैः प्रकृतिसंसर्गरहितैः परेण ब्रह्मणा परमं साम्यमापन्नैः प्राप्यतया निर्दिष्टो द्युपृथिव्याद्यायतनभूतः पुरुषः परं ब्रह्मैव । परब्रह्माह्यासाधारणशब्दादिभिः परमेव बह्मेति पसाध्य प्रत्यगात्मासाधारणशब्दाभावाच्चायं पर एवेत्याह-

यथाऽस्मिन् प्रकरणे प्रतिपादकशब्दाभावात्प्रधानं न प्रतिपाद्यम्; एवं प्राणभृदपीत्यर्थः । अनुमीयत इत्यनुमानं परोक्तं प्रधानमुच्यते, अनुमानप्रमितत्वादानुमानमिति वा । अतच्छब्दात् तद्वाचिशब्दाभावादित्यर्थः । “अर्थाभावे यदव्ययम्” इत्यव्ययीभावः ॥

इतश्चायं न प्रत्यगात्मा ।

“समाने वृक्षे पुरुषो निमग्नोऽनीशया शोचति मुह्यमानः । जुष्टं यदा पश्यत्यन्यमीशमस्य महिमानमिति वीतशोकः” इत्यादिभिर्जीवाद्विलक्षणत्वेनायं व्यपदिश्यते । अनीशयाभोग्यभूतया प्रकृत्या मुह्यमानश्शोचति

जीवः, अयं यदा स्वस्मादन्यं सर्वस्येशं प्रियमाणम्, अस्य- ईश्वरस्य महिमानं च निखिलजगन्नियमनरूपं पश्यति;

तदा वीतशोको भवति ॥

प्रकरणञ्चेदं परस्य ब्रह्मण इति “अदृश्यत्वादिगुणको धमर्ोक्तेः” इत्यत्रैव प्रदर्शितम् । नाडीसम्बन्धबहुधाजायमानत्वमनःप्राणाधारत्वैश्च प्रकरणविच्छेदाशङ्कामात्रमत्र पर्यहार्ष्म ॥

“द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते । तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्यो अभिचा

कशीति” इत्येकस्य कर्मफलादनम् अन्यस्य च कर्मफलमनश्नत एव दीप्यमानतया शरीरान्तस्थितिमात्रं प्रतिपाद्यते । तत्र कर्मफलमनश्नन्दीप्यमान एव सर्वज्ञोऽमृतसेतुस्सर्वात्मा द्युभ्वाद्यायतनं भवितुमर्हति, न पुनः कर्मफलमदन् शोचन्प्रत्यगात्मा; अतो द्युभ्वाद्यायतनं परमात्मेति सिद्धम् ॥

॥ इति द्युभ्वाद्यधिकरणम् ॥