17 वैश्वानराधिकरणम्

इदमामनन्तिच्छन्दोगाः “आत्मानमेवेमं वैश्वानरं सम्प्रत्यध्येषि तमेव नो ब्रूहि” इति प्रक्रम्य “यस्त्वेतमेवं प्रादेशमात्रमभिविमानमात्मानं वैश्वानरमुपास्ते” इति । तत्र सन्देहः- किमयं वैश्वानरः

आत्मा, परमात्मेति शक्यनिर्णयः, उत न ? इति । किं प्राप्तम् ? अशक्यनिर्णय इति । कुतः ?वैश्वानरशब्दस्य चतुष्वर्थेषु प्रयोगदर्शनात् जाठराग्नौ तावत् “अयमग्निवैश्वानरो येनेदमन्नं पच्यते यदिदमद्यते तस्यैष घोषो भवति यावदेतत्कर्णाकपिधाय ृणोति स यदोत्क्रमिष्यन् भवति नैनं घोषं श्रृणोति” इति; महाभूततृतीये च “विश्वस्मा अग्निं भुवनाय देवा वैश्वानरं केतुमह्नामकृण्वन्” इति; देवतायां च “वैश्वानरस्य सुमतौ स्याम राजा हि कं भुवनानामभिश्रीः” इति; परमात्मनि च “तदात्मन्येव हृदयेऽग्नौ वैश्वानरे प्रास्यत” इति, “स एष वैश्वानरो विश्वरूपः प्राणोऽग्निरुदयते” इति च । वाक्योपक्रमादिषूपलभ्यमानान्यपि लिङ्गानि सर्वानुगुणतया नेतुं शक्यानीति ।

एवं प्राप्ते अभिधीयते- वैश्वानरस्साधारणशब्दविशेषात् । वैश्वानरः- परमात्मा । कुतः ? साधारणशब्दविशेषात्- विशेष्यत इति विशेषः, साधारणस्य वैश्वानरशब्दस्य परमात्मासाधारणैर्धर्मैर्विशेष्यमाणत्वादित्यर्थः । तथा हि; औपमन्यवादयः पञ्चेमे महर्षयः समेत्य “को न आत्मा किं ब्रह्म” इति विचार्य “उद्दालको ह वै भगवन्तोऽयमारुणिस्सम्प्रतीममात्मानं वैश्वानरमध्येति तं हन्ताभ्यागच्छाम” इत्युद्दालकस्य वैश्वानरात्मविज्ञानमवगम्य तमभ्याजग्मुः । स चोद्दालक एतान् वैश्वानरात्मजिज्ञासूनभिलक्ष्यात्मनश्च तत्राकृत्स्नवेदित्वं मत्वा “तान् होवाच अश्वपतिर्वै भगवन्तोऽयं केकयस्सम्प्रतीममात्मानं वैश्वानरमध्येति तं हन्ताभ्यागच्छाम” इति । ते चोद्दालकषष्ठास्तमश्वपतिभ्याजग्मुः । स च तान् महर्षीन् यथाहं पृथगम्यर्च्य “न मे स्तेनः” इत्यादिना “यक्ष्यमाणो ह वै भगवन्तोऽहमस्मि” इत्यन्तेनात्मनो व्रतस्तथया प्रतिग्रहयोग्यतां ज्ञापयन्नेव ब्रह्मविद्भिरपि प्रतिषिद्धपरिहरणीयतां विहितकर्मकर्तव्यतां च प्रज्ञाप्य “यावदेकैकस्मा ऋत्विजे धनं दास्यामि तावद्भगवद्य्भो दास्यामि वसन्तु भवन्तः” इत्यवोचत् । ते च मुमुक्षवो वैश्वानरमात्मानं जिज्ञासमानास्तमेवात्मानमस्माकं ब्रूहीत्यवोचन् । तदेवं “को न

आत्मा किं ब्रह्म” इति जीवात्मनामात्मभूतं ब्रह्म जिज्ञासमानैस्तज्ज्ञमन्विच्छद्भिर्वैश्वानरात्मज्ञसकाशमागम्य पृच्छ्यमानो वैश्वानरात्मा परमात्मेति विज्ञायते, आत्मब्रह्मशब्दाभ्यामुपक्रम्य पश्चात्सर्वत्रात्मवैश्वानरशब्दाभ्यां व्यवहाराच्च ब्रह्मशब्दस्थाने निर्दिश्यमानो वैश्वानरशब्दो ब्रह्मैवाभिधत्त इति विज्ञायते; किञ्च “स सर्वेषु लोकेषु सर्वेषु भूतेषु सर्वेष्वात्मस्वन्नमत्ति” “तद्यथेषीकतूलमग्नौ प्रोतं प्रदूयेतैवं हास्य सर्वे पाप्मानः प्रदूयन्ते” इति च वक्ष्यमाणं वैश्वानरात्मविज्ञानफलं वैश्वानरात्मानं परं ब्रह्मेति ज्ञापयति । इतश्च वैश्वानरः परमात्मा ॥

द्युप्रभृति पृथिव्यन्तमवयवविभागेन वैश्वानरस्य रूपमिहोपदिश्यते । तच्च श्रुतिस्मृतिषु परमपुरुषरूपतया प्रसिद्धम् । तदिह तदेवेदमिति स्मर्यमाणम्, प्रत्यभिज्ञायमानं वैश्वानरस्य परमपुरुषत्वे अनुमानम्, लिङ्गमित्यर्थः । इतिशब्दः प्रकारवचनः । इत्थं भूतं रूपं प्रत्यभिज्ञायमानं वैश्वानरस्य परमात्मत्वे अनुमानं स्यात् । श्रुतिस्मृतिषु हि परमपुरुषस्येत्थं रूपं प्रसिद्धम् । यथा आथर्वणे “अग्निर्मूर्धा चक्षुषि चन्द्रसूर्यै दिशः श्रोत्रे

वाग्विवृत्ताश्च वेदाः । वायुः प्राणो हृदयं विश्वमस्य पद्य्भां पृथिवी ह्येष सर्वभूतान्तरात्मा” इति । अग्निरिह द्युलोकः, “असौ वै लोकोऽग्निः” इति श्रुतेः । स्मरन्ति च मुनयः “द्यां मूधर्ानं यस्य विप्रा विदन्ति खं वै नाभिं चन्द्रसूर्यौ च नेत्रे । दिशःश्रोत्रे विद्धि पादौ क्षितिं च सोऽचिन्त्यात्मा सर्वभूतप्रणेता” इति । “यस्याग्निरास्यं द्यौर्मूर्धां खं नाभिश्चरणौ क्षितिः । सूर्यश्चक्षुर्द्दिशः श्रोत्रं तस्मै लोकात्मने नमः” इति च । इह च द्युप्रभृतयो वैश्वानरस्य मूर्धाद्यवयवेनोच्यन्ते । तथा हि, तैरौपमन्यवप्रभृतिभिर्महर्षिभिः “आत्मानमेवेमं वैश्वानरं सम्प्रत्यध्येषि तमेव नो ब्रूहि” इति पृष्टः केकयस्तेभ्यो वैश्वानरात्मानमुपदिदिक्षुर्विशेषप्रश्नान्यथानुपपत्त्या वैश्वानरात्मन्येतैः किञ्चित् ज्ञातं किञ्चिदज्ञातमिति विज्ञाय ज्ञाताज्ञातांशबुभुत्सया तानेकैकं पप्रच्छ । तत्र “औपमन्यव कं त्वमात्मात्मानमुपास्से” इति पृष्टे “दिवमेव भगवो राजन्” इति तेन चोक्ते दिवि तस्य पूर्णवैश्वानरात्मबुद्धिं निवर्तयन् वैश्वानरस्य द्यौर्मूर्धेति चोपदिशंस्तस्या वैश्वानरांशभूताया दिवस्सुतेजा इति गुणनामधेयं प्राचिख्यपत् ।

एवं सत्ययज्ञादिभिरादित्यवाय्वाकाशपृथिवीनामेकैकेनैकैकमुपास्यमानतया कथितानां

“विश्वरूपः, पृथग्वर्त्मा, बहुलो, रयिः, पतिष्ठा” इत्येकैकगुणनामधेयानि वैश्वानरात्मनश्चक्षुःप्राणसन्देहवस्तिपादावयवत्वं चोपदिष्टम् । सन्देहो मध्यकाय उच्यते; अत एवम्भूतद्युर्मर्धत्वादिविशिष्टं परमपुरुषस्यैव रूपमिति वैश्वानरः परमपुरुष एव ॥ पुनरप्यनिर्णयमेवाशङ्क्य परिहरति -

यदुक्तं वैश्वानरः परमात्मेति निश्चीयत इति । तन्न; शब्दादिभ्योऽन्तःप्रतिष्ठानाच्च जाठरस्याप्यग्नेरिह

प्रतीयमानत्वात् । शब्दस्तावद्वाजिनां वैश्वानरविद्याप्रकरणे “स एषोऽग्निर्वैश्वानरः” इति वैश्वानरसमानाधिकरणताऽग्निरिति श्रूयते; अस्मिन् प्रकरणे च “हृदयं गार्हपत्यो मनोऽन्वाहार्यपचन आस्यमाहवनीयः” इति वैश्वानरस्य हृदयादिस्थस्याग्नित्रयकल्पनं क्रियते तद्यद्भक्तं प्रथममागच्छेत्तद्धोमीयं स यां प्रथमामाहुतिं जुहुयात्तां जुहुयात् प्राणाय स्वाहा" इत्यादिना प्राणाहुत्याधारत्वं च वैश्वानरस्यावगम्यते । तथा वैश्वानरस्यास्मिन् पुरुषेऽन्तःप्रतिष्ठानं वाजसनेयिनः समामनन्ति “स यो हैतमेवमग्निं वैश्वानरं पुरुषविधं पुरुषेऽन्तःप्रतिष्ठितं वेद” इति । अतोऽग्निशब्दसामानाधिकरण्यादग्नित्रेतापरिकल्पनात्प्राणाहुत्याधारमावादन्तःप्रतिष्ठानाच्च वैश्वानरस्य जाठरत्वमपि प्रतीयत इति नैकान्ततः परमात्मत्वमिति चेत् तन्न; तथा दृष्टयुपदेशात्पूर्वोक्तस्य त्रैलोक्यशरीरस्य

परस्य ब्रह्मणो वैश्वानरस्य जाठराग्निशरीरतया तद्विशिष्टस्योपासनोपदेशात् । अग्निशब्दादिभिर्हि न केवलो जाठरः प्रतिपाद्यते, अपि तु जाठराग्निविशिष्टः परमात्मा । कथमिदमवगम्यत इति चेत् असम्भवात् जाठरस्य केवलस्य त्रैलोक्यशरीरत्वासम्भवात् । त्रैलोक्यशरीरतया प्रतिपन्नवैश्वानरसमानाधिकरणो जाठरविषयतया प्रतीयमानोऽग्निशब्दो जाठरशरीरतया तद्विशिष्टं परमात्मानमेवाभिदधातीत्यर्थः । यथोक्तं भगवता “अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः । प्राणापानसमायुक्तः पचाम्यन्नं चतुर्विधम्” इति जाठरानलशरीरोभूत्वेत्यर्थः । अतस्तद्विशिष्टस्योपासनमत्रोपदिश्यते । किञ्च पुरुषमपि चैनमधीयते वाजसनेयिनः “स एषोऽग्निर्वैश्वानरो यत्पुरुषः” इति, न जाठरस्य केवलस्य पुरुषत्वम् परत्मन एव हि निरुपाधिकं पुरुषत्वम्, यथा “सहस्रशीर्षा

पुरुषः” “पुरुष एवेदं सर्वम्” इत्यादौ ॥

उक्तेभ्य एव हेतुभ्यो देवतायाश्च तृतीयस्य महाभूतस्यापि न वैश्वानरत्वप्रसङ्गः ॥

वैश्वानरसमानाधिकरणस्याग्निशब्दस्य जाठराग्निशरीरतया तद्विशिष्टस्य परमात्मनो वाचकत्वम्, तथैव परमात्मन उपास्यत्वं चोक्तम् । जैमिनिस्त्वाचार्यो वैश्वानरशब्दवदग्निशब्दस्यापि परमात्मन एव साक्षात् अव्य

वधानेन वाचकत्वेन न कश्चिद्विरोध इति मन्यते । एतदुक्तं भवति- यथा वैश्वानरशब्दः साधारणोऽपि परमात्मासाधारणधर्मविशेषितो विश्वेषं नराणां नेतृत्वादिना गुणेन परमात्मानमेवाभिदधातीति निश्चीयते; एव

मग्निशब्दोऽप्यग्रनयनादिना येनैव गुणेन योगाज्ज्वलने वर्त्तते, तस्यैव गुणस्य निरुपाधिकस्य काष्ठागतस्य परमात्मनि सम्भवादस्मिन् प्रकरणे परमात्मासाधारणर्धमविशेषितः परमात्मानमेवाभिधत्त इति ॥

“यस्त्वेतमेवं प्रादेशमात्रमभिविमानम्” इत्यपरिच्छिन्नस्य परस्य ब्रह्मणो द्युतप्रभृतिपृथिव्यन्तप्रदेशसम्बन्धिन्या मात्रया परिच्छिन्नत्वं कथमुपपद्यते ? तत्राह -

उपासकाभिव्यक्त्यर्थं प्रादेशमात्रत्वं परमात्मन इत्याश्मरथ्य आचार्यो मन्यते, “द्यौर्मूर्धा, आदित्यश्चक्षुः, वायुः प्राणः, आकाशो मध्यकायः, आपो वस्तिः, पृथिवी पादौ” इति द्युप्रभृतिप्रदेशसम्बन्धिन्या मात्रया परिच्छिन्नत्वं कृत्स्नमभिव्याप्तवतो विगतमानस्य ह्यभिव्यक्तेरेव हेतोर्भवति ॥ मूर्द्धप्रभृत्यवयविशेषैः पुरुषविधत्वं परस्य ब्रह्मणः

किमर्थमिति चेत् तत्राह -

तथोपासनार्थमिति बादरिराचार्यो मन्यते । “यस्त्वेतमेवमभिविमानमात्मानं वैश्वानरमुपास्ते स सर्वेषु लोकेषु सर्वेषु भूतेषु सर्वेष्वात्मस्वन्नमत्ति” इति ब्रह्मप्राप्तये ह्युपासनमुपदिश्यते । एतमेवमिति उक्तप्रकारेण पुरुषाकारमित्यर्थः । सर्वेषु लोकेषु सर्वेषु भूतेषु सर्वेष्वात्मसु वर्तमानं यदन्नम्- भोग्यं, तदत्ति- सर्वत्र वर्त्तमानं स्वत एवानवधिकातिशयानन्दं ब्रह्मानुभवति । यत्तु सर्वैः कमर्वश्यैरात्मभिः प्रत्येकमनन्यसाधारणमन्नं भुज्यते तन्मुमुक्षुभिस्त्याज्यत्वादिह न गृह्यते ॥

यदि परमात्मा वैश्वानरः, कथं तर्ह्युरःप्रभृतीनां वेद्यादित्वोपदेशः, यावता जाठराग्निपरिग्रह एवैतदुपपद्यत इत्यत्राह -

अस्य परमात्मन एव वैश्वानरस्य द्युप्रभृतिपृथिव्यन्तशरीरस्य समाराधनभूतायाः उपासकैरहरहः क्रियमाणायाः प्राणाहुतेरग्निहोत्रत्वसम्पादनायायमुरःप्रभृतीनां वेदित्वाद्युपदेश इति जैमिनिराचार्यो मन्यते । तथा हि परमात्मोपासनोचितमेव फलं प्राणाहुत्या अग्निहोत्रसम्पत्तिं च दर्शयतीयं श्रुतिः । “स य इदमविद्वानग्निहोत्रं

जुहोति यथाङ्गारानपोह्य भस्मनि जुहायात्तादृक् तत्स्यात् अथ य एतदेवं विद्वानग्निहोत्रं जुहोति तस्य सर्वेषु लोकेषु सर्वेषु भूतेषु सर्वेष्वात्मसु हुतं भवति तद्यथेषीकतूलमग्नौ प्रोतं प्रदूयतैवं हास्य सर्वे पाप्मनः प्रदूयन्ते” इति ।

एनम् परमपुरुषं द्युमूर्धत्वादिविशिष्टं वैश्वानरम् अस्मिन् उपासकशरीरे प्राणाहुत्याधारत्वाय आमनन्ति च “तस्य ह वा एतस्यात्मनो वैश्वानरस्य मूर्धैव सुतेजाः” इत्यादिना । अयमर्थः- “यस्त्वेतमेवं प्रादेशमात्रमभिविमानमात्मानं वैश्वानरमुपास्ते” इति त्रैलोक्यशरीरस्य परमात्मनो वैश्वानरस्योपासनं विधाय “सर्वेषु लोकेषु” इत्यादिना ब्रह्मप्राप्तिं च फलमुपदिश्य अस्यैवोपासनस्याङ्गभूतं प्राणाग्निहोत्रं “तस्य ह वा एतस्य” इत्यादिनो

पदिशति; यः पूर्वमुपास्यतयोपदिष्टो वैश्वानरस्तस्यावयवभूतानग्न्यादित्यादीन् सुतेजोविश्वरूपादिनामधेयानुपासकशरीरे मूर्धादिपादान्तेषु सम्पादयति । मूर्धैव सुतेजाः- उपासकस्य मूर्धैव परमात्मनमूर्धमूता द्यौरित्यर्थः । चक्षुर्विश्वरूपः आदित्य इत्यर्थः । प्राणः पृथग्वर्त्मावायुरित्यर्थः । सन्देहो बहुलः- उपासकस्य मध्यकाय एव परमात्ममध्यकायभूत आकाश इत्यर्थः । वस्तिरेव रयिः- अस्य वस्तिरेव तदवयवभूता आप इत्यर्थः । पृथिव्येव पादौ- अस्य पादविव तत्पादभूता पृथिवीत्यर्थः । एवमुपासकस्स्वशरीरे परमात्मानं त्रैलोक्यशरीरं वैश्वानरं सन्निहितमनुसन्धाय स्वकीयान्युरोलोमहृदयमन आस्यानि प्राणाहुत्याधारस्य परमात्मनो वैश्वानरस्य वेदिबर्हिर्गार्हपत्यान्वाहार्यपचनाहवनीयानग्निहोत्रोपकरणभूतात् परिकल्प्य प्राणाहुतेश्चाग्निहोत्रत्वं परिकल्प्यैवंविधेन प्राणाग्निहोत्रेण परमात्मानं वैश्वानरमाराधयेदिति “उर एव वेदिर्लोमानि बर्हिर्हृदयं गार्हपत्यः” इत्यादिनोपदिश्यते । अतः परमात्मा पुरुषोत्तम एव वैश्वानर इति सिद्धम् ॥