16 अदृश्यत्वादिगुणकाधिकरणम्

अथर्वणिका अधीयते “अथ परायया तदक्षरमधिगम्यते । यत्तदद्रेश्यमग्राह्यमगोत्रमवर्णमचक्षुःश्रोत्रं तदपाणिपादम् । नित्यं विभुं सर्वगतं सुसूक्ष्मं तदव्ययं यद्भूतयोनिं परिपश्यन्ति धीराः” इति; तथोत्तरत्र “अक्षरात्परतः परः” इति । तत्र सन्दिह्यतेकिमिहादृश्यत्वादिगुणकमक्षरमक्षरात् परतः परश्च

प्रकृतिपुरुषौ, अथोभयत्र परमात्मैव ? इति । किं तावत्प्राप्तम् ? प्रकृतिपुरुषाविति । कुतः ? अस्याक्षरय

“अदृष्टो द्रष्टा” इत्यादाविव न द्रष्टृत्वादिश्चेतनधर्मविशेष इह श्रूयते, “अक्षरात् परतः परः” इति च सर्वस्माद्विकारात्परभूतादक्षरादस्मात्परः क्षेत्रज्ञः समष्टिपुरुषः प्रतिपाद्यते । एतदुक्तम्भवति- रूपादिमत्स्थूलरूपाचेतनपृथिव्यादिभूताश्रयं दृश्यत्वादिकं प्रतिषिध्यमानं पृथिव्यादिसजातीयसूक्ष्मरूपाचेतनमेवोपस्थापयति, तच्च प्रधानमेव । तस्मात्परत्वञ्च समष्टिपुरुषस्यैव प्रसिद्धम् । तदधिष्ठितञ्च प्रधानं महदादिविशेषपर्यन्तं विकारजातं

प्रसूत इति तत्र दृष्टान्ता उपन्यस्यन्ते “यथोर्णनाभिः सृजते गृह्णते च यथा पृथिव्यामोषधयस्सम्भवन्ति । यथा सतः पुरुषात्केशलोमानि तथा अक्षरात्सम्भवतीह विश्वम्” सति । अतोऽस्मिन् प्रकरणे प्रधानपुरुषावेव प्रतिपाद्येते- इति ।

एवं प्राप्ते ब्रूमः- अदृश्यत्वादिगुणको धर्मोक्तिः । अदृश्यत्वादिगुणकोऽक्षरात्परतः परश्च परमपुरुष एव । कुतः ? तद्धर्मोक्तेः “यस्सर्वज्ञस्सर्ववित्” इत्यादिना सर्वज्ञत्वादिकास्तस्यैव धर्मा उच्यन्ते; तथा हि “यया तदक्षरमधिगम्यते” इत्यादिना अदृश्यत्वादिगुणकमक्षरमभिधाय “अक्षरात्सम्भवतीह विश्वम्” इति तस्माद्विश्वसम्भवञ्चाभिधाय “यस्सर्वज्ञः सर्वविद्यस्य ज्ञानमयं तपः । तसमादेतद्ब्रह्म नामरूपमन्नञ्च जायते” इति

भूतयोनेरक्षरस्य सर्वज्ञत्वादिः प्रतिपाद्यते । पश्चात् “अक्षरात्परतः परः” इति च प्रकृतमदृश्यत्वादिगुणकं भूतयोन्यक्षरं सर्वज्ञमेव परत्वेन व्यपदिश्यते; अतः “अक्षरात्परतः परः” इत्यक्षरशब्दः पञ्चम्यन्तः प्रकृतमदृश्यत्वादिगुणकमक्षरं नाभिधत्ते, तस्य सर्वज्ञस्य विश्वयोनेस्सर्वस्मात्परत्वेन तस्मादन्यस्य परत्वासम्भवात्, अतोऽत्राक्षरशब्दो भूतसूक्ष्ममचेतनं ब्रूते ॥

इतश्च न प्रधानपुरुषौ

विशिनष्टि हि प्रकरणम्- प्रधानाच्च पुरुषाच्च भूतयोन्यक्षरं व्यावर्त्तयतीत्यर्थः, एकविज्ञानेन

सर्वविज्ञानप्रतिज्ञोपपादनादिभिः । तथा ताभ्यामक्षरस्य भेदश्च व्यपदिश्यते “अक्षरात्परतः परः” इत्यादिना । तथा हि “स ब्रह्मविद्यां सर्वविद्याप्रतिष्ठामथर्वाय ज्येष्ठपुत्राय प्राह” इति सर्वविद्याप्रतिष्ठाभूता ब्रह्मविद्या प्रक्रान्ता; परविद्यैव

च सर्वविद्याप्रतिष्ठा तामिमां सर्वविद्याप्रतिष्ठां विद्यां चतुर्मुखाथर्वादिगुरुपरम्परयाऽङ्गिरसा प्राप्तां जिज्ञासुः “शौनको ह वै महाशालोऽङ्गिरसं विधिवदुपसन्नः पप्रच्छ कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवति” इति । ब्रह्मविद्यायास्सर्वविद्याश्रयत्वाद्ब्रह्मविमानेन सर्वं विज्ञातं भवतीतिकृत्वा ब्रह्मस्वरूपमनेन पृष्टम्; “तस्मै स होवाच द्वे विद्ये वेदितव्ये इति ह स्म यद्ब्रह्मविदो वदन्ति परा चैवापरा च” इति । ब्रह्मप्रेप्सुना द्वे विद्ये वेदितव्ये, ब्रह्मविषये परोक्षापरोक्षरूपे द्वे विज्ञाने उपादेये इत्यर्थः । तत्र परोक्षं शास्त्रजन्यं ज्ञानम्, अपरोक्षं योगजन्यम्; तयोर्ब्रह्मप्राप्त्युपायभूतमपरोक्षं ज्ञानम् तच्च भक्तिरूपापन्नम् “यमेवैष वृणुते तेन लभ्यः” इत्यत्रैव विशेष्यमाणत्वात्; तदुपायश्चागमजन्यं विवेकादिसाधनसप्ताकानुगृहीतं ज्ञानम् “तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेन” इति श्रुतेः । आह च भगवान् पराशरः “तत्प्राप्तिहेतुर्ज्ञानं च कर्म चोक्तं महामुने । आगमोत्थं विवेकाच्च द्विधा ज्ञानं तथोच्यते” इति । “तत्रापरा ऋग्वेदो यजुर्वेदः” इत्यादिना “धर्मशास्त्राणि” इत्यन्तेन आगमोत्थं ब्रह्मसाक्षात्कारहेतुभूतं परोक्षज्ञानमुक्तम् । साङ्गस्य सेतिहासपुराणस्य सधमर्शास्त्रस्य समीमांसस्य वेदस्य ब्रह्मज्ञानोत्पक्षिहेतुत्वात् “अथ परा यया तदक्षरमधिगम्यते” इत्युपासनाख्यं

ब्रह्मसाक्षात्कारलक्षणभक्तिरूपापन्नं ज्ञानम् “यत्तदद्रेश्यमग्राह्यम्” इत्यादिना परोक्षापरोक्षरूपज्ञानद्वयविषयस्य परस्य ब्रह्मणः स्वरूपमुच्यते “यर्थोर्णनाभिस्सृजते गृह्णते च” इत्यादिना । यथोक्तस्वरूपात्परस्माद्ब्रह्मणोऽक्षरात् कृत्स्नस्य चेतनाचेतनात्मकप्रपञ्चस्योत्पत्तिरुक्ता, विश्वमिति वचनान्नाचेतनमात्रस्य “तपसा चीयते ब्रह्म ततोऽन्नमभिजायते अन्नात्प्राणो मनस्सत्यं लोकाः कर्मसु चामृतम्” इति ब्रह्मणो विश्वोत्पत्तिप्रकार उच्यते । तपसा- ज्ञानेन, “यस्य ज्ञानमयं तपः” इति वक्ष्यमाणत्वात्; चीयते- उपचीयते; “बहु स्याम्” इति सङ्कल्परूपेण ज्ञानेन ब्रह्म सृष्टयुन्मुखं भवतीत्यर्थः । ततोऽन्नमभिजायते- अद्यत इत्यन्नम्, विश्वस्य भोक्तृवर्गस्य भोग्यभूतं भूतसूक्ष्ममव्याकृतं परस्माद्ब्रह्मणो जायत इत्यर्थः । प्राणमनःप्रभृति च स्वर्गापवर्गरूपफलसाधनभूतकर्मपयर्न्तं सर्वं विकारजातं तस्मादेव जायते । “यस्सर्वज्ञस्सर्ववित्” इत्यादिना सृष्टयुपकरणभूतं सार्वज्ञ्यसत्यसङ्कल्पत्वादिकमुक्तम् । सर्वज्ञात्सत्यसङ्कल्पात्परस्मात् ब्रह्मणोऽक्षरादेतत् कार्यकारं ब्रह्म नामरूपविभक्तं भोक्तृभोग्यरूपं च जायते । “तदेतत्सत्यम्” इति परस्य ब्रह्मणो निरुपाधिकसत्यत्वमुच्यते “मन्त्रेषु कर्माणि कवयो यान्यपश्यंस्तानि त्रेतायां बहुधा सन्ततानि । तान्याचरत नियतं सत्यकामाः” इति सार्वज्ञ्यसत्यसङ्कल्पत्वादिकल्याणगुणाकरमक्षरं पुरुषं स्वतस्सत्यं कामयमानास्तत्प्राप्तये फलान्तरेभ्यो विरक्ता ऋग्यजुस्सामाथर्वसु कविभिर्दृष्टानि वर्णाश्रमोचितानि त्रेताग्निषु बहुधा सन्ततानि कर्माण्याचरतेति “एष वः पन्थाः” इत्यारभ्य “एष वः

पुण्यस्सुकृतो ब्रह्मलोकः” इत्यन्तेन कर्मानुष्ठानप्रकारम् श्रुतिस्मृतिचोदितेषु कर्मस्वेकतरकर्मवैधुर्येपीतरेषामनुष्ठितानामपि निष्फलत्वम् अयथानुष्ठितस्य चाननुष्ठितसमत्वमभिधाय “प्लवा ह्येते अदृढा यज्ञरूपा अष्टादशोक्तमवरं येषु कर्म । एतच्छ्रेयो येऽभिनन्दन्ति मूढा जरामृत्यू ते पुनरेवापि यन्ति” इत्यादिना पलाभिसन्धिपूर्वकत्वेन ज्ञानविधुरतया चावरं कर्माचरतां पुनरावृत्तिमुक्तवा “तपश्श्रद्धे ये ह्युपवसन्ति” इत्यादिना पुनरपि फलाभिसन्धिरहितं ज्ञानिनाऽनुष्ठितं कर्म ब्रह्मप्राप्तये भवतीति प्रशस्य “परीक्ष्य लोकान्” इत्यादिना केवलकर्मफलेषु विरक्तस्य यथोदितकर्मानुगृहीतं ब्रह्मप्राप्त्युपायभूतं ज्ञानं जिज्ञासमानस्य च आचायर्ोपसदनं विधाय “तदेतत्सत्यं यथा सुदीप्तात्” इत्यादिना “सोऽविद्याग्रन्थिं विकिरतीह सोम्य” इत्यन्तेन पूर्वोक्तस्याक्षरस्य भूतयोनेः परस्य ब्रह्मणः परमपुरुषस्यानुक्तैस्वरूपगुणैः सह सर्वभूतान्तरात्मतया विश्वशरीरत्वेन विश्वरूपत्वम्

तस्माद्विश्वसृष्टिं च विस्पष्टमभिधाय “आविस्सन्निहितम्” इत्यादिना तस्यैवाक्षरस्याव्याकृतात्परतोऽपि पुरुषात्परभूतस्य परस्य ब्रह्मणः परमव्योम्नि प्रतिष्ठितस्यानवधिकातिशयानन्दस्वरूपस्य हृदयगुहायामुपासनप्रकारम् उपासनस्य च परभक्तिरूपत्वमुपासीनस्याविद्याविमोकपूर्वकं ब्रह्मसमं ब्रह्मानुभवफलं चोपदिश्योप

संहृतम्; अत एवं विशेषणाद्भेदव्यपदेशाच्च नास्मिन् प्रकरणे प्रधानपुरुषौ प्रतिपाद्येते । भेदव्यपदेशोऽपि हि ताभ्यां परस्य ब्रह्मणोऽत्र विद्यते । “दिव्यो ह्यमूर्त्तः पुरुषस्स बाह्याभ्यन्तरो ह्यजः । अप्राणो ह्यमनाश्शुभ्रो ह्यक्षरात्परतः परः” इत्यादिभिः, अक्षरादव्याकृतात्परो यः समष्टिपुरुषः तस्मादपि परभूतोऽदृश्यत्वादिगुणकोऽक्षरशब्दाभिहितः परमात्मेत्यर्थः । अश्नुत इति वा, न क्षरतीति वा अक्षरम्; तदव्याकृतेपि स्वविकारव्याप्त्या वा महदादिवन्नामान्तराभिलापयोग्यक्षरणाभावाद्वाऽक्षरत्वं कथञ्चिदुपपद्यते ॥

“अग्निर्मूर्धा चक्षुषी चन्द्रसूर्यै दिशश्श्रोत्रे वाग्विवृताश्च वेदाः । वायुः प्राणो हृदयं विश्वमस्य पद्य्भां पृथिवी ह्येष

सर्वभूतान्तरात्मा” इतीदृशं रूपं सर्वभूतान्तरात्मनः परमात्मन एव सम्भवति; अतश्च परमात्मा ॥