15 अन्तर्याम्यधिकरणम्

काण्वा माध्यन्दिनाश्च वाजसनेयिनः समामनन्ति “यः पृथिव्यां तिष्ठन् पृथिव्या अन्तरो यं पृथिवी न वेद यस्य पृथिवी शरीरं यः पृथिवीमन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः” इति । एवमम्ब्वग्न्यन्त

रिक्षवाय्वादित्यदिक्चन्द्रतारकाकाशतमस्तेजस्सु दैवेषु च सर्वेषु भूतेषु प्राणवाक्चक्षुःश्रोत्रमनस्त्वग्विज्ञानरेतस्स्वात्मात्मीयेषु च तिष्ठन्तं तत्तदन्तरभूतं तत्तदवेद्यं तत्तच्छरीरकं तत्तद्यमयन्तं कञ्चिन्निर्दिश्य “एष त आत्मान्तर्याम्यमृतः” इत्युपदिश्यते । माध्यन्दिनपाठे तु “यस्सर्वेषु लोकेषु तिष्ठन्” “यस्सर्वेषु वेदेषु” “यस्सर्वेषु यज्ञेषु” इति च पर्यायाः, “यो विज्ञाने तिष्ठन्” इत्यस्य पर्यायस्य स्थाने “य आत्मनि तिष्ठन्” इति पर्यायः । “स त आत्मान्तर्याम्यमृतः” इति च विशेषः । तत्र संशयते किमयमन्तर्यामी प्रत्यगात्मा; उत परमात्मा ? इति । किं युक्तम् ? प्रत्यगात्मेति । कुतः? वाक्यशेषे “द्रष्टा श्रोता” इति करणायत्तज्ञानताश्रुतेः । एवं द्रष्टुरेवान्तर्यामित्वोपदेशात् “नान्यतोऽस्ति द्रष्टा” इति द्रष्ट्रन्तरनिषेधाच्चेति ।

एवं प्राप्तेऽभिधीयते- अन्तर्याम्यधिदैवाधिलोकादिषु तद्धर्मव्यपदेशात् । अधिदैवाधिलोकादिपदचिह्नितेषु वाक्येषु श्रूयमाणोऽन्तर्याम्यपहतपाप्मा परमात्मा नारायणः । काण्वपाठसिद्धेभ्योऽधिदैवादिमद्य्भो वाक्येभ्योऽधिकान्यधिलोकादिमन्ति वाक्यानि माध्यन्दिनपाठे सन्तीति ज्ञापनार्थमधिदैवाधिलोकादिष्वित्युभयोरुपादानम् । तदेवमुभयेष्वपि वाक्येष्वन्तर्यामी परमात्मेत्यर्थः । कुतः? तद्धर्मव्यपदेशात् । परमात्मधर्मो ह्ययम्; यदेक एव सन् सर्वलोकसर्वभूतसर्वदैवादीन्नियमयतीति । तथा ह्युद्दालकप्रश्नः “य इमं च लोकं परं च लोकं सर्वाणि च भूतानि योऽन्तरो यमयति” इत्युपक्रम्य “तमन्तर्यामिणं ब्रूहि” इति तस्य चोत्तरम् “यः पृथिव्यां तिष्ठन्” इत्यारभ्योक्तम् । तदेतत्सर्वान् लोकान् सर्वाणि च भूतानि सर्वान् देवान् सर्वान् वेदान् सर्वांश्च यज्ञानन्तःप्रविश्य सर्वप्रकारनियमनं सर्वशरीरतया सर्वस्यात्मत्वं च सर्वज्ञात्सत्यसङ्कल्पात्पुरुषोत्तमादन्यस्य न सम्भवति । तथा हि “अन्तः प्रविष्ठः शास्ता जनानां सर्वात्मा” “तत्सृष्ट्वा । तदेवानुप्राविशत् । तदनुप्रविश्य । सच्च त्यच्चाभवत्” इत्यादीन्यौपनिषदानि वाक्यानि परमात्मन एव सर्वस्य प्रशासितृत्वं सर्वस्यात्मत्वमित्यादीनि वदन्ति । तथा सुबालोपनिषदि “नैवेह किञ्चनाग्र आसीतमूलमनाधारमिमाः प्रजाः प्रजायन्ते दिव्यो देव एको

नारायणः । चक्षुश्च द्रष्टव्यं च नारायणः । श्रोत्रं च श्रोतव्यं च नारायणः” इत्यारभ्य “अन्तश्शरीरे निहितो गुहायामज एको नित्यः यस्य पृथिवी शरीरं यः पृथिवीमन्तरे सञ्चरन् यं पृथिवी न वेद यस्यापश्शरीरम्” इत्यादि, “यस्य मृत्युः शरीरं यो मृत्युमन्तरे सञ्चरन् यं मृत्युर्न वेद एष सर्वभूतान्तरात्माऽपहतपाप्मा दिव्यो देव एको नारायणः” इति परस्यैव ब्रह्मणः सर्वात्मत्वं सर्वशरीरत्वं सर्वस्य नियन्तृत्वं च प्रतिपाद्यते । स्वाभाविकं चामृतत्वं परमात्मन एव धर्मः । न च परस्यात्मनः करणायत्तं द्रष्टृत्वादिकम्, अपि तु स्वभावत एव सर्वज्ञत्वात्सत्यसङ्कल्पत्वाच्च स्वत एव । तथा च श्रुतिः “पश्यत्यचक्षुस्स ृणोत्यकर्णः अपाणिपादो जवनो

ग्रहीता” इति । न च दर्शनश्रवणादिशब्दाश्चक्षुरादिकरणजन्मनो ज्ञानस्य वाचकाः, अपि तु रूपादिसाक्षात्कारस्य । स च रूपादिसाक्षात्कारः कर्मतिरोहितस्वाभाविकज्ञानस्य जीवस्य चक्षुरादिकरणजन्मा, परस्य तु स्वत एव । “नान्योऽतोऽस्ति द्रष्टा” इत्येतदपि पूर्ववाक्योदितान्नियन्तुर्द्रष्टुरन्यो द्रष्टा नास्तीति वदति । “यं पृथिवी न

वेद” “यमात्मा न वेद” इत्येवमादिभिर्वाक्यैः पृथिव्यात्मादिनियाम्यैरनुपलभ्यमान एव नियमयतीति यत्पूर्वमुक्तम्, तदेव “अदृष्टो द्रष्टा अश्रुत्श्श्ोता” इति निगमय्य “नान्योऽतोऽस्ति द्रष्टा” इत्यादिना तस्य नियन्तु

र्नियन्त्रन्तरं निषिध्यते । “एष त आत्मा” “स त आत्मा” इति च त इति व्यतिरेकविभक्तिनिर्दिष्टस्य जीवस्यात्मतयोपदिश्यमानोन्तर्यामी न प्रत्यगात्मा भवितुमर्हति ।

स्मार्त्तम्- प्रधानम्, शारीरः- जीवः, स्मार्त्तञ्च शारीरश्च नान्यर्यामी । अतद्धर्माभिलापात् तयोरसम्भावित

धर्माभिलापात् । स्वभावत एव सर्वस्य द्रष्टृत्वम् सर्वस्य नियन्तृत्वम् सर्वस्यात्मत्वम् स्वत एवामृतत्वं च तयोर्न सम्भावनागन्धमर्हति । एतदुक्तम्भवति; यथा स्मार्त्तमचेतनं सर्वज्ञत्वनियन्तृत्वसर्वात्मत्वादिकं नार्हति तथा जीवोप्यतद्धर्मत्वादिति । अमीषां गुणानां परमात्मन्यन्वयः प्रत्यगात्मनि व्यतिरेकश्च सूत्रद्वयेन दर्शितः । निरपेक्षं च हेत्वन्तरमाह -

उभयेमाध्यन्दिनाः काण्वाश्च, अन्तर्यामिणो नियाम्यत्वेन वागादिभिरचेतनैस्समम् एवम् शारीरमपि विभज्याधीयते “य आत्मनि तिष्ठन्नात्मनोऽन्तरो यमात्मा न वेद यस्यात्मा शरीरं य आत्मानमन्तरो यमयति

स त आत्मान्तर्याम्यमृतः” इति माध्यन्दिनाः, “यो विज्ञाने तिष्ठन्” इति च काण्वाः, परमात्मनियाम्यतया तस्माद्विलक्षणत्वेनैनमधीयत इत्यर्थः । अतोऽन्तर्यामी प्रत्यगात्मनो विलक्षणोऽपहतपाप्मा परमात्मा नारायण इति सिद्धम् ॥ इत्यन्तर्याम्यधिकरणम् ॥