13 अत्त्रधिकरणम्

कठवल्लीष्वाम्नायते “यस्य ब्रह्म च क्षत्रं चोभे भवत ओदनः । मृत्युर्पस्योपसेचनं क हत्था वेद यत्र सः” इति ।अत्रौदनोपसेचनसूचितोऽत्ता किं जीव एव, उत परमात्मा ? इति सन्दिह्यते । किं युक्तम् ?

जीव इति । कुतः? भोक्तृत्वस्य कर्मनिमित्तत्वात् जीवस्यैव तत्सम्भवात् ।

अत्रोच्यते- अत्ता चराचरग्रहणात् । अत्ता परमात्मैव । कुतः ? चराचरग्रहणात्- चराचरस्य कृत्स्नस्य अत्तृत्वं हि तस्यैव सम्भवति । न चेदं कर्मनिमित्तं भोक्तृत्वम्, अपि तु जगज्जन्मस्थितिलयहेतुभूतस्य परस्य ब्रह्मणो विष्णोस्संहर्तृत्वम् “सोऽध्वनः पारमाप्नोति तद्विष्णोः परमं पदम्” इत्यत्रैव दर्शनात्, तथा च “मृत्युर्यस्योपसचनम्” इति वचनात् “ब्रह्म च क्षत्रञ्च” इति कृत्स्नं चराचरं जगदिहादनीयौदनत्वेन गृह्यते । उपसेचनं हि नाम

स्वयमद्यमानं सदन्यस्यादनहेतुः, अत उपसेचनत्वेन मृत्योरप्यद्यमानत्वात्तदुपसिच्यमानस्य कृत्स्नस्य ब्रह्मक्षत्रपूर्वकस्य जगतश्चराचरस्यादनमत्र विवक्षितमिति गम्यते । ईदृशं चादनमुपसंहार एव; तस्मादीदृशं जगदुपसंहारित्वरूपं भोक्तृत्वं परमात्मन षव ॥

प्रकरणञ्चेदं परस्यैव ब्रह्मणः “महान्तं विभुमात्मानं मत्वा धीरो न शोचति " “नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन । यमेवैष वृणुते तेन लभ्यस्तस्यैष आत्मा विवृणुते तनूं स्वाम्” इति हि प्रकृतम् । “क इत्था वेद यत्र सः” इत्यपि हि तत्प्रसादादृते तस्य दुरवबोधत्वमेव पूर्वप्रस्तुतं प्रत्यभिज्ञायते ॥

अथ स्यात्- नायं ब्रह्मक्षेत्रौदनसूचितः पुरुषोऽपहतपाप्मा परमात्मा; अनन्तरं “ऋतं पिबन्तौ सुकृतस्य लोके गुहां प्रविष्टौ परमे परार्ध्ये । छायातपौ ब्रह्मविदो वदन्ति पञ्चाग्नयो ये च त्रिणाचिकेताः” इति कर्मफलभोक्तुरेव

सद्वितीयस्याभिधानात् । द्वितीयश्च प्राणो बुद्धिर्वा स्यात् । ऋतपानं हि कर्मफल भोग एव; स च परमात्मनो न सम्भवति; बुद्धिप्राणयोस्तु भोक्तुर्जीवस्योपकरणभूतयोर्यथाकथञ्चित्पानेऽन्वयस्सम्भवतीति तयोरन्यतरेण सद्वितीयो जीव एव प्रतिपाद्यते । तदेकप्रकरणत्वात्पूर्वप्रस्तुतोऽत्तापि स एव भवितुमर्हतीति । तत्रोच्यते-

न प्राणजीवौ बुद्धिजीवौ वा गुहां प्रविष्टौ ऋतं पिबन्तावित्युच्यते, अपि तु जीवपरमात्मानौ हि तथा व्यपदिश्येते । कुतः? तद्दर्शनात् । अस्मिन् प्रकरणे जीवपरयोरेव गुहाप्रवेशव्यपदेशो दृश्यते । परमात्मनस्ता- वत् “तं दुर्दशर्ं गूढमनुप्रविष्टं गुहाहितं गह्वरेष्टं पुराणम् । अध्यात्मयोगाधिगमेन देवं मत्वा धीरो हर्षशोकौ जहाति” इति । जीवस्यापि “या प्राणेन सम्भवत्यदितिर्देवतामयी । गुहां प्रविश्य तिष्ठन्ती या भूतेभिर्व्यजायत” इति । कर्मफलान्यत्तत्यिदितिर्ज्जीव उच्यते । प्राणेन सम्भवतिप्राणेन सह वर्त्तते । देवतामयीइन्द्रियाधीनभोगा । गुहां प्रविश्य तिष्ठन्तीहृदयपुण्डरीकोदरवर्त्तिनी । भूतेभिर्व्यजायतपृथिव्यादिभिर्भूतैस्सहिता देवादिरूपेण विविधा जायते । एवञ्च सति “ऋतं पिबन्तौ” इति व्यपदेशः छत्रिणो गच्छन्तीतिवत्प्रतिपत्तव्यः । यद्वा- प्रयोज्यप्रयोजकरूपेण पाने कर्तृत्वं जीवपरयोरुपपद्यते ॥

अस्मिन् प्रकरणे जीवपरमात्मानावेवोपास्यत्वोपासकत्वप्राप्यत्वप्राप्तृत्वविशिष्टौ सर्वत्र प्रतिपाद्येते । “ब्रह्मजज्ञं देवमीड्यं विदित्वा निचाय्येमां शान्तिमत्यन्तमेति” इति । ब्रह्मजज्ञो जीवः, ब्रह्मणो जातत्वात् ज्ञत्वाच्च; तं देवमीड्यं विदित्वा- जीवात्मानमुपासकं ब्रह्मात्मकत्वेनावगम्येत्यर्थः । तथा “यस्सेतुरीजानानामक्षरं ब्रह्म यत्परम् । अभयं तितीर्षतां पारं नाचिकेतं शकेमहि” इत्युपास्यः परमात्मोच्यते । नाचिकेतम्- नाचिकेतस्य कर्मणः प्राप्यमित्यर्थः । “आत्मानं रथिनं विद्धि शरीरं रथमेव च” इत्यादिना उपासको जीव उच्यते । तथा “विज्ञानसारथिर्यस्तु मनःप्रग्रहवान्नरः । सोऽध्वनः पारमाप्नोति तद्विष्णोः परमं पदम्” इति प्राप्यप्राप्तारावभिधीयेते जीवपरमात्मानौ । इहापि छायातपावित्यज्ञत्वसर्वज्ञत्वाभ्यां विशिष्य व्यपदिश्येते ॥

अथ स्यात् “येयं प्रेते विचिकित्सा मनुष्येऽस्तीत्येके नायमस्तीति चैके” इति जीवस्वरूपयाथात्म्यप्रश्नोपक्रमात्सर्वमिदं प्रकरणं जीवपरमिति प्रतीयत इति । नैतदेवम्, न हि जीवस्य देहातिरिक्तस्यास्तित्वनास्तित्वशङ्कायाऽयं प्रश्नः, तथा सति पूर्ववरद्वयवरणानुपपत्तेः । तथा हि; पितुः सर्ववेदसदक्षिणक्रतुसमाप्तिवेलायां दीयमानदक्षिणावैगुण्येन क्रतुवैगुण्यं मन्यमानेन कुमारेण नचिकेतसा आस्तिकाग्रेसरेण स्वात्मदानेनापि पितुः क्रतुसाद्गुण्यमिच्छता “कस्मै मां दास्यसि” इत्यसकृत् पितरं पृष्टवता स्वनिबर्न्धरुष्टिपितृवचनात् मृत्युसदनं प्रविष्टेन स्वसदनात्प्रोषुषि यमे तददर्शनात्तत्र तिस्रो रात्रीरुपोषुषा स्वोपवासभीततत्प्रतिविधानप्रवृत्तमृत्युप्रत्ते वरत्रये आस्तिक्यातिरेकात्प्रथमेन वरेण स्वात्मानं प्रति पितुः प्रसादो वृतः, एतञ्च सर्वं देहातिरिक्तमात्मानमजानतो नोपपद्यते । द्वितीयेन च वरेणोत्तीर्णदेहात्मानुभाव्यफलसाधनभूताग्निविद्या वृत्ता, तदपि देहातिरिक्तात्मानभिज्ञस्य न सम्भवति । अतस्तृतीयेन वरेण यदिदं व्रियते “येयं प्रेते विचिकित्सा मनुष्ये अस्तीत्येके नायमस्तीति चैके । एतद्विद्यामनुशिष्टस्त्वयाहं वराणामेष वरस्तृतीयः” इति; अत्र परमपुरुषार्थरूपब्रह्मप्राप्तिलक्षणमोक्षयाथात्म्यविज्ञानाय तदुपायभूतपरमात्मोपासनपरात्मतत्त्वजिज्ञासयाऽयं प्रश्नः क्रियते ।

एवञ्च “येयं प्रेते” इति न शरीरवियोगमात्राभिप्रायम्, अपि तु सर्वबन्धविनिर्मोक्षःभिप्रायम् । यथा “न प्रेत्य सञ्ज्ञाऽस्ति” इति । अयमर्थः- मोक्षाधिकृते मनुष्ये प्रेतेसर्वबन्धविनिर्मुक्ते तत्स्वरूपविषया वादिविप्रतिपत्ति

निमित्तास्तिनास्त्यात्मिका येयं विचिकित्सा तदपनोदनाय तत्स्वरूपयाथात्म्यं त्वयाऽनुशिष्टोऽहं विद्यां जानीयामिति । तथा हि बहुधा विप्रतिपद्यन्ते केचिद्वित्तिमात्रस्यात्मनः स्वरूपोच्छित्तिलक्षणं मोक्षमाचक्षते । अन्ये वित्तिमात्रस्यैव सतो अविद्यास्तमयम् । अपरे पाषाणकल्पस्यात्मनो ज्ञानाद्यशेषवैशेषिकगुणोच्छेदलक्षणं कैवल्यरूपम् । अपरे तु अपहतपाप्मानं परमात्मानमभ्युपगच्छन्तः तस्यैवोपाधिसंसर्गनिमित्तजीवभावस्योपाध्यपगमेन तद्भावलक्षणं मोक्षमातिष्ठन्ते । त्रय्यन्तनिष्णातास्तु निखिलजगदेककारणस्याशेषहेयप्रत्यनीकानन्तज्ञानानन्दैकस्वरुपस्य स्वाभाविकानवधिकातिशयासङ्खयेयकल्याणगुणाकरस्य सकलेतरविलक्षणस्य

सर्वात्मभूतस्य परस्य ब्रह्मणः शरीरतया प्रकारभूतस्यानुकूलापरिच्छिन्नज्ञानस्वरूपस्य परमात्मानुभवैकरसस्य जीवस्यानादिकमर्रूपाविद्यातिरोहितस्वरूपस्याविद्योच्छेदपूर्वकस्वाभाविकपरमात्मानुभवमेव मोक्षमाचक्षते । तत्र मोक्षस्वरूपं तत्साधनं च त्वत्प्रसादाद्विद्यामिति नचिकेतसा पृष्टो मृत्युः तस्यार्थस्य दुरवबोधत्वप्रदर्शनेन विविधभोगवितरणप्रलोभनेन चैनं परीक्ष्य योग्यतामभिज्ञाय परावरात्मतत्त्वविज्ञानं परमात्मोपासनं तत्पदप्राप्तिलक्षणं मोक्षञ्च “तं दुर्दर्शं गूढमनुप्रविष्टम्” इत्यारभ्य “सोऽध्वनः पारमाप्नोति तद्विष्णोः परमं पदम्” इत्यन्तेन उपदिश्य तदपेक्षितांश्च विशेषानुपदिदेशेति सर्वं समञ्जसम् । अतः परमात्मैवात्तेति सिद्धम् ।

॥ इति अत्रधिकरणम् ॥