12 सर्वत्रप्रसिद्ध्यधिकरणम्

प्रथमे पादे अधीतवेदः पुरुषः कर्ममीमांसाश्रवणाधिगतकमर्याथात्म्यविज्ञानः केवलकर्मणामल्पास्थिरफलत्वमवगम्य, वेदान्तवाक्येषु चापातप्रतीतानन्तस्थिरफलब्रह्मस्वरुपतदुपासनसमुपजातपरमपुरुषार्थलक्षणमोक्षापेक्षोऽवधारितपरिनिष्पन्न-

वस्तुबोधनशब्दशक्तिर्वेदान्तवाक्यानां परस्मिन् ब्रह्मणि निश्चितप्रमाणभावस्तदितिकर्त्तव्यतारूपशारीरकमीमांसाश्रवणमारभेतेत्युक्तं शास्त्रारम्भसिद्धये । अनन्तविचित्र

स्थिरत्रसरूपभोक्तृभोग्यभोगोपकरणभोगस्थानलक्षणनिखिलजगदुदयविभवलयमहानन्दैककारणं परं ब्रह्म “यतो वा इमानि” इत्यादिवाक्यं बोधयतीति च प्रत्यपादि ॥2 ॥ जगदेककारणं परं ब्रह्म सकलेतरप्रमाणाविषयतया शास्त्रैकप्रमाणकमित्यभ्यधाम ॥ 3 ॥ शास्त्रप्रमाणकत्वं च ब्रह्मणः प्रवृत्तिनिवृत्त्यन्वयविरहेऽपि स्वरूपेणैव परमपुरुषार्थभूते परस्मिन् ब्रह्मणि वेदान्तवाक्यानां समन्वयान्निरूह्यत इत्यब्रूम ॥ 4 ॥ निखिलजगदेककारणतया वेदान्तवेद्यं ब्रह्म च ईक्षणाद्यन्वयादानुमानिकप्रधानादर्थान्तरभूतश्चेतनविशेष एवेत्युपापीपदाम ॥ 5 ॥ स च

स्वाभाविकानवधिकातिशयानन्दविपश्चित्त्वनिखिलचेतनभयाभयहेतुत्वसत्यसङ्कल्पत्वसस्तचेतनाचेतनान्तरात्मत्वादिभिब्रद्धमुक्तोभयावस्थाज्जीवशब्दाभिलपनीयाच्चार्थान्तरभूत इति च समार्तिथामहि ॥ 6 ॥ स चा प्राकृताकर्मनिमित्तस्वासाधारणदिव्यरूप इत्युदैरिराम ॥ 7 ॥ आकाशप्रमाणाद्यचेतनविशेषाभिधायिभिर्जगत्कारणतया प्रसिद्धवन्निर्दिश्यमानस्सकलेतरचेतनाचेतनविलक्षणस्य एवेति समगरिष्महि ॥ 8 ॥ परतत्त्वासाधारणनिरतिशयदीप्तियुक्तज्योतिश्शब्दाभिधेयो द्युसम्बन्धितया प्रत्यभिज्ञानात्स एवेत्यातिष्ठामहि ॥ 10 ॥ परमकारणासाधारणामृतत्वप्राप्तिहेतुभूतः परमपुरुष एव शास्त्रदृष्टया इन्द्रादिशब्दैरभिधीयत इत्यब्रूमहि ॥ 11 ॥ तदेवमतिपतितसकलेतरप्रमाणसम्भावनाभूमिस्सार्वज्ञ्यसत्य

सङ्कल्पत्वाद्यपरिमितोदारगुणसागरतया स्वेतरसमस्तवस्तुविलक्षणः परं ब्रह्म पुरुषोत्तमो नारायण एव वेदान्तवेद्य इत्युक्तम् । अतः परं द्वितीयतृतीयचतुर्थेषु पादेषु यद्यपि वेदान्तवेद्यं ब्रह्मैव तथापि नानिचिद्वेदान्तवाक्यानि प्रधानक्षेत्रज्ञान्तर्भूतवस्तुविशेषस्वरूपप्रतिपादनपराण्येवेत्याशङ्कय तन्निरसनमुखेन तत्तद्वाक्योदितकल्याणगुणाकरत्वं ब्रह्मणः प्रतिपाद्यते । तत्रास्पष्टजीवादिलिङ्गकानि वाक्यानि द्वितीये पादे विचार्यन्ते, स्पष्टलिङ्गकानि तृतीये, तत्तत्प्रतिपादनच्छायानुसारीणि चतुर्थे ॥

इदमाम्नायते छान्दोग्ये “अथ खलु क्रतुमयः पुरुषो यथाक्रतुरस्मिंल्लोके पुरुषो भवति

तथेतः प्रेत्य भवति स क्रतुं कुर्वीत मनोमयः प्राणशरीरो भारूपः” इत्यादि ॥ अत्र “स क्रतुं कुर्वीत” इति प्रतिपादितस्योपासनस्योपास्यः “मनोमयः प्राणशरीरः” इति निर्दिश्यत इति

प्रतीयते । तत्र संशयः- किं मनोमयत्वादिगुणकः क्षेत्रज्ञः, उत परमात्मा ? इति । किं युक्तम् ? क्षेत्रज्ञ इति । कुतः ? मनः प्राणयोः क्षेत्रज्ञोपकरणत्वात्, परमात्मनस्तु “अप्राणो ह्यमनाः” इति तत्प्रतिषेधाच्च । न च “सर्वं खल्विदं ब्रह्म” इति पूर्वनिर्दिष्टं ब्रह्मात्रोपास्यतया सम्बद्धुं शक्यते, “शान्त उपासीत” इत्युपासनोपकरणशान्तिनिर्वृत्त्युपायभूतब्रह्मात्मकत्वोपदेशायोपात्तत्वात् । न च “स क्रतुं कुवर्ीत” इत्युपासनस्योपास्यसाकाङ्क्षत्वाद्वाक्यान्तरस्थमपि ब्रह्म सम्बध्यत इति युक्तं वक्तुम्, स्ववाक्योपात्तेन

मनोमयत्वादिगुणकेन

निराकाङ्क्षत्वात्; “मनोमयः प्राणशरीरः” इत्यनन्यार्थतया निर्दिष्टस्य विभक्तिविपरिणाममात्रेणोभयाकाङ्क्षानिवृत्तिसिद्धेः । एवं निश्चिते जीवत्वे “एतद्ब्रह्म” इत्युपसंहारस्थब्रह्मपदमपि जीव एव पूजार्थं प्रयुक्तमित्यध्यवसीयत इति ।

एवं प्राप्ते ब्रूमः- सर्वत्र प्रसिद्धोपदेशात् । मनोमयत्वादिगुणकः परमात्मा । कुतः? सर्वत्र- वेदान्तेषु परस्मिन्नेव ब्रह्मणि प्रसिद्धस्य मनोमयत्वादेरुपदेशात् । प्रसिद्धं हि मनोमयत्वादि ब्रह्मणः । यथा “मनोमयः

प्राणशरीरनेता” “स एषोऽन्तर्हृदय आकाशः । तस्मिन्नयं पुरुषो मनोमयः । अमृतो हिरण्यमयः” “हृदा मनीषा मनसाभिक्लृप्तो य एनं विदुरमृतास्ते भवन्ति” “न चचुक्षा गृह्यते नापि वाचा” “मनसा तु विशुद्धेन” तथा “प्राणस्य प्राणः” “अथ खलु प्राण एव प्रज्ञात्मेदं शरीरं परिगृह्योत्थापयति” “सर्वाणि ह वा इमानि भूतानि प्राण

मेवाभिसंविशन्ति प्राणमभ्युज्जिहते” इत्यादिषु । मनोमयत्वम्- विशुद्धेन मनसा ग्राह्यत्वम् । प्राणशरीरत्वम्- प्राणस्याप्याधारत्वं नियन्तृत्वञ्च । एवञ्च सति “एष म आत्माऽन्तर्हृदय एतद्ब्रह्म” इति ब्रह्मशब्दोऽपि मुख्य एव भवति । “अप्राणो ह्यमानाः” इति मन आयत्तं ज्ञानं प्राणायत्तां स्थितिञ्च ब्रह्मणो निषेधति ॥

अथवा “सर्वं खल्विदं ब्रह्म तज्जलानिति शान्त उपासीत” इत्यत्रैवोपासनं विधीयते, सर्वात्मकं ब्रह्म शान्तः सन्नुपासीतेति । “स क्रतुं कुर्वीत” इति तस्यैव गुणोपादानार्थोऽनुवादः । उपादेयाश्च गुणाः मनोमयत्वादयः, अतः

सर्वात्मकं ब्रह्म मनोमयत्वादिगुणकमुपासीतेति वाक्याथर्ः । तत्र सन्देहः, किमिह ब्रह्मशब्देन प्रत्यगात्मा निर्द्दिश्यते, उत परमात्मा ? इति । किं युक्तम् ? प्रत्यगात्मेति । कुतः? तस्यैव सर्वपदसामानाधिकरण्यनिर्द्देशोपपत्तेः । सर्वशब्दनिर्द्दिष्टं हि ब्रह्मादिस्तम्बपर्यन्तं कृत्स्नं जगत् । ब्रह्मादिभावश्च प्रत्यगात्मनोऽनाद्यविद्यामूलकर्मविशेषोपाधिको विद्यत एव; परस्य तु ब्रह्मणः सर्वज्ञस्य सर्वशक्तेरपहतपाप्मनो निरस्तसमस्ताविद्यादिदोषगन्धस्य समस्तहेयाकरसर्वभावो नोपपद्यते । प्रत्यगात्मन्यपि क्वचित्क्वचिद्ब्रह्मशब्दः प्रयुज्यते, अत एव

परमात्मा परं ब्रह्मेति परमेश्वरस्य क्वचित्सविशेषणो निर्देशः । प्रत्यगात्मनश्च निर्मुक्तोपाधेर्बृहत्त्वं च विद्यते । “स चानन्त्याय कल्पते” इति श्रुतेः । अविदुपस्तस्यैव कर्मनिमित्तत्वाज्जगज्जन्मस्थितिलयानां तज्जलानिति हेतुनिर्देशोऽप्युपपद्यते । तदयमर्थः- अयं जीवात्मा स्वतो अपरिच्छिन्नस्वरूपत्वेन ब्रह्मभूतस्सन्ननाद्यविद्यया देवतिर्य्यङ्मनुष्यस्थावरात्मनाऽवतिष्ठत इति ॥

अत्र प्रतिविधीयते- सर्वत्र प्रसिद्धोपदेशात् । सर्वत्र- “सर्वं खल्विदम्” इति निर्दिष्टे सर्वस्मिन् जगति ब्रह्मशब्देन तदात्मतया विधीयमानं परं ब्रह्मैव न प्रत्यगात्मा । कुतः? प्रसिद्धोपदेशात्- “तज्जलान्” इति हेतुतः “सर्वं खल्विदं ब्रह्म” इति प्रसिद्धवदुपदेशात् । ब्रह्मणो जातत्वाद्ब्रह्मणि लीनत्वाद्ब्रह्माधीनजीवनत्वाच्च हेतोर्ब्रह्मात्मकं सर्वं खल्विदं जगदित्युक्ते यस्माज्जगज्जन्मस्थितिलयाः वेदान्तेषु प्रसिद्धाः तदेवात्र ब्रह्मेति

प्रतीयते ।

तच्च परमेव ब्रह्म; तथा हि “यतो वा इमानि भूतानि जायन्ते । येन जातानि जीवन्ति । यत्प्रयन्त्यभिसंविशन्ति । तद्विजिज्ञासस्व । तद्ब्रह्म” इत्युपक्रम्य “आनन्दो ब्रह्मेति व्यजानात् । आनन्दाध्द्येव खल्विमानि भूतानि जायन्ते” इत्यादिना पूर्वानुवाकप्रतिपादितानवधिकातिशयानन्दयोगिनो विपश्चितः परस्माद्ब्रह्मण एव जगदुत्पत्तिस्थितिलया निर्द्दिश्यन्ते; तथा “स कारणं करणाधिपाधिपो न चास्य कश्चिज्जनिता न चाधिपः” इति करणाधिपस्य जीवस्याधिपः परं ब्रह्मैव कारणं व्यपदिश्यते, एवं सर्वत्र परस्यैव ब्रह्मणः कारणत्वं पसिद्धम्; अतः परब्रह्मणो जातत्वात्तस्मिन् प्रलीनत्वात् तेन प्राणनात् तदात्मकतया तादात्म्यमुपपन्नम् । अतस्सर्वप्रकारं सर्वशरीरं सर्वात्मभूतं परं ब्रह्म शान्तो भूत्वा उपासीतेति श्रुतिरेव परस्य ब्रह्मणः सर्वात्मकत्वमुपपाद्य तस्योपासनमुपदिशति

। परं ब्रह्म हि कारणावस्थं कार्यावस्थं सूक्ष्मस्थूलचिदचिद्वस्तुशरीरतया सर्वदा सर्वात्मभूतम् । एवम्भूततादात्म्यस्य प्रतिपादने परस्य ब्रह्मणस्सकलहेयप्रत्यनीककल्याणगुणाकरत्वं न विरुध्यते, प्रकारभूतशरीरगतानां दोषाणां प्रकारिण्यात्मन्यप्रसङ्गात्, प्रत्युत निरतिशयैश्वर्यापादनेन गुणायैव भवतीति पूर्वमेवोक्तम् । यदुक्तं जीवस्य सर्वतादात्म्यमुपपद्यत इति । तदसत्; जीवानां प्रतिशरीरं भिन्नानामन्योन्यतादात्म्यासम्भवात् । मुक्तस्याप्यनवच्छिन्नस्वरूपस्यापि जगत्तादात्म्यं जगज्जन्मस्थितिप्रलयकारणत्वनिमित्तं न सम्भवतीति

“जगद्य्वापारवर्जम्”

इत्यत्र वक्ष्यते । जीवकर्मनिमित्तत्वाज्जगज्जन्मस्थितिलयानां स एव कारणमित्यपि न साधीयः, तत्कर्मनिमित्तत्वेऽपीश्वरस्यैव जगत्कारणत्वात् । अतः परमात्मैवात्र ब्रह्मशब्दाभिधेयः । इममेव सूत्रार्थमभियुक्ता बहुमन्वते । यदाह वृत्तिकारः “सर्वं खल्विति सर्वात्मा ब्रह्मेशः” इति ॥

वक्ष्यमाणाश्च गुणाः परमात्मन्येवोपपद्यन्ते “मनोमयः प्राणशरीरो भारूपस्सत्यसङ्कल्प आकाशात्मा सर्वकर्मा सर्वकामस्सर्वगन्धः सर्वरसस्सर्वमिदमभ्यात्तोऽवाक्यनादरः” इति । मनोमयः- परिशुद्धेन मनसैकेन ग्राह्यः, विवेकविमोकादिसाधनसप्तकानुगृहीतपरमात्मोपासननिर्मलीकृतेन हि मनसा गृह्यते । अनेन हेयप्रत्यनीककल्याणैकतानतया सकलेतरविलक्षणस्वरूपतोच्यते; मलिनमनोभिर्मलिनानानामेव ग्राह्यत्वात् । प्राणशरीरः- जगति सर्वेषां प्राणानां धारकः, प्राणोयस्य शरीरम् आधेयं विधेयं शेषभूतञ्च स प्राणशरीरः ।

आधेयत्वविधेयत्वशेषत्वानि शरीरशब्दप्रवृत्तिनिमित्तानीत्युपपादयिष्यते । भारूपः- भास्वररूपः, अप्राकृतस्वासाधारणनिरतिशयकल्याणदिव्यरूपत्वेन निरतिशयदीप्तियुक्त इत्यर्थः । सत्यसङ्कल्पः- अप्रतिहतसङ्कल्पः । आकाशात्मा- आकाशवत् सूक्ष्मस्वच्छस्वरूपः, सकलेतरकारणभूतस्याकाशस्याप्यात्मभूत इति वा आकाशात्मा, स्वयं च प्रकाशते अन्यानपि प्रकाशयतीति वा आकाशात्मा । सर्वकर्मा- क्रियत इतिकर्म, सर्वं जगद्यस्य कर्म असौ सर्वकर्मा; सर्वा वा क्रिया यस्यासौ सर्वकर्मा । सर्वकामः- काम्यन्त इति कामाः, भोग्यभोगोपकरणादयः, ते परिशुद्धाः सर्वविधास्तस्य सन्तीत्यर्थः । सर्वगन्धस्सर्वरसः- “अशब्दमस्पर्शम्” इत्यादिना प्राकृतगन्धरसादिनिषेधादप्राकृताः स्वासाधारणा निरवद्याः निरतिशयाः कल्याणाः स्वभोग्यभूताः सर्वविधाः गन्धरसास्तस्य सन्तीत्यर्थः । सर्वमिदमभ्यात्तः- उक्तं रसपर्यन्तं सर्वमिदं कल्याणगुणजातं स्वीकृतवान् । “अभ्यात्तः” इति “भुक्ता ब्राह्मणाः” इतिवत्कर्त्तरि क्तः प्रतिपत्त्यव्यः । अवाकीवाकः उक्तिः, सोऽस्य नास्तीति अवाकी । कुत इत्याह अनादर इति । अवाप्तसमस्तकामत्वेनादत्तर्व्याभावादादररहितः । अत एव अवाकी-

अजल्पाकः, परिपूर्णैश्चर्यत्वाद्ब्रह्मादिस्तम्बपर्यन्तं निखिलं जगत्तृणीकृत्य जोषमासीन इत्यर्तः । त एते विवक्षिता गुणाः परमात्मन्येवोपपद्यन्ते ॥

तमिमं गुणसागरं पर्यालोचयतां खद्योतकल्पस्य शरीरसम्बन्धनिबन्धनापरिमितदुःखसंबन्धयोग्यस्य बद्धमुक्तावस्थस्य जीवस्य प्रस्तुतगुणलेशसम्बन्धगन्धोऽपि नोपपद्यत इति नास्मिन् प्रकरणे शारीरपरिग्रहशङ्का जायत इत्यर्थः ॥

“एतमितः प्रेत्यभिसम्भवितास्मि” इति प्राप्यतया परं ब्रह्म व्यपदिश्यते, प्राप्तृतया च जीवः, अतः प्राप्ता जीव उपासकः, प्राप्यं परं ब्रह्मोपास्यमिति प्राप्तुरन्यदेवेदमिति विज्ञायते ॥

“एष म आत्माऽन्तर्हृदये” इति शारीरः षष्ठ्या निर्दिष्टः, उपास्यस्तु प्रथमया । एवं समानप्रकरणे वाजिनाञ्च श्रुतौ शब्दविशेषश्श्रूयतेजीवपरयोः- यथा । व्रीहिर्वा यवो वा श्यामाको वा श्यामाकतण्डुलो वा एवमयमन्तरात्मन् पुरुषो हिरण्यमयो यथा ज्योतिरधूमम्" इति । अत्र “अन्तरात्मन्” इति सप्तम्यन्तेन शारीरो निर्दिश्यते; “पुरुषो हिरण्यमयः” इति प्रथमयोपास्यः, अतः पर एवोपास्यः ॥

इतश्च शारीरादन्यः - “सर्वस्य चाहं हृदि सन्निविष्टो मत्तः स्मृतिर्ज्ञानमपोहनं च” “यो मामेवमसम्मूढो जानाति पुरुषोत्तमम्” “ईश्वरस्सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति । भ्रामयन् सर्वभूतानि यन्त्रारूढानि मायया । तमेव शरणं गच्छ” इति च शारीरकमुपासकं परमात्मानं चोपास्यं स्मृतिर्दर्शयति ॥

अल्पायतनत्वमर्भकौकस्त्वम्; तद्व्यपदेशः- अल्पत्वव्यपदेशः । “एष म आत्माऽन्तर्हृदये” इत्यणीयसि हृदयायतने स्थितत्वात् “अणीयान् व्रीहेर्वा यवाद्वा” इत्यादिनाऽणीयस्त्वस्य स्वरूपेण व्यपदेशाच्च नायं परमात्मा, अपि तु जीव एव; “सर्वगतं सुसूक्ष्मं तदव्ययं यद्भूतयोनिं परिपश्यन्ति धीराः” इत्यादिभिः परमात्मनोऽपरिच्छिन्नत्वावगमात्, जीवस्य चाराग्रमात्रत्वव्यपदेशादिति चेत् । नैतदेवम्; परमात्मैव ह्यणीयानित्येवं निचाय्यत्वेन व्यपदिश्यते; एवं निचाय्यत्वेन एवं द्रष्टव्यत्वेन, एवमुपास्यत्वेनेति यावत् । न पुनरणीयस्त्वमेवास्य स्वरूपमिति; व्योमवच्चायं व्यपदिश्यते, स्वाभाविकं महत्त्वं चात्रैव व्यपदिश्यते “ज्यायान् पृथिव्या

ज्यायानन्तरिक्षाज्ज्यायान् दिवो ज्यायानेभ्यो लोकेभ्यः” इति । अत उपासनार्थमोल्पत्व व्यपदेशः ।

तथा हि “सर्वं खल्विदं ब्रह्म तज्जलानिति शान्त उपासीत” इति सर्वोत्पत्तिप्रलयकारणत्वेन सर्वस्यात्मतयाऽनुप्रवेशकृतजीवयितृत्वेन च सर्वात्मकं ब्रह्मोपासीतेत्युपासनं बिधाय “अथ खलु क्रतुमयः पुरुषो यथाक्रतुरस्मिंल्लोके पुरुषो भवति तथेतः प्रेत्य भवति” इति यथोपासनं प्राप्यसिद्धिमभिधाय “स क्रतुं कुर्वीत” इति गुणविधानार्थमुपासनमनूद्य “मनोमयः प्राणशरीरो भासरूपस्सत्यसङ्कल्प आकाशात्मा सर्वकर्मा सर्वकामस्सर्वगन्धस्सर्वरसस्सर्वमिदमभ्यात्तोऽवाक्यनादरः” इति जगदैश्वर्यविशिष्टस्य स्वरूपगुणांश्चोपादेयान् प्रतिपाद्य “एष म आत्माऽन्तर्हृदयेऽणीयान् व्रीहेवर्ा यवाद्वा सर्षपाद्वा श्यामाकाद्वा श्यामाकतण्डुलाद्वा” इत्युपासकस्य हृदयेऽणीयस्त्वेन तदात्मतयोपास्यस्य परमपुरुषस्योपासनार्थमवस्थानमुक्तवा “एष म आत्माऽन्तर्हृदये ज्यायान् पृथिव्या ज्यायानन्तरिक्षाज्ज्यायान् दिवो ज्यायानेभ्यो लोकेभ्यः सर्वकर्मा सर्वकामस्सर्वगन्धस्सर्वरसस्सर्वमिदमभ्यात्तोऽवाक्यनादरः” इत्यन्तर्हृदयेऽवस्थितस्योपास्यमानस्य प्राप्याकारं निर्दिश्य “एष म आत्माऽन्तर्हृदय एतद्ब्रह्म” इत्येवम्भूतं परं ब्रह्म परमकारुण्येनास्मदुच्चिचीवयिषयाऽस्मद्धृदये सन्निहितमितीदमनुसन्धानं विधाय “एतमितः प्रेत्याभिसम्भविताऽस्मि” इति यथोपासनं प्राप्तिनिश्यानुसन्धानं च विधाय “इति यस्य स्यादद्धा न विचिकित्साऽस्ति” इत्येवंविधप्राप्यप्राप्तिनिश्चयोपेतस्योपासकस्य प्राप्तौ न संशयोऽस्तीत्युपसंहृतम् । अत उपासनार्थमर्भकौकस्त्वमणीयस्त्वञ्च ॥

जीवस्येव परस्यापि ब्रह्मणः शरीरार्न्वर्त्तित्वमभ्युपगतञ्चेत् तद्वदेव शरीरसम्बन्धप्रयुक्तसुखदुःखोपभोगप्राप्तिरिति चेत् । तन्न हेतुवैशेष्यात् । न हि शरीरान्तर्वर्त्तित्वमेव सुखदुःखोपभोगहेतुः, अपि तु पुण्यपापरूपकर्मपरवशत्वम्; तत्त्वपहतपाप्मनः परमात्मनो न सम्भवति । तथा च श्रुतिः “तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्यो अभिचाकशीति” इति ॥ यदि परमात्मा न भोक्ता, एवं तर्हि सर्वत्र भोक्तृतया प्रतीयमानो जीव एव स्यादित्याशङ्क्याह -