श्रीशारीरकमीमांसाभाष्ये आतिवाहिकाधिकरणम्
अधिकरणार्थः
ब्रह्मप्रेप्सोर्मध्येमार्गं श्रुतानामर्चिरादीनाम्, अतिवोढृदेवताविशेषत्वमेव न मार्गचिह्नत्वं, नापि भोगभूमित्वम्
५१२. आतिवाहिकास्तल्लिङ्गात् ॥ ४–३–४ ॥
अधिकरणोपयोगिनी चिन्ता
इदमिदानीं चिन्त्यते – किमर्चिरादयो मार्गचिह्नभूताः, उत भोगभूमयः, अथवा विदुषां ब्रह्म प्रेप्सतामतिवोढारः इति किं तावद्युक्तम्? मार्गचिह्नभूता इति । कुतः? उपदेशस्य तथाविधत्वात्; दृश्यते हि लोके ग्रामादीन् प्रति गन्तॄणामेवंविधो देशिकैरुपदेशः – इतो निष्क्रम्यामुकं वृक्षममुकां नदीममुकं च पर्वतपार्श्वं गत्वाऽमुकं ग्रामं गच्छ इति । अथवा भोगभूमय एतास्स्युः, कालविशेषतया प्रसिद्धानामहरादीनां मार्गचिह्नत्वानुपपत्तेरन्यस्य च मार्गचिह्नभूतस्यैतेषामनभिधायकत्वात् । भोगभूमित्वं च एत एव लोका यदहोरात्राण्यर्धमासा मासा ऋतवस्सवंत्सराः (तै.ना.८०) इत्यहरादीनां लोकत्ववचनादुपपद्यते । अत एव च कौषीतकिनः अग्निलोकमागच्छति (कौषी.१.३) इत्यादिना लोकशब्दानुविधानेनार्चिरादीन् पठन्तीति ॥
सिद्धान्तार्थः सूत्रार्थतः
एवं प्राप्ते ब्रूमः आतिवाहिकाः – इति। विदुषामतिवाहे परमपुरुषेण नियुक्ताः आतिवाहिकाः देवताविशेषा एतेऽर्चिरादयः। कुतः? तल्लिङ्गात्- अतिवहनलिङ्गात् । अतिवहनं हि गन्तॄणां गमयितृत्वम् । गमयितृत्वं च तत्पुरुषोऽमानवः स एनान् ब्रह्म गमयति (छा.४.१५.५,६) इत्युपसंहारे श्रूयमाणं पूर्वेषामप्यविशेषश्रुतानां स एव सम्बन्ध इति गमयति । वदन्ति चार्चिरादयः शब्दाः अर्चिराद्यात्मभूतानभिमानिदेवताविशेषान् । तं पृथिव्यब्रवीत् (यजु.५.५.२) इतिवत्॥४॥
वरुणादीनां विद्युतः परेषामपि आतिवाहिकत्वेनान्वयौचित्यम्
यद्येवं तत्पुरुषोऽमानवस्स एतान् ब्रह्म गमयति (छां.४.१५.५) इति वैद्युतस्यैव पुरुषस्य ब्रह्मगमयितृत्वश्रुतेर्विद्युतः परेषां वरुणादीनां कथमातिवाहिकत्वेनान्वय इत्यत्राह –
५१३. वैद्युतेनैव ततस्तच्छ्रुतेः ॥ ४–३–५ ॥
ततः विद्युत उपरि, वैद्युतेन – अमानवेनैवातिवाहिकेन विदुषामाब्रह्मप्राप्तेर्गमनम्। कुतः? तच्छ्रुतेः – स एनान् ब्रह्म गमयति (छा.४.१५.५) इति तस्यैव गमयितृत्वश्रुतेः। वरुणादयस्तु अनुग्राहका इति तेषामप्यातिवाहिकत्वेनान्वयो विद्यत एव॥ ५॥
इति श्रीशारीरकमीमांसाभाष्ये आतिवाहिकाधिकरणम्॥५॥