श्रीभाष्यम् 04-03-01 अर्चिराद्यधिकरणम्

श्रीभगवद्रामानुजविरचिते श्रीशारीरकमीमांसाभाष्येचतुर्थे फलाध्याये – तृतीयः गतिपादः

पातार्थः – मुमुक्षोः तदर्थं निष्पन्नोपासनस्य हार्दानुग्रहात् मूर्धन्यनाड्या उत्क्रान्तस्य परप्राप्तये गमनमार्गविचारः

अर्चिराद्यधिकरणम् ॥१॥

अधिकरणार्थः

परं प्राप्नुवतः पुरुषस्य अर्चिरादिरेक एव मार्गः नियतश्चिन्तनीयः, नान्यः

५०९. अर्चिरादिना तत्प्रथितेः ॥ ४–३–१ ॥

पादसङ्गतिः पादविचार्योऽर्थश्च

विदुष उत्क्रान्तस्य नाडीविशेषेण हार्दानुग्रहाद्गत्युपक्रम उक्तः । तस्य गच्छतो मार्ग इदानीं निर्णीयते ॥

विचारविषयस्योपस्थापनम्

तत्र श्रुतिषु मार्गप्रकाराः बहुधा आम्नायन्ते; छान्दोग्ये तावत् यथा पुष्करपलाश आपो न श्लिष्यन्ते एवमेवंविदि पापं कर्म न श्लिष्यते (छा.४.१४.३) इत्युपक्रम्य ब्रह्मविद्यामुपदिश्याम्नायते अथ यदुचैवास्मिन् शव्यं कुर्वन्ति यदु च न अर्चिषमेवाभिसम्भवन्ति अर्चिषोऽहरह्न आपूर्यमाणपक्षमापूर्यमाणपक्षाद्यान् षडुदङ्ङेति मासांस्तान् मासेभ्यः संवत्सरं संवत्सरादादित्यमादित्याच्चन्द्रमसं चन्द्रमसो विद्युतं तत्पुरुषोऽमानवः। स एनान् ब्रह्म गमयत्येष देवपथो ब्रह्म पथः एतेन प्रतिप्रद्यमाना इमं मानवमावर्तं नावर्तन्ते (छा.४.१५.५,६) इति । तथाऽत्रैवाष्टमे अथैतैरेव रश्मिभिरूर्ध्वमाक्रमते (छा.८.६.५) इति । कौषीतकिनश्च देवयानमार्गमन्यथाऽधीयते स एतं देवयानं पन्थानमापद्याग्निलोकमागच्छति स वायुलोकं स वरुणलोकं स आदित्यलोकं स इन्द्रलोकं स प्रजापतिलोकं स ब्रह्मलोकम् (कोषी.१.३) इति । तथा बृहदारण्यके – य एवमेतद्विदुर्येचेमेऽरण्ये श्रद्धां सत्यमुपासते तेऽर्चिषमभिसम्भवन्ति अर्चिषोऽहरह्न आपूर्यमाणपक्षमापूर्यमाणपक्षाद्यान् षण्मासानुदङ्ङादित्य एति मासेभ्यो देवलोकं देवलोकादादित्यमादित्याद्वैद्युतं वैद्युतात्पुरुषोऽमानवस्स एत्य ब्रह्मलोकान् गमयति (बृह.६.८.२५) इति । तत्रैव पुनरन्यथा यदा वै पुरुषोऽस्माल्लोकांत्प्रैति स वायुमागच्छति तस्मै स तत्र विजिहीते यथा रथचक्रस्य खम् तेन स ऊर्ध्वमाक्रमते स आदित्यमागच्छति तस्मै स तत्र विजिहीते यथा आडम्बरस्य खम् तेन स ऊर्ध्वमाक्रमते स चन्द्रमसमागच्छति तस्मै स तत्र विजिहीते यथा दुन्दुभेः खम् (बृ.७.१०.१) इत्यादि ॥

विचारोपयोगी संशयः

तत्र संशयः – किमर्चिरादिरेक एव मार्गः आभिश्श्रुतिभिः प्रतिपाद्यत इति, तेनैव ब्रह्म गच्छति विद्वान् उत तस्मादन्येऽन्यत्र मार्गा इति, तैर्वाऽनेन वेत्यनियमः – इति।

यौक्तिकः पूर्वपक्षः

किं युक्तम्? अनियम इति। कुतः? अनेकरूपत्वान्नैरपेक्ष्याच्चैति॥

सूत्रतः सिद्धान्तार्थः

एवं प्राप्तेऽभिधीयते – अर्चिरादिना – इति। अर्चिरादिरेक एव मार्गस्सर्वत्र प्रतिपाद्यते। अतोऽर्चिरादिनैव गच्छति । कुतः? तत्प्रथितेः – तस्यैव सर्वत्र प्रथितेः। प्रथितिः – प्रसिद्धिः, तस्यैव सर्वत्र प्रत्यभिज्ञानादित्यर्थः । प्रत्यभिज्ञानात्स एव मार्गस्सर्वत्र न्यूनाधिकभावेन प्रतिपाद्यत इति विद्यागुणोपसंहारवदन्यत्रोक्तानामन्यत्रोपसंहारः क्रियते ।

उक्तस्य प्रत्यभिज्ञानस्य प्रदर्शनम्

छान्दोग्ये तावदुपकोसलविद्यायां पञ्चाग्निविद्यायां चैकरूप एवाम्नायते; वाजसनेयके च पञ्चाग्निविद्यायां तथैवार्चिरादिः अल्पान्तर आम्नायते; अतस्तत्रापि स एवेति प्रतीयते । अन्यत्रापि सर्वत्राग्न्यादित्यादयः प्रत्यभिज्ञायन्ते ॥१॥

इति श्रीशारीरकमीमांसाभाष्ये अर्चिराद्यधिकरणम्॥१॥