श्रीभाष्यम् 04-02-02 मनोऽधिकरणम्

श्रीशारीरकमीमांसाभाष्ये मनोऽधिकरणम्॥२॥

अधिकरणार्थः

सर्वेन्द्रिययुक्तस्य मनसः संयोगरूपा प्राणे सम्पत्तिः

४९१. तन्मनः प्राण उत्तरात् ॥ ४–२–३ ॥

सूत्रविवृत्या सिद्धान्तार्थवर्णनम्

तत् – सर्वेन्द्रियसंयुक्तं मनः प्राणे सम्पद्यते – प्राणेन संयुज्यते; न मनोवृत्तिमात्रम्। कुतः? उत्तरात् – मनः प्राणे (छा.६.८.६) इति वाक्यात्।

अधिकरणौपयिकी अधिकाशङ्का

अधिकाशङ्का तु अन्नमयं हि सोम्य मनः (छा.६.६.५) इति वचनान्मनसोऽन्नप्रकृतित्वमवगम्यते; अन्नस्य च ता अन्नमसृजन्त (छा.६-२-४) इत्यम्मयत्वं सिद्धम्, आपोमयः प्राणः (छां.६.६.५) इति चाप्प्रकृतित्वं प्राणस्यावगम्यते, अतो मनः प्राणे सम्पद्यत इत्यत्र प्राणशब्देन प्राणप्रकृतिभूता आपो निर्दिश्य तासु मनस्सम्पत्तिप्रतिपादने परम्परया स्वकारणे लय इति सम्पत्तिवचनमुपपन्नं भवति – इति ॥

अधिकरणतः सिद्धः तत्परिहारः

परिहारस्तु अन्नमयं हि सोम्य मनः, आपोमयः प्राणः (छां.६.६.५) इति मनः प्राणयोरन्नेनाद्भिश्चाप्यायनमुच्यते; न तत्प्रकृतित्वम्, आहङ्कारिकत्वान्मनसः, आकाशविकारत्वाच्च प्राणस्य । प्राणशब्देनापां लक्षणा च स्यात् – इति॥ ३॥

इति श्रीशारीरकमीमांसाभाष्ये मनोऽधिकरणम्॥२॥