श्रीशारीरकमीमांसाभाष्ये अग्निहोत्राद्यधिकरणम्
अधिकरणार्थः
अग्निहोत्रादिकं नित्य-नैमित्तिकरूपं कर्म अनुष्ठेयविद्यार्थत्वात् अवश्यं कर्तव्यमेव
४८५. अग्निहोत्रादि तु तत्कार्यायैव तद्दर्शनात् ॥ ४–१–१६ ॥
अवान्तरसङ्गतिः
इतरस्याप्येवमसंश्लेषः (शारी.४-१-१४) इति विद्याबलात्सुकृतस्याप्यसंश्लेष उक्तः,
पूर्वपक्षः युक्त्या
अग्निहोत्रादीनां नित्यनैमित्तिकानां स्वाश्रमधर्माणामपि सुकृतत्वसामान्येन तत्फलस्याश्लेषादनिच्छतोऽननुष्ठाने प्राप्त
सूत्रतः सिद्धान्तः
उच्यते, अग्निहोत्रादि तु – इति। तुशब्दस्सुकृतान्तरेभ्यो विशेषणार्थः; अग्निहोत्रादि आश्रमधर्माः फलाश्लेषासम्भवादनुष्ठेया एव; तदसम्भवश्च तत्कार्यार्थत्वात्तेषाम्; विद्याख्यकार्यायैव हि विदुषोऽग्निहोत्राद्यनुष्ठानम्; कथमिदमवगम्यते? तद्दर्शनात्; दृश्यते हि तमेतं वेदानुवचनेन ब्राह्मणाः विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेन (बृ.६.५.२२) इत्यादिनाऽग्निहोत्रादीनां विद्यासाधनत्वम्।
कर्मणामपि यावदायुषता
विद्यायाश्चाप्रयाणादभ्यासाधेयातिशयाया अहरहरुत्पाद्यत्वात् तदुत्पत्त्यर्थं आश्रमकर्मापि अहरहरनुष्ठेयमेव; अन्यथाऽऽश्रमकर्मलोपे दूषितान्तः करणस्य विद्योत्पत्तिरेव न स्यात्॥१६॥
सुहृदः साधुकृत्यां इति श्रुतेर्विषयकल्पनम्
यदि अग्निहोत्रादिसाधुकृत्याः विद्योत्पत्त्यर्थाः, विद्योत्पत्तेः प्राचीनं च सुकृतं यावत्सम्पातमुषित्वा (छा.५.१०.५) प्राप्यान्तं कर्मणः (बृ.६.४.६) इत्यनुभवेन विनष्टम्, भुक्तशिष्टं च प्रारब्धफलम्; सुहृदस्साधुकृत्याम् इत्यस्य को विषयः? तत्राह-
४८६. अतोऽन्यापि ह्येकेषामुभयोः ॥ ४–१–१७॥
अतः – अग्निहोत्रादिसाधुकृत्यायाः विद्योत्पत्त्यर्थायाः अन्यापि विद्याधिगमात्पूर्वोत्तरयोः उभयोरपि पुण्यकर्मणोः प्रबलकर्मप्रतिबद्धफला साधुकृत्याऽनन्ताः सम्भवत्येव; तद्विषयमिदमेकेषां शाखिनां वचनं तस्य पुत्रा दायमुपयन्ति सुहृदस्साधुकृत्याम् इति । विद्ययाऽश्लेषविनाशश्रुतिश्च तद्विषया ॥१७॥
सुहृदः इति श्रुतेः उक्तो विषयः पूर्वसिद्ध इति स्मरणम्
अनुष्ठितस्यापि कर्मणः फलप्रतिबन्धसम्भवं पूर्वोक्तं स्मारयति –
४८७. यदेव विद्ययेति हि ॥ ४–१–१८ ॥
यदेव विद्यया करोति..तदेव वीर्यवत्तरम् (छा.१.१०) इत्युद्गीथविद्यायाः क्रतुफलाप्रतिबन्धफलत्ववचनेनानुष्ठितस्यापि कर्मणः फलप्रतिबन्धस्सूच्यते हि । अतो विदुषोऽनुष्ठितप्रतिबद्धफलविषयं सुहृदस्साधुकृत्याम् इति शाट्यायनकम् ॥१८॥
इति श्रीशारीरकमीमांसाभाष्ये अग्निहोत्राद्यधिकरणम् ॥१०॥