श्रीशारीरकमीमांसाभाष्ये अनारब्धकार्याधिकरणम्॥९॥
अधिकरणार्थः
भगवदुपासकस्योक्तः सुकृतादिविनाशः फलदानप्रवृत्तपुण्यपापमात्रविषयः
४८४. अनारब्धकार्ये एव तु पूर्वे तदवधेः ॥ ४–१–१५ ॥
अवान्तरसङ्गतिः
ब्रह्मविद्योत्पत्तेः पूर्वोत्तरभाविनोस्सुकृतदुष्कृतयोरश्लेषविनाशावुक्तौ ।
विचारोपयोगी संशयः
ततः पूर्वभाविनोः सुकृतदुष्कृतयोः किमविशेषेण विनाशः, उतानारब्धकार्ययोरेवेति विशये –
युक्त्या पूर्वः पक्षः
सर्वे पाप्मानः प्रदूयन्ते (छा.५.२४.३) इति विद्याफलस्याविशेषश्रवणाद्विद्योत्पत्युत्तर-कालभाविन्याश्च शरीरस्थितेः कुलालचक्रभ्रमणादिवत् संस्कारवशादप्युपपत्तेरविशेषेण –
सूत्रार्थतः सिद्धान्तः
इति प्राप्ते उच्यतेः अनारब्धकार्ये एव तु पूर्वे – इति विद्योत्पत्तेः पूर्वे सुकृतदुष्कृते अनारब्धकार्ये – अप्रवृत्तफले एव विद्यया विनश्यतः; कुतः? तदवधेः– तस्य तावदेव चिरं यावन्न विमोक्ष्ये अथ सम्पत्स्ये (छा.६.१४.२) इति शरीरपातविलम्बावधिश्रुतेः ॥
संस्कारविशेषस्य अप्रामाणिकता
न च पुण्यापुण्यकर्मजन्यभगवत्प्रीत्यप्रीतिव्यतिरेकेण शरीरस्थितिहेतुभूतसंस्कारसद्भावे प्रमाणमस्ति॥१५॥
इति श्रीशारीरकमीमांसाभाष्ये अनारब्धकार्याधिकरणम्॥ ९॥