श्रीभाष्यम् 04-01-08 इतराधिकरणम्

श्रीशारीरकमीमांसाभाष्ये इतराधिकरणम्॥८॥

अधिकरणस्यार्थः – ब्रह्मविदो निष्पन्नोपासनस्य पापानामिव पुण्यामप्यश्लेष-विनाशौ

४८३. इतरस्याप्येवमसंश्लेषः पाते तु ॥ ४–१–१४ ॥

पुण्येऽप्युक्तन्यायातिदेशः

उत्तरपूर्वाघयोर्विद्यया अश्लेषविनाशावुक्तौ; इतरस्य – पुण्यस्यापि एवम् – उक्तेन न्यायेनाश्लेषविनाशौ विद्यया स्याताम्, विद्याफलविरोधित्वसामान्याद्व्यपदेशाच्च । भवति च व्यपदेशः – उभे सुकृतदुष्कृते निर्दिश्य सर्वे पाप्मानोऽतो निवर्तन्ते (छा.८.४.१) इति, तत्सुकृतदुष्कृते धूनुते (कौषी.१.४) इति च। मुमुक्षोरनिष्टफलत्वात्सुकृतस्यापि पाप्मशब्देन व्यपदेशः।

सौत्रस्य न्यायातिदेशस्य प्रयोजनम्

सुकृतस्यापि शास्त्रीयत्वात्तत्फलस्य केषांचिदिष्टत्वदर्शनाच्च विद्याया अविरोधशङ्कां निवर्तयितुमतिदेशः ।

असंश्लेषे विशेषप्रदर्शनम्

ननु विदुषोऽपि सेतिकर्तव्यताकोपासननिर्वृत्तये वृष्ट्यन्नादिफलानीष्टान्येव; कथं तेषां विरोधाद्विनाश उच्यते; तत्राह पाते तु इति। शरीरपाते तु तेषां विनाशः; शरीरपातादूर्ध्वं तु विद्यानुगुणदृष्टफलानि सुकृतानि नश्यन्तीत्यर्थः॥१४॥

इति श्रीशारीरकमीमांसाभाष्ये इतराधिकरणम्॥८॥