श्रीशारीरकमीमांसाभाष्ये आप्रयाणाधिकरणम्॥६॥
अधिकरणार्थः
मोक्षोपायभूतं ध्यानं देहपातं यावत् प्रत्यहमनुवर्तनीयम्, न तु एकस्मिन्नेवाहनि निर्वर्त्यम्
४८१. आप्रयाणात्तत्रापि हि दृष्टम् ॥ ४–१–१२ ॥
अधिकरणीयः संशयः
तदिदमपवर्गसाधनमुक्तलक्षणमुपासनमेकाह एव संपाद्यम्, उताप्रयाणात्प्रत्यहं अनुवर्तनीयमिति विशये
युक्त्या पूर्वःपक्षः
एकस्मिन्नेवाहनि शास्त्रार्थस्य कृतत्वात्तावतैव परिसमापनीयम्
सिद्धान्तः सूत्रतः
इति प्राप्त उच्यते – आप्रयाणात् – इति। आमरणादनुवर्तनीयम्; कुतः? तत्रापि हि दृष्टम् – उपासनोद्योगप्रभृत्याप्रयाणान्मध्ये यः कालः तत्र सर्वत्रापि दृष्टमुपासनं, स खल्वेवं वर्तयन् यावदायुषं ब्रह्मलोकमभिसम्पद्यते (छा.८.१५.१) इति॥१२॥
इति श्रीशारीरकमीमांसाभाष्ये आप्रयाणाधिकरणम्॥६॥