श्रीशारीरकमीमांसाभाष्ये आदित्यादिमत्यधिकरणम्॥
अधिकरणार्थः
क्रत्वङ्गाश्रितेषूपासनेषु उद्गीथादावेव आदित्यादिदृष्टिः कार्या, न आदित्यादावुद्गीथादिदृष्टिः
४७५. आदित्यादिमतयश्चाङ्ग उपपत्तेः ॥ ४–१–६ ॥
विषयसंशयौ
य एवासौ तपति तमुद्गीथमुपासीत (छा.१.३.१) इत्यादिषु कर्माङ्गाश्रयेषूपासनेषु संशयः – किमुद्गीथादौ कर्माङ्गे आदित्यादिदृष्टिः कर्तव्या, उतादित्यादिषूद्गीथादिदृष्टिः इति । उत्कृष्टदृष्टिर्निकृष्टे कर्तव्येति न्यायात्, उद्गीथादीनां च फलसाधनभूतकर्माङ्गत्वेनाफलेभ्य आदित्यादिभ्यः उत्कृष्टत्वादादित्यादिषूद्गीथादिदृष्टिः-
सूत्रार्थतः सिद्धान्तः
इति प्राप्तेऽभिधीयते – आदित्यादिमतयश्चाङ्गे – इति। चशब्दोऽवधारणे; क्रत्वङ्गे उद्गीथादावादित्यादिदृष्टय एव कार्याः; कुतः? उपपत्तेः – आदित्यादीनामेवोत्कृष्टत्वोपपत्तेः; आदित्यादिदेवताराधनद्वारेण हि कर्मणामपि फलसाधनत्वम्; अतस्तद्दृष्टिरुद्गीथाद्यङ्गे ॥ ६॥
इति श्रीशारीरकमीमांसाभाष्ये आदित्यादिमत्यधिकरणम्॥४॥