श्रीभाष्यम् 04-01-01 आवृत्त्यधिकरणम्

श्रीभगवद्रामानुजविरचिते श्रीशारीरकमीमांसाभाष्येचतुर्थः फलाध्यायः

अधिकरणानि – 33 सूत्राणि – 137

अध्यायार्थः – विद्यास्वरूपविशोधनपूर्वकम् विद्याफलचिन्तनम्

प्रथमः आवृत्तिपादः ॥ 4-1 ॥

पादार्थः – उपासनप्रकारचिन्ता, पूर्वोत्तराघाश्लेष-विनाशौ च

आवृत्त्यधिकरणम् ॥१॥

अधिकरणार्थः

उपासनस्य असकृदावृत्तस्यैव मोक्षोपायता

४७०. आवृत्तिरसकृदुपदेशात् ॥ ४–१–१ ॥

अध्यायसङ्गतिः

तृतीयेऽध्याये साधनैस्सह विद्या चिन्तिता। अथेदानीं विद्यास्वरूपविशोधनपूर्वकं विद्याफलं चिन्त्यते। तत्र

प्रस्तुतो विषयः विचार्यांशश्च

ब्रह्मविदाप्नोति परम् (तै.आन.१.१) तमेव विदित्वाऽतिमृत्युमेति (श्वे.३.८) ब्रह्म वेद ब्रह्मैव भवति (मु.३.२.९) यदा पश्यः पश्यते रुक्मवर्णम् (मु.३.१.३) इत्यादि वेदान्तवाक्येषु ब्रह्मप्राप्तिसाधनतया विहितं वेदनं किं सकृत्कृतमेव शास्त्रार्थः, उतासकृदावृत्तमिति संशयः।

सयुक्तिकः पूर्वपक्षः

किं युक्तम्? सकृत्कृतमिति; ब्रह्म वेद ब्रह्मैव भवति (मु.३.२.९) इति वेदनमात्रस्यैव विधानात्, असकृदावृत्तौ प्रमाणाभावात् ।

विषयसिद्धिं यावत् आवृत्तेः सिद्धिशङ्का

न चावघातादिवद्वेदनस्य ब्रह्मापरोक्ष्यं प्रति दृष्टोपायत्वाद्यावत्कार्यमावृत्तिरिति शक्यं वक्तुम्, वेदनस्य दृष्टोपायत्वाभावात्। ज्योतिष्टोमादिकर्माणि, वेदान्तविहितं च वेदनं परमपुरुषाराधनरूपम्, आराधिताच्च परमपुरुषाद्धर्मार्थकाममोक्षाख्यपुरुषार्थावाप्तिरिति हि फलमत उपपत्तेः (शारी.३.२.३७) इत्यत्र प्रतिपादितम् । अतो ज्योतिष्टोमादिवद्यथाशब्दं सकृत्कृतमेव शास्त्रार्थः –

सिद्धान्तः सूत्रार्थविवरणतः

इति प्राप्ते प्रचक्ष्महे – आवृत्तिरसकृत् इति । असकृदावृत्तमेव वेदनं शास्त्रार्थः ।

कुतः? उपदेशात् – ध्यानोपासनपर्यायेण वेदनशब्देनोपदेशात् । तत्पर्यायत्वं च विद्युपास्तिध्यायतीनामेकस्मिन्विषये वेदनोपदेशपरवाक्येषु प्रयोगादवगम्यते । तथाहि – मनो ब्रह्मेत्युपासीत (छां.३.१८.१) इत्युपासिनोपक्रान्तोऽर्थः भाति च तपति च कीर्त्या यशसा ब्रह्मवर्चसेन य एवं वेद (छा.३.१८.३) इति विदिनोपसंह्रियते; तथा यस्तद्वेद यत्स वेद स मयैतदुक्तः (छां.४.१.४) इत्युपक्रमे विदिनोक्तं रैक्वस्य ज्ञानम्, अनु म एतां भगवो देवतां शाधि यां देवतामुपास्से (छा.४.२.२) इतयुपासिनोपसंह्रियते; तथा ब्रह्मविदाप्नोति परम् (तै.आन.१-१) इत्यादिवाक्यसमानार्थेषु वाक्येषु आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासतिव्यः (बृ.४.४.५) ततस्तु तं पश्यति निष्कलं ध्यायमानः (मु.३.१.८) इत्यादिषु ध्यायतिना वेदनमभिधीयते; ध्यानं च चिन्तनम्; चिन्तनं च स्मृतिसन्ततिरूपम्; न स्मृतिमात्रम् ॥

ध्यानोपास्त्योरेकार्थता

उपास्तिरपि तदेकार्थः, एकाग्रचित्तवृत्तिनैरन्तर्ये प्रयोगदर्शनात्; तदुभयैकार्थ्यात् असकृदावृत्तसन्ततस्मृतिरिह ब्रह्म वेद ब्रह्मैव भवति (मु.३.२.९) ज्ञात्वा देवं मुच्यते सर्वपाशैः (श्वे.१.८) इत्यादिषु वेदनादिशब्दैरभिधीयते इति निश्चीयते ॥१॥

उक्तार्थस्य पुराणस्मृतितः दृढीकरणम्

४७१. लिङ्गाच्च ॥ ४–१–२ ॥

लिङ्गं – स्मृतिः। स्मृतेश्चायमर्थोऽवगम्यते। स्मर्यते हि मोक्षसाधनभूतं वेदनं स्मृतिसन्ततिरूपं तद्रूपप्रत्यये चैका सन्ततिश्चान्यनिस्स्पृहा । तद्ध्यानं प्रथमैष्षड्भिरङ्गैर्निष्पाद्यते तथा (विष्णु.६.७.९१) इति तस्मादसकृदावृत्तमेव वेदनं शास्त्रार्थः ॥२॥

इति श्रीशारीरकमीमांसाभाष्ये आवृत्त्यधिकरणम्॥१॥