श्रीभाष्यम् 03-04-15 मुक्तिफलाधिकरणम्

श्रीशारीरकमीमांसाभाष्ये मुक्तिफलाधिकरणम्॥१५॥

अधिकरणार्थः

विद्यानिष्पत्तिं प्रति ब्रह्मविदपचारस्य प्रतिबन्धकत्वम्

४६९. एवं मुक्तिफलानियमस्तदवस्थावधृतेस्तदवस्थावधृतेः ॥ ३–४–५१ ॥

सूत्रविवृतिः, अधिकाशङ्का-परिहारौ च

मुक्तिफलस्याप्युपासनस्य स्वसाधनभूतैरतिशयितकर्मभिरुत्पत्तौ एवमेव कालानियमः, तस्यापि पूर्ववत्प्रतिबन्धाभावप्रतिबन्धसमाप्तिरूपावस्थावगतेः – अत्रापि तस्य हेतोस्समानत्वादित्यर्थः ॥

सर्वेभ्यः कर्मभ्यो मुक्तिफलविद्यासाधनस्य कर्मणः प्रबलत्वात्प्रतिबन्धासम्भव इत्यधिकाशङ्का॥

तत्रापि ब्रह्मविदपचाराणां पूर्वकृतानां प्रबलानां सम्भवात्प्रतिबन्धसम्भवः इति परिहारः। द्विरुक्तिरध्यायपरिसमाप्तिं द्योतयति ॥

इति श्रीशारीरकमीमांसाभाष्ये मुक्तिफलाधिकरणम्॥१५॥

———

इति श्रीभगवद्रामानुजविरचिते शारीरकमीमांसाभाष्ये तृतीयस्याध्यायस्य चतुर्थःपादः॥४॥

समाप्तश्चाध्यायः॥३॥