श्रीभाष्यम् 03-04-14 ऐहिकाधिकरणम्

श्रीशारीरकमीमांसाभाष्यो ऐहिकाधिकरणम्॥१४॥

अधिकरणार्थः

उपासनस्य निरन्तरायत्वे फलशैघ्र्यम्, सान्तरायत्वे विलम्बः

४६८. ऐहिकमप्रस्तुतप्रतिबन्धे तद्दर्शनात् ॥ ३–४–५० ॥

विचारणीयविषयसंशयौ

द्विविधा विद्या – अभ्युदयफला, मुक्तिफला च । तत्राभ्युदयफला स्वसाधनभूतैः पुण्यकर्मभिः पुण्यकर्मानन्तरमेव उत्पद्यते, उतानन्तरं कालान्तरे वेत्यनियम इति संशयः।

युक्त्या पूर्वः पक्षः

पूर्वकृतैः पुण्यकर्मभिर्हि विद्वान् जायते; यथोक्तं भगवता चतुर्विधा भजन्ते मां जनास्सुकृतिनोऽर्जुन (भ.गी.७.१९) इति। साधने निर्वृत्ते विलम्बहेत्वभावादनन्तरमेव –

सूत्रतः सिद्धान्तार्थः

इति प्राप्ते उच्यते – ऐहिकमप्रस्तुतप्रतिबन्धे – इति । ऐहिकम् – अभ्युदयफलमुपासनम्, अप्रस्तुतप्रतिबन्धे – अप्रस्तुते – प्रबलकर्मान्तरप्रतिबन्धे सत्यनन्तरम्, प्रतिबन्धे सति तदुत्तरकालमित्यनियमः। कुतः? तद्दर्शनात् – दृश्यते हि प्रबलकर्मान्तरेण कर्मफलप्रतिबन्धाभ्युपगमः श्रुतौ यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरम् (छा.१.१.१०) इत्युद्गीथविद्यायुक्तस्य कर्मणः फलाप्रतिबन्धश्रवणात्॥५०॥

इति श्रीशारीरकमीमांसाभाष्ये ऐहिकाधिकरणम्॥१४॥