श्रीभाष्यम् 03-04-11 स्वाम्यधिकरणम्

श्रीशारीरकमीमांसाभाष्ये स्वाम्यधिकरणम्॥११॥

अधिकरणार्थः

कर्माङ्गाश्रयोद्गीथाद्युपासनानां ऋत्विजैवानुष्ठेयत्वम्, फलश्रुत्यादिविरोधश्च

४६२. स्वामिनः फलश्रुतेरित्यात्रेयः ॥ ३–४–४४ ॥

विचारणीयार्थोपस्थापनम् ससंशयम्

कर्माङ्गाश्रयाण्युद्गीथाद्युपासनानि किं यजमानकर्तृकाणि, उत ऋत्विक्कर्तृकाणीति चिन्तायां –

सयुक्तिकः आत्रेयाभिमतः, पूर्वः पक्षः

यजमानकर्तृकाणीत्यात्रेयो मन्यते; कुतः? फलश्रुतेः – वेदान्तविहितेषु दहराद्युपासनेषु फलोपासनयोरेकाश्रयत्वदर्शनादिह च क्रतुफलाप्रतिबन्धरूपस्योद्गीथोपासनफलस्य यजमानाश्रयत्व- श्रवणादित्यर्थः ।

अङ्गाश्रयत्वादुपासनस्य यजमानकार्याभावत्वशङ्का-निरासौ

न च गोदोहनादिवदङ्गाश्रयत्वेन यजमानकर्तृकत्वासम्भवः; गोदोहनादिषु ह्यध्वर्युकर्तृकप्रणयनाश्रयगोदोहनोपादानमन्येनाशक्यम्; इह तूद्गातृकर्तृकेऽप्युद्गीथे तस्योद्गीथादेः रसतमत्वानुसन्धानं यजमानेनैव कर्तुं शक्यते ॥४४॥

औडुलोमिमतेन सिद्धान्तवर्णनम्

इति प्राप्तेऽभिधीयते –

४६३. आर्त्विज्यमित्यौडुलोमिस्तस्मै हि परिक्रियते ॥ ३–४–४५ ॥

आर्त्विज्यम् – ऋत्विजः कर्मोद्गीथाद्युपासनमित्यौडुलोमिराचार्यो मन्यते, कुतः? तस्मै हि – प्रयोजनाय ऋत्विक्परिक्रियते, फलसाधनभूतस्य साङ्गस्य क्रतोरुपादानायेत्यर्थः।

कर्मविधिषु ऋत्विजो वृणीते (तै.सं. ६-३-७) ऋत्विग्भ्यो दक्षिणां ददाति इति ऋत्विक्कर्तृकत्वशास्त्रेण फलसाधनभूतं साङ्गं कर्म ऋत्विग्भिरनुष्ठेयमित्यवगम्यते, तदन्तर्गतानि कायिकानि मानसानि च कर्माणि ऋत्विक्कर्तृकाण्येव; न च शक्त्यशक्ती तस्य निबन्धनम्।

पुरुषार्थत्वऋत्विक्कर्तृकत्वयोरविरोधः

यद्यप्युद्गीथाद्युपासनं पुरुषार्थः, तथापि क्रत्वधिकृताधिकारत्वात्क्रतोश्च साङ्गस्य ऋत्विक्कर्तृकत्वात्, यदेव विद्यया करोतितदेव वीर्यवत्तरम् (छा.१.१.१०) इति ऋत्त्विक्कर्तृकक्रियोपयोगित्वेन विद्यायास्तदेककर्तृकत्वश्रवणात्, ऋत्विक्कर्तृकाण्येतानि; दहरादिषूपासनेषु ऋत्विक्कर्तृकत्वाश्रवणात् शास्त्रफलं प्रयोक्तरि (जै.मी.सू.३.७.१८) इति न्यायाच्च फलिकर्तृकत्वमेव ॥४५॥

इति श्रीशारीरकमीमांसाभाष्ये स्वाम्यधिकरणम्॥११॥