श्रीशारीरकमीमांसाभाष्ये पराधिकरणम् ॥७॥
अधिकरणार्थः
सर्वस्मात्परं परब्रह्मैव, न तु ततोऽपि परं किढ
३४४. परमतस्सेतून्मानसम्बन्धभेदव्यपदेशेभ्यः ॥ ३–२–३० ॥
अवान्तरसङ्गतिः
इदानीमस्मात्परस्माज्जगन्निमित्तोपादानरूपपरमकारणात्परब्रह्मणः परमपि किञ्चित्तत्वमस्तीति कैश्चिद्धेत्वाभासैराशङ्क्य निराक्रियते, अस्योपास्यस्य निर्दोषत्वानवधिकातिशयासंख्येयकल्याणगुणाकरत्वस्थेम्ने।
अधिकरणारम्भार्था शङ्का
तत्रेयमाशङ्का यदिदं परं ब्रह्मोभयलिङ्गम्, एतस्मान्निखिलजगत्कारणात् परमपि किञ्चित्तत्वमस्ति । कथम्? अथ य आत्मा स सेतुर्विधृतिः (छा.८.४.१) इत्यस्य परस्य सेतुत्वव्यपदेशात्। सेतुशब्दस्य च लोके कूलान्तरप्राप्तिहेतौ प्रसिद्धेरितोऽन्यदनेन प्राप्तव्यमस्तीति गम्यते। तथा एतं सेतुं तीर्त्वाऽन्धस्सन्ननन्धो भवति (छा.८.४.२) इति तरितव्यता चास्याभिधीयते, अतश्चान्यत्प्राप्यमस्ति। उन्मानव्यपदेशाच्च उन्मितं – परिमितं इदं परं ब्रह्म, चतुष्पाद्ब्रह्म (छा.३.१८.२) षोडशकलम् (प्रश्न.६.१) इत्युन्मानव्यपदेशात्। स चायमुन्मानव्यपदेशस्तेन सेतुना प्राप्यस्यानुन्मितस्यास्तितां द्योतयति। तथा सम्बन्धव्यपदेशश्च सेतुसेतुमतोः प्रापकत्वप्राप्यत्वलक्षणो दृश्यते, अमृतस्य परं सेतुं दग्धेन्धनमिवानलम् (श्वे.६.१९) अमृतस्यैष सेतुः (मु.२.२.५) इति। अतश्च परात्परमस्ति । भेदेन च परात्परं व्यपदिश्यते, परात्परं पुरुषमुपैति (मु.३.२.८) परात्परं यन्महतो महान्तम् (तै.नारा.१.५) इति च । तथा तेनेदं पूर्णं पुरुषेण सर्वम् (श्वे.३.९) ततो यदुत्तरतरं तदरूपमनामयम् (श्वे.३.१०) इति । अत एभ्यो हेतुभ्यः परस्माद्ब्रह्मणः परमपि किञ्चिदस्तीति गम्यत इति ॥३०॥
सिद्धान्तारम्भः सेतुव्यपदेशोपपादनं च
एवं प्राप्तेऽभिधीयते
३४५. सामान्यात्तु ॥ ३–२–३१ ॥
तुशब्दः पक्षं व्यावर्तयति; यत्तावदुक्तं सेतुव्यपदेशात्परात्परमस्तीति; तन्नोपपद्यते। न ह्ययमत्र किञ्चित्प्राप्यं प्रति सेतुरुच्यते**, एषां लोकानामसम्भेदाय** (छा.८.४.१,२) इति सेतुसामान्येन सर्वलोकासङ्करकरत्वश्रुतेः । सिनोति-बध्नाति स्वस्मिन्सर्वं चिदचिद्वस्तुजातमसङ्कीर्णमिति सेतुः उच्यते। एतं सेतुं तीत्वा (छा.८.४.१,२) इति तरतिश्च प्राप्तिवचनः । यथा वेदान्तं तरति इति ॥३१॥
उन्मानव्यपदेशस्य उपासनानुकूल्यार्थता
३४६. बुद्ध्यर्थः पादवत् ॥ ३–२–३२ ॥
योऽयं चतुष्पाद्ब्रह्म (छा.३.१८.२) षोडशकलम् (प्रश्न.६.१) पादोऽस्यविश्वा भूतानि (पु.सू) इत्युन्मानव्यपदेशः; स बुद्ध्यर्थः – उपासनार्थः, सत्यं ज्ञानमनन्तं ब्रह्म (तै.आन.१.१) इत्यादिभिर्जगत्कारणस्य ब्रह्मणोऽपरिच्छिन्नत्वावगमात्स्वत उन्मितत्वासम्भवात् । जगत्कारणत्वं हि तस्यैव श्रूयते तस्माद्वा एतस्मादात्मन आकाशस्सम्भूतः (तै.आन.१.२) सोऽकामयत बहु स्यां प्रजायेयेति (तै.आन.६.२) इति। अतो यथा वाक्पादः प्राणः पादः चक्षुः पादो मनः पादः (छा.३.१८.२) इत्यादिना ब्रह्मणो वागादिपादव्यपदेश उपासनार्थः एवमयमपि॥३२॥
अनुन्मितस्य उन्मितत्वानुसन्धानसाङ्गत्यम्
स्वयमनुन्मितस्य कथमुपासनार्थतयाऽप्युन्मानसम्भवः – तत्राह
३४७. स्थानविशेषात्प्रकाशादिवत् ॥ ३–२–३३ ॥
प्रतिपन्नवागादिस्थानविशेषरूपोपाधिभेदात्तत्सम्बन्धितयोन्मितत्वानुसन्धानं सम्भवति; यथा प्रकाशाकाशादेर्विततस्य वातायनघटादिस्थानभेदैः परिच्छिद्यानुसन्धानसम्भव इत्यर्थः॥३३॥
ब्रह्मण्येकस्मिन्नेव प्राप्यप्रापकभावोपपत्त्या अन्यस्य परात्परस्यासिद्धिः
३४८. उपपत्तेश्च ॥ ३–२–३४ ॥
यदुक्तम् – अमृतस्यैष सेतुः (मु.२.२.५) इति प्राप्यप्रापकसम्बन्धव्यपदेशात् प्रापकात्परं प्राप्यमस्तीति; तन्न, प्राप्यस्य परमपुरुषस्य स्वप्राप्तौ स्वस्यैवोपायत्वोपपत्तेः। नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन । यमैवेष वृणुते तेन लभ्यः तस्यैष आत्मा विवृणुते तनूं स्वाम् (मु.३.२.३) इत्यनन्योपायत्वश्रवणात्॥३५॥
श्रुतित एव परस्यान्यस्य निषेधात् परान्तरासिद्धिः
३४९. तथाऽन्यप्रतिषेधात् ॥ ३–२–३५ ॥
यत्पुनरुक्तं – ततो यदुत्तरतरम् (श्वे.३.अ.१०) परात्परं पुरुषम् (मु.३.२.८) अक्षरात्परतः परः (मु.२.१.२) इत्यादिभेदव्यपदेशात्परात्परमस्तीति – तन्नोपपद्यते, तत्रैव ततोऽन्यस्य परस्य प्रतिषेधात्, यस्मात्परं नापरमस्ति किञ्चिद्यस्मान्नाणीयो न ज्यायोऽस्ति कश्चित् (श्वे.३.९) इति। यस्मादपरं परं नास्ति किञ्चित् – न केनापि प्रकारेण परमस्तीत्यर्थः । तथाऽन्यत्रापि न ह्येतस्मादिति नेत्यन्यत्परमस्ति (बृह.४.३.६) इति – इति नेति निर्दिष्टादेतस्माद्ब्रह्मणोऽन्यत्परं न ह्यस्तीत्यर्थः। तथा न तस्येशे कश्चन तस्य नाम महद्यशः (तै.नारा.१.९) इति। तद्धि जगदुपादानकारणतयाऽनन्तरमुक्तं सर्वे निमेषा जज्ञिरे विद्युतः पुरुषादधि (तै.नारा.१.८) स आपः प्रदुघे उभे इमे (तै.ना.१.९) इत्यादिना। अद्भ्यस्सम्भूतो हिरण्यगर्भ इत्यष्टौ (तै.नारा.१.११) इति च जगत्कारणं पुरुषमेनं प्रत्यभिज्ञापयति।
ततो यदुत्तरेति श्रुतिवाक्यस्य उचितार्थवर्णनाय शङ्का-तत्परिहारौ
ततो यदुत्तरतरम् (श्वे.३.१०) इति किमुच्यत इति चेत् – पूर्वत्र वेदाहमेतं पुरुषं महान्तमादित्यवर्णं तमसः परस्तात् । तमेव विदित्वाऽतिमृत्युमेति नान्यः पन्था विद्यतेऽयनाय (श्वे.३.८.९) इति परस्य ब्रह्मणो महापुरुषस्य वेदनमेवामृतत्वसाधनम्, नान्योऽमृतत्वस्य पन्था इत्युपदिश्य तदुपपादनाय यस्मात्परं नापरमस्ति किञ्चिद्यस्मान्नाणीयो न ज्यायोऽस्ति कश्चित्। वृक्ष इव स्तब्घो दिवि तिष्ठत्येकस्तेनेदं पूर्णं पुरुषेण सर्वम् (श्वे.३.८.९) इति पुरुषस्य परत्वं, तद्व्यतिरिक्तस्य परत्वासम्भवञ्च प्रतिपाद्य ततो युदत्तरतरं तदरूपमनामयम् य एतद्विदुरमृतास्ते भवन्त्यथेतरे दुःखमेवापियन्ति (श्वे.३.१०) इति पूर्वोक्तमर्थं हेतुतो निगमयति – यदुत्तरतरं पुरुषतत्त्वम्, तदेवारूपमनामयं यतः, ततो य एतत्पुरुषतत्त्वं विदुः, त एवामृता भवन्ति, अथेतरे दुःखमेवापियन्ति इति। अन्यथोपक्रमविरोधोऽनन्तरोक्तिविरोधश्च। परात्परं पुरुषमुपैति दिव्यम् (मु.३.२.८) इति पूर्वत्र अक्षरात्परतःपरः (मु.२.१.२) इति अक्षरात् अव्याकृतात् यः परः – समष्टिपुरुषः; तस्मात्परो योऽदृश्यत्वादिगुणकस्सर्वज्ञः परमपुरुषः, स एवेहापि परात्परः इति समष्टिपुरुषात्परत्वेनोच्यते॥३५॥
जगत्कारणात्परस्यान्यस्याभावे प्रमाणस्पष्टीकरणम्
३५०. अनेन सर्वगतत्वमायामशब्दादिभ्यः ॥ ३–२–३६ ॥
अनेन – ब्रह्मणा, सर्वगतत्वम् – सर्वस्य जगतो व्यप्तत्वम्, आयामशब्दादिभ्यः सर्वव्याप्तिवाचिशब्देभ्योऽवगम्यमानमस्मात्परं नास्तीत्यवगमयति । आयामशब्दस्तावत् तेनेदं पूर्णं पुरुषेण सर्वम् (श्वे.३.९) यच्च किञ्चिज्जगत्यस्मिन् दृश्यते श्रूयतेऽपि वा॥ अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणः स्थितः (पु.सू) नित्यं विभुं सर्वगतं सुसूक्ष्मं यद्भूतयोर्नि परिपश्यन्ति धीराः (मु.१.१.६)। आदिशब्दात् ब्रह्मैवेदं सर्वम् (बृ.४-५-१) आत्मैवेदं सर्वम् (छां.८.२५.२) इत्यादयो गृह्यन्ते। अत इदं परं ब्रह्मैव सर्वस्मात्परम् ॥३६॥
इति श्रीशारीरकमीमांसाभाष्ये पराधिकरणम्॥ ७॥