श्रीभाष्यम् 03-02-05 उभयलिङ्गाधिकरणम्

श्रीशारीरकमीमांसाभाष्ये उभयलिङ्गाधिकरणम्॥५॥

अधिकरणार्थः

सर्वत्र व्याप्तिमत्यपि ब्रह्मणि निखिलहेयप्रत्यनीकता समस्तकल्याणगुणाकरता च

सङ्गतिप्रदर्शनम्

३२५. न स्थानतोऽपि परस्योभयलिङ्गं सर्वत्र हि ॥ ३–२–११ ॥

संशयप्रतिपादनम्

दोषदर्शनाद्वैराग्योदयाय जीवस्यावस्थाविशेषा निरूपिताः; इदानीं ब्रह्मप्राप्तितृष्णाजननाय प्राप्यस्य ब्रह्मणो निर्दोषत्वकल्याणगुणात्मकत्वप्रतिपादनायारभते।

तत्र जागरस्वप्नसुषुप्तिमुग्ध्युत्क्रान्तिषु स्थानेषु तत्तत्स्थानप्रयुक्ता जीवस्य ये दोषाः ते तदन्तर्यामिणः परस्य ब्रह्मणोऽपि तत्र तत्रावस्थितस्य सन्ति, नेति विचार्यते।

पूर्वपक्षः

अधिकरणद्वयार्थनिगमनम्

किं युक्तम्? सन्तीति।
कुतः? तत्तदवस्थशरीरेऽवस्थानात्।

शङ्कितस्य दोषसम्बन्धस्य अयोगाक्षेप-परिहारौ

ननु सम्भोगप्राप्तिरिति चेन्न वैशेष्यात् (शारी.१.२.८) स्थित्यदनाभ्यां च (शारी.१.३.६) इत्यादिषु परस्याकर्मवश्यत्वेन दोषाभाव उक्तः, तत्कथमकर्मवश्यस्य परस्य ब्रह्मणस्तत्तत्स्थानसम्बन्धाद्दोष उच्यते;

इत्थमुच्यते – कर्माण्यपि देहसम्बन्धमापादयन्त्यपुरुषार्थजननानि भवन्ति – इति देहयोगाद्वा (शारी.३.२.५) इत्यत्रोक्तम्;
तच्च देहसम्बन्धस्यापुरुषार्थत्वेन भवति;
इतरथा कर्माण्येव दुःखं जनयिष्यन्ति; किं देहसम्बन्धेन;
अतोऽकर्मवश्यत्वे सत्यपि नानाविधाशुचिदेहसम्बन्धोऽपुरुषार्थ एव;
अतस्तन्नियमनार्थं स्वेच्छया तत्प्रवेशेऽप्यपुरुषार्थसम्बन्धोऽवर्जनीयः;
पूयशोणितादिमज्जनं हि स्वेच्छाकारितमप्यपुरुषार्थ एव ।

पूर्वपक्षार्थनिगमनम्

अतो यद्यपि जगदेककारणं सर्वज्ञत्वादिकल्याणगुणाकरं च ब्रह्म, तथापि यः पृथिव्यां तिष्ठन् (बृह.५.७.३) य आत्मनि तिष्ठन् (बृह.५-७-२२) यश्चक्षुषि तिष्ठन् (बृह.५-७-१८) यो रेतसि तिष्ठन् (बृह.५.७.२३) इत्यादिवचनात् तत्र तत्रावस्थितस्य तत्तत्सम्बन्धरूपापुरुषार्थास्सन्तीति॥

सिद्धान्तारम्भः सूत्रार्थविवरणतः

एवं प्राप्ते प्रचक्ष्महे – न स्थानतोऽपि परस्य – इति ।

न पृथिव्यात्मादिस्थानतोऽपि परस्य ब्रह्मणः अपुरुषार्थगन्धस्सम्भवति ।

कुतः? उभयलिङ्गं सर्वत्र हि – यतः सर्वत्र श्रुतिस्मृतिषु परं ब्रह्म उभयलिङ्गम् – उभयलक्षणमभिधीयते, निरस्तनिखिलदोषत्वकल्याणगुणाकरत्वलक्षणोपेतमित्यर्थः।

अपहतपाप्मा विजरो विमृत्युर्विशोको विजिघत्सोऽपिपासस्सत्यकामः सत्यसङ्कल्पः (छा.८.१.५)
समस्तकल्याणगुणात्मकोऽसौ स्वशक्तिलेशाद्धृतभूतसर्गः (वि.पु.६.५.८४)
तेजोबलैश्वर्यमहावबोध–सुवीर्यशक्त्यादिगुणैकराशिः। परः पराणां सकला न यत्र क्लेशादयस्सन्ति परावरेशे (वि.पु.६.५.८५)
समस्तहेयरहितं विष्ण्वाख्यं परमं पदम् (वि.पु.२.२२.५३)

इत्यादिश्रुतिस्मृतिभ्यः उभयलक्षणं हि ब्रह्मावगतम् ॥११॥

३२६. भेदादिति चेन्न प्रत्येकमतद्वचनात् ॥ ३–२–१२ ॥

यथा जीवस्य प्रजापतिवाक्यावगतापहतपाप्मत्वाद्युभयलिङ्गस्यापि देवादिदेहयोगरूपावस्था-भेदादपुरुषार्थयोगः, तथाऽन्तर्यामिणः परस्यापि स्वतोऽपहतपाप्मत्वाद्युभयलिङ्गस्य तत्तद्देवादिशरीरयोग-रूपावस्थाभेदादपुरुषार्थयोगोऽवर्जनीय इति चेत् तन्न, प्रत्येकमतद्वचनात् –
यः पृथिव्यां तिष्ठन् (बृ.५.७.३)
य आत्मनि तिष्ठन् (बृह.५.७.३)
इत्यादिषु प्रतिपर्यायं
स त आत्माऽन्तर्याम्यमृतः (बृ.५.७.३) इत्यन्तर्यामिणोऽमृतत्ववचनेन तत्र तत्र स्वेच्छया नियमनं कुर्वतस्तत्तत्सम्बन्धप्रयुक्तापुरुषार्थ-प्रतिषेधात् ।
जीवस्य तु तत्स्वरूपं तिरोहितिमिति पराभिध्यानात्तु तिरोहितम् (ब्र.सू.३.२.४) इत्यत्रोक्तम्।

अपुरुषार्थयोगस्य कर्मायत्तत्वाभावेऽपि, वस्तुस्वभावायत्तत्वशङ्का-परिहारौ

ननु स्वेच्छया कुर्वतोऽपि तत्तद्वस्तुस्वभावायत्तापुरुषार्थसम्बन्धोऽवर्जनीय इत्युक्तम्; नैतद्युक्तम्,
नह्यचिद्वस्त्वपि स्वभावतोऽपुरुषार्थस्वरूपम्; कर्मवश्यानां तु कर्मस्वभावानुगुण्येन परमपुरुषसङ्कल्पादेकमेव वस्तु कालभेदेन पुरुषभेदेन च सुखाय दुःखाय च भवति; वस्तुस्वरूपप्रयुक्ते तु ताद्रूप्ये सर्वं सर्वदा सर्वस्य सुखायैव दुःखायैव वा स्यात्; नचैवं दृश्यते;
तथाचोक्तं –

नरकस्वर्गसंज्ञे वै
पापपुण्ये द्विजोत्तम।
वस्त्वेकमेव दुःखाय
सुखायेर्ष्यागमाय च।
कोपाय च यतस्तस्माद्
वस्तु वस्त्वात्मकं कुतः।

तदेव प्रीतये भूत्वा
पुनर्दुःखाय जायते।
तदेव कोपाय यतः
प्रसादाय च जायते।
तस्माद्दुःखात्मकं नास्ति
न च किञ्चित्सुखात्मकम्

(वि.पु.२.६.४६,४७,४८)

इति ।

जीवपरवैलक्षण्यदृढीकरणम्

अतो जीवस्य कर्मवश्यत्वात्तत्तत्कर्मानुगुण्येन तत्तद्वस्तुसम्बन्ध एवापुरुषार्थस्स्यात्; परस्य तु ब्रह्मणः स्वाधीनस्य स एव सम्बन्धस्तत्तद्विचित्रनियमनरूपलीलारसायैव स्यात्॥१२॥

ब्रह्मणि देहादिसम्बन्धेऽपि अपुरुषार्थायोगः श्रुतिकण्ठोक्तः

३२७. अपि चैवमेके ॥ ३–२–१३ ॥

अपि च एके शाखिनः एकस्मिन्नेव देहसंयोगे जीवस्यापुरुषार्थं परस्य तु तदभावं नियमनरूपैश्वर्यायत्तदीप्तियोगं च स्वशब्देनाधीयते –
द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते। तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्यो अभिचाकशीति (मु.३.१.१) इति ॥१३॥

विधि-निषेध-शास्त्र-पर्यवसान-भूमित्वं, देव-मनुष्यादीन् प्रति परमात्म-भूतस्यैवेति नाम-रूप-व्याकरण-श्रुतितः सिध्यति, इति शङ्का, तत्परिहारश्च

अथ स्यात् – अनेन जीवेनाऽत्मनाऽनुप्रविश्य नामरूपे व्याकरवाणि (छा.६-३-२) इति ब्रह्मात्मकजीवानुप्रवेशपूर्वकं नामरूपव्याकरणमिति ब्रह्मणोऽपि तदात्मभूतस्य देवमनुष्यादिरूपत्वं तन्नामभाक्त्वं चास्ति,
ततश्च ब्राह्मणो यजेत इत्यादिविधिनिषेधशास्त्रगोचरत्वेन कर्मवश्यत्वमवर्जनीयिमिति; – तत्राह –

३२८. अरूपवदेव हि तत्प्रधानत्वात् ॥ ३–२–१४ ॥

देवादिशरीरानुप्रवेशे तेन रूपेण युक्तमप्यरूपवदेव तत् ब्रह्म रूपरहिततुल्यमेव; जीववच्छरीरित्वनिबन्धनं कर्मवश्यत्वमस्य न विद्यत इत्यर्थः । कुतः? निर्वाहकत्वेन प्रधानत्वात् । आकाशो ह वै नामरूपयोर्निर्वहिता ते यदन्तरा तद्ब्रह्म (छा.८.१४.१) इति सर्वानुप्रवेशेऽपि नामरूपकार्यास्पर्शेन नामरूपयोर्निर्वोढृत्वमेव ब्रह्मणः प्रतिपादयति।

तत्-तद्-अन्तर्यामित्व-कृत–कर्म-वश्यत्वावश्यं-भावाक्षेप-समाधाने

ननु तच्छरीरकत्वेन तदन्तर्यामित्वे कथमरूपवदिति रूपसम्बन्धरहिततुल्यत्वमुच्यते?
इत्थं – यथा जीवस्य तत्तज्जन्यसुखदुःखभाक्त्वेन ततद्रूपसम्बन्धः, तथा तदभावात्परस्यारूपवत्त्वम्। विधिनिषेधशास्त्राण्यपि कर्मवश्यमेवाधिकुर्वन्ति; तस्मादरूपतुल्यमेव परं ब्रह्म।
ततश्च अन्तर्यामिरूपेणावस्थितमपि ब्रह्म निरस्तनिखलदोषत्वकल्याणगुणाकरत्वरूपोभयलिङ्गमेव ॥१४॥

ब्रह्मण उभयलिङ्गतायाः श्रुत्यवगतनिर्विशेषप्रकाशरूपत्वविरोधशङ्का-तत्परिहारौ

ननु च सत्यं ज्ञानमनन्तं ब्रह्म (तै.आन.१.१) इत्यादिभिर्निर्विशेषप्रकाशैकस्वरूपं ब्रह्मावगम्यते,
अन्यत्तु सर्वज्ञत्वसत्यसङ्कल्पत्वजगत्कारणत्वसर्वान्तरात्मत्वसत्यकामत्वादिकं नेति नेति (बृ.४.३.६) इत्यादिभिः प्रतिषिध्यमानत्वेन मिथ्याभूतमित्यवगन्तव्यम्;
तत्कथं कल्याणगुणाकरत्व-निरस्तनिखिलदोषत्वरूपोभयलिङ्गत्वं ब्रह्मणि इति;

३२९. प्रकाशवच्चावैयर्थ्यात् ॥ ३–२–१५ ॥

यथा सत्यं ज्ञानमनन्तं ब्रह्म (तै.आन.१.१) इत्यादिवाक्यावैयर्थ्यात्प्रकाशस्वरूपत्वं ब्रह्मणोऽभ्युपगम्यते; तथा सत्यसङ्कल्पत्वसर्वज्ञत्वजगत्कारणत्व सर्वात्मकत्वनिरस्तनिखिल-अविद्यादिदोषत्वाद्यभिधायिवाक्यावैयर्थ्यादुभयलिङ्गमेव ब्रह्म ॥१५॥

सत्यादिवाक्यस्य गुणनिषेधकत्वाभावः

३३०. आह च तन्मात्रम् ॥ ३–२–१६ ॥

किञ्च सत्यं ज्ञानमनन्तम् (तै.आन.१.१) इत्यादिवाक्यं ब्रह्मणः प्रकाशस्वरूपतामात्रं प्रतिपादयति, नान्यत्सत्यसङ्कल्पत्वादिकं वाक्यान्तरावगतं निषेधति, नेति नेति (बृ.४.३.६) इति च निषेधविषयोऽनन्तरमेव वक्ष्यते॥

गुणानां श्रुत्यादिप्रतिपन्नत्वस्पष्टीकरणम्

३३१. दर्शयति चाथो अपि स्मर्यते ॥ ३–२–१७ ॥

दर्शयति च वेदान्तगणः कल्याणगुणाकरत्वं निरस्तनिखिलदोषत्वं च तमीश्वराणां परमं महेश्वरं तं दैवतानां परमं च दैवतम्। स कारणं करणाधिपाधिपो न चास्य कश्चिज्जनिता न चाधिपः । न तस्य कार्यं करणं च विद्यते न तत्समश्चाभ्यधिकश्च दृश्यते। पराऽस्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च (श्वे.६.७,८)
यस्सर्वज्ञस्सर्ववित् यस्य ज्ञानमयं तपः (मु.१.१.९)
भीषाऽस्माद्वातः पवते भीषोदेति सूर्यः (तै.आ.८.४)
स एको ब्रह्मण आनन्दः (तै.आ.८.४)
यतो वाचो निवर्तन्ते, अप्राप्य मनसा सह। आनन्दं ब्रह्मणो विद्वान् न बिभेति कुतश्चनेति (तै.आ.९.१)
निष्कलं निष्क्रियं शान्तं निरवद्यं निरञ्जनम् (श्वे.६.१९) इत्यादि ।

स्मर्यते च यो मामजमनादिं च वेत्ति लोकमहेश्वरम् (भ.गी.१०.३) विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत् (भ.गी.१०.४२) मयाऽध्यक्षेण प्रकृतिस्सूयते सचराचरम्। हेतुनाऽनेन कौन्तेय जगद्धि परिवर्तते (भ.गी.९.१०) उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः। यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः (भ.गी.१५.१७) सर्वज्ञस्सर्वकृत् सर्वशक्तिज्ञानबलर्द्धिमान्। अन्यूनश्चाप्यवृद्धिश्च स्वाधीनो नादिमान्वशी। क्लमतन्द्रीभयक्रोध–कामादिभिरसंयुतः। निरवद्यः परः प्राप्तेर्निरधिष्ठोऽक्षरः क्रमः (वि.पु.५.१.४७,४८,४९) इत्यादिः। अतस्सर्वत्रावस्थितस्यापि ब्रह्मण उभयलिङ्गत्वात्तत्तत्स्थानप्रयुक्ता दोषा न परं ब्रह्म स्पृशन्ति ॥१७॥

ब्रह्मणि स्थान-सम्बन्धायत्त-दोष-भाक्त्वाभावस्य, शास्त्र-स्थ-जल-बिम्बित-सूर्योपमासङ्गतिः

३३२. अत एव चोपमा सूर्यकादिवत् ॥ ३–२–१८ ॥

यतो नानाविधेषु स्थानेषु स्थितस्यापि परस्य ब्रह्मणो न तत्प्रयुक्तदोषभाक्त्वम्, अत एव जलदर्पणादिप्रतिबिम्बितसूर्यादिवत्परमात्मा तत्रतत्रावस्थितोऽपि निर्दोष इति शास्त्रेषूपमा क्रियते –
आकाशमेकं हि यथा घटादिषु पृथग्भवेत्। तथात्मैको ह्यनेकस्थो जलाधारेष्विवांशुमान्। एक एव हि भूतात्मा भूते भूते व्यवस्थितः। एकधा बहुधा चैव दृश्यते जलचन्द्रवत् (याज्ञवल्क्य.३.१४४) इत्यादिषु॥१८॥

जलसूर्यदृष्टान्तवैषम्यशङ्का

अत्र चोदयति –

३३३. अम्बुवदग्रहणात्तु न तथात्वम् ॥ ३–२–१९ ॥

तुशब्दश्चोद्यं द्योतयति।
अम्बुवदिति सप्तम्यन्तात् वतिः।
अम्बुदर्पणादिषु यथा सूर्यमुखादयो गृह्यन्ते; न तथा पृथिव्यादिषु स्थानेषु परमात्मा गृह्यते । अम्ब्वादिषु हि सूर्यादयो भ्रान्त्या तत्रस्था इव गृह्यन्ते, न परमार्थतस्तत्रस्थाः ।
इह तु यः पृथिव्यां तिष्ठन् (बृ.५.७.३) योऽप्सु तिष्ठन् (बृह.५.७.४) …. य आत्मनि तिष्ठन् (बृ.५.७.२२) इत्येवमादिना परमार्थत एव परमात्मा पृथिव्यादिषु स्थितो गृह्यते । अतस्सूर्यादेरम्बुदर्पणादिप्रयुक्तदोषाननुषङ्गस्तत्रतत्र स्थित्यभावादेव। अतो न तथात्वं – दार्ष्टान्तिकस्य न दृष्टान्ततुल्यत्वमित्यर्थः ॥१९॥

आपादितस्य दृष्टान्तवैषम्यस्य परिहारः

परिहरति –

३३४. वृद्धिह्रासभाक्त्वमन्तर्भावादुभयसामञ्जस्यादेवं दर्शनाच्च ॥ ३–२–२० ॥

पृथिव्यादिस्थानान्तर्भावात्स्थानिनः परस्य ब्रह्मणः स्वरूपतो गुणतश्च पृथिव्यादिस्थानगत-वृद्धिह्रासादिदोषभाक्त्वमात्रं सूर्यादिदृष्टान्तेन निवर्त्यते। कथमिदमवगम्यते? उभयसामञ्जस्यादेवम् – उभयदृष्टान्तसामञ्ज्स्यादेवमिति निश्चीयते।
आकाशमेकं हि यथा घटादिषु पृथग्भवेत्, जलधारेष्विवांशुमान् (याज्ञ.प्राय.३.१४४) इति दोषवत्स्वनेकेषु वस्तुषु वस्तुतोऽवस्थितस्य आकाशस्य, वस्तुतोऽनवस्थितस्यांशुमतश्चोभयस्य दृष्टान्तस्योपादानं हि परमात्मनः पृथिव्यादिगत-दोषभाक्त्वनिवर्तनमात्रे प्रतिपाद्ये समञ्जसं भवति । घटकरकादिषु यथा वृद्धिह्रासभाक्षु पृथक्पृथक्संयुज्यमानमप्याकाशं वृद्धिह्रासादिदोषैर्न स्पृश्यते; यथा च जलाधारेषु विषमेषु दृश्यमानोंऽशुमान् तद्गतवृद्धिह्रासादिभिर्न स्पृश्यते; तथाऽयं परमात्मा पृथिव्यादिषु नानाकारेष्वचेतनेषु चेतनेषु च स्थितस्तत्तद्गतवृद्धिह्रासादिदोषैरसंस्पृष्टस्सर्वत्र वर्तमानोऽप्येक एव अस्पृष्टदोषगन्धः कल्याणगुणाकर एव।

उभयसामञ्जस्यस्पष्टीकरणम्

एतदुक्तं भवति – यथा जलादिषु वस्तुतोऽनवस्थितस्यांशुमतो हेत्वभावाज्जलादि-दोषानभिष्वङ्गः तथा पृथिव्यादिष्ववस्थितस्यापि परमात्मनो दोषप्रत्यनीकाकारतया दोषहेत्वभावान्न दोषसम्बन्धः – इति।

दृष्टान्तस्य विवक्षितसाम्यमात्रे पर्यवसानम्

दर्शनाच्च – दृश्यते चैवं सर्वात्मना साधर्म्याभावेऽपि विवक्षितांशसाधर्म्याद्दृष्टान्तोपादानं, सिंह इव माणवक इत्यादौ। अतः स्वभावतो निरस्तनिखिलाज्ञानादिदोषगन्धस्य समस्तकल्याणगुणाकरस्य पृथिव्यादिस्थानतोऽपि न दोषसम्भवः ॥२०॥

नेति नेति वाक्याद् ब्रह्मणि सर्व-विशेष-निषेधात् उभय-लिङ्गत्वासिद्धि-शङ्का–तत्-परिहारौ

अथ स्यात् – द्वे वाव ब्रह्मणो रूपे मूर्तं चामूर्तमेव च इति (बृ.४.३.१) इति प्रकृत्य
समस्तं स्थूलसूक्ष्मरूपं प्रपञ्चं ब्रह्मणो रूपत्वेन परामृश्य
तस्य ह वा एतस्य पुरुषस्य रूपं यथा माहारजनं वासः (बृ.४.३.६) इत्यादिना आकारविशेषं चाभिधाय
अथात आदेशो नेति नेति न ह्येतस्मादिति नेत्यन्यत्परमस्ति (बृ.४.३.६) इति सर्वं प्रकृतं ब्रह्मणः प्रकारमितिशब्देन परामृश्य
तत्सर्वं प्रतिषिध्य सर्वविशेषाधिष्ठानं सन्मात्रमेव ब्रह्म;
विशेषास्त्वेवंविधं स्वस्वरूपमजानता ब्रह्मणा कल्पिता इति दर्शयति; अतः कथमुभयिलङ्गत्वं ब्रह्मण इति – अत्राह –

३३५. प्रकृतैतावत्त्वं हि प्रतिषेधति ततो ब्रवीति च भूयः ॥ ३–२–२१ ॥

नैतदुपपद्यते – यद्ब्रह्मणः प्रकृतिविशेषवत्त्वं नेति नेति (बृ.४.३.६) इति प्रतिषिध्यत – इति, तथा सति भ्रान्तिजल्पितायमानत्वात् । न हि ब्रह्मणो विशेषणतया प्रमाणान्तराप्रज्ञातं सर्वं तद्विशेषणत्वेनोपदिश्य पुनस्तदेवानुन्मत्तः प्रतिषेधति । यद्यपि निर्दिश्यमानेषु केचन पदार्थाः प्रमाणान्तरप्रसिद्धाः, तथापि तेषां ब्रह्मणः प्रकारत्वमप्रज्ञातमेव, इतरेषां तु स्वरूपं ब्रह्मणः प्रकारत्वं चाज्ञातम् । अतस्तेषामनुवादासम्भवादत्रैवोपदिश्यन्ते।
अतस्तन्निषेधो नोपपद्यते ।
यस्माद् एवं
तस्मात् प्रकृतैतावत्त्वं ब्रह्मणः प्रतिषेधतीदं वाक्यम्।
ये ब्रह्मणो विशेषाः प्रकृताः तद्विशिष्टतया ब्रह्मणः प्रतीयमानेयत्ता नेति नेति (बृ.४.३.६) इति प्रतिषिध्यते।
नेति नेति – नैवं नैवम्, उक्तप्रकारमात्रविशिष्टं न भवति ब्रह्म;
उक्तप्रकारविशिष्टतया या ब्रह्मण इयत्ता प्रकृता; साऽत्र इति शब्देन परामृश्यत इत्यर्थः।
यतश्च निषेधानन्तरं ब्रह्मणो भूयो गुणजातं ब्रवीति, अतश्च प्रकृतविशेषणयोगित्वमात्रं ब्रह्मणः प्रतिषेधति ।
ब्रवीति हि भूयो गुणजातं – न ह्येतस्मादिति नेत्यन्यत्परमस्त्यथ नामधेयं सत्यस्यसत्यमिति प्राणा वै सत्यं तेषामेष सत्यम् (बृ.४.३.६) इति ।

उभय-वाक्य-शेषस्यार्थ-विशदी-करणम्

अयमर्थः – इति नेति यद्ब्रह्म प्रतिपादितम्, तस्मादेतस्मादन्यद्वस्तु परं नह्यस्ति, ब्रह्मणोऽन्यत् स्वरूपतो गुणतश्चोत्कृष्टं नास्तीत्यर्थः।
तस्य च ब्रह्मणः सत्यस्य सत्यमिति नामधेयम् ।
तस्य च निर्वचनं प्राणा वै सत्यं तेषामेव सत्यम् (बृ.४.३.६) इति। प्राणशब्देन प्राणसाहचर्याज्जीवाः परामृश्यन्ते । ते तावत्सत्यम्, वियदादि-वत्स्वरूपान्यथाभावरूपपरिणामाभावात्। तेषामेष सत्यम् – तेभ्योऽप्येष परमपुरुषस्सत्यम् । जीवानां कर्मानुगुण्येन ज्ञानसङ्कोचविकासौ विद्येते; परमपुरुषस्य त्वपहतपाप्मनस्तौ न विद्येते; अतस्तेभ्योऽप्येष सत्यम्।

सूत्रार्थोपसंहारः

अतश्चैवं वाक्यशेषोदितगुणजातयोगात् नेति नेति (बृ.४.३.६) इति ब्रह्मणस्सविशेषत्वं न प्रतिषिध्यते; अपि तु पूर्वप्रकृतेयत्तामात्रम्।
अत उभयलिङ्गमेव परं ब्रह्म ॥२१॥

ब्रह्म-तद्गुणानां प्रमाणान्तरागोचरता

ब्रह्मणः प्रमाणान्तरागोचरत्वेन तत्सम्बन्धितया मूर्तामूर्तादिरूपानुवादेन तन्निषेधासम्भवात् प्रकृतेयत्ताप्रतिषेध उक्तः; तदेव प्रमाणान्तरागोचरत्वं द्रढयति –

३३६. तदव्यक्तमाह हि ॥ ३–२–२२ ॥

तत् – ब्रह्म प्रमाणान्तरेण न व्यज्यते,
आह हि शास्त्रं न सन्दृशे तिष्ठति रूपमस्य न चक्षुषा पश्यति कश्चनैनम् (तै.ना.१.१)
न चक्षुषा गृह्यते नापि वाचा (मु.३.१.८) इत्यादि॥

निदिध्यासनार्थं ब्रह्मोपदेशपरे वाक्ये अनुवादकत्वायोगः

हेत्वन्तरं चाह –

३३७. अपि संराधने प्रत्यक्षानुमानाभ्याम् ॥ ३–२–२३ ॥

अपि च संराधने – सम्यक्प्रीणने भक्तिरूपापन्ने निदिध्यासन एवास्य साक्षात्कारः; नान्यत्रेति श्रुतिस्मृतिभ्यामवगम्यते।
नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन। यमेवैष वृणुते तेन लभ्यस्तस्यैष आत्मा विवृणुते तनूं स्वाम् (मु.३-२-३)
ज्ञानप्रसादेन विशुद्धसत्त्वस्ततस्तु तं पश्यति निष्कलं ध्यायमानः (मु.३.१.८) इति श्रुतिः ।
स्मृतिरपि नाहं वेदैर्न तपसा न दानेन न चेज्यया (भ.गी.११.५३) भक्त्या त्वनन्यया शक्य अहमेवंविधोऽर्जुन। ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परन्तप (भ.गी.११.५४) इति।
भक्तिरूपापन्नमेवोपासनं संराधनम् – तस्य प्रीणनमिति पूर्वमेवोक्तम्।
अतो निदिध्यासनाय ब्रह्मस्वरूपमुपदिशत् द्वे वाव ब्रह्मणः (बृ.४.३.१) इत्यादिशास्त्रं ब्रह्मणो मूर्तामूर्तरूपद्वयादिविशिष्टतां प्रागसिद्धां नानुवदितुं क्षमम् ॥२३॥

ब्रह्मणः मूर्तामूर्तादिवैशिष्ट्यस्य वाम-देवादि-योगि-प्रत्यक्ष-गोचरतया, निषेधस्य प्रकृतैतावन्मात्र-विषयता

३३८. प्रकाशादिवच्चावैशेष्यं प्रकाशश्च कर्मण्यभ्यासात् ॥ ३–२–२४ ॥

इतश्च प्रकृतैतावत्त्वमेव प्रतिषेधति; न मूर्तामूर्तादिविशष्टत्वम्;
यतस्साक्षात्कृतपरब्रह्म-स्वरूपाणां वामदेवादीनां दर्शने प्रकाशादिवत् ज्ञानानन्दादिस्वरूपवन्मूर्तादिप्रपञ्चविशष्टताया अपि ब्रह्मगुणत्वावैशेष्यं प्रतीयते – तद्धेतत्पश्यन्नृषिर्वामदेवः प्रतिपेदे अहं मनुरभवं सूर्यश्च (बृ.३.४.१०) इत्यादि। ब्रह्मस्वरूपभूतप्रकाशानन्दादिश्च तेषां वामदेवादीनां संराधनात्मके कर्मण्यभ्यासादुपलभ्यते। तद्वच्चाभ्यस्तसंराधनानां तेषां मूर्तामूर्तादिविशष्टत्वमप्यविशेषेण प्रतीयत इत्यर्थः॥२४॥

ब्रह्मणः कल्याणगुणवत्तानिर्णयेन उभयलिङ्गत्वोपसंहारः

उक्तं ब्रह्मण उभयलिङ्गत्वमुपसंहरति –

३३९. अतोऽनन्तेन तथा हि लिङ्गम् ॥ ३–२–२५ ॥

अतः उक्तैर्हेतुभिर्ब्रह्मणः अनन्तेन कल्याणगुणगणेन विशिष्टत्वं सिद्धम् ।
तथा हि सत्युभयलिङ्गं ब्रह्मोपपन्नं भवति ॥२५॥

इति श्रीशारीरकमीमांसाभाष्ये उभयलिङ्गाधिकरणम् ॥५॥