श्रीभाष्यम् 03-02-04 मुग्धाधिकरणम्

श्रीशारीरकमीमांसाभाष्ये मुग्धाधिकरणम् ॥४॥

अधिकरणार्थः

देहिनो मूर्च्छावस्थास्वरूपनिर्णयः

३२४. मुग्धेऽर्धसम्पत्तिः परिशेषात् ॥ ३–२–१० ॥

मुग्धमधिकृत्य चिन्त्यते; किमियं मूर्च्छा सुषुप्त्यादिष्वन्यतमावस्था, उतावस्थान्तरमिति विशये सुषुप्त्यादीनामन्यतमावस्थायामेव मूर्च्छाप्रसिद्ध्युपत्तेः अवस्थान्तर-कल्पने प्रमाणाभावादन्यतमावस्था –

सूत्रार्थवर्णनपूर्वकं सिद्धान्तः

इति प्राप्ते उच्यते – मुग्धेऽर्धसम्पत्तिः इति। मुग्धे पुरुषे या तस्यावस्था, सा मरणायार्धसम्पत्तिः। कुतः? परिशेषात् – न तावत्स्वप्नजागरौ, ज्ञानाभावात्; निमित्तवैरूप्यादाकारवैरूप्याच्च न सुषुप्तिमरणे। निमित्तं हि मूर्च्छाया अभिघातादिः। पारिशेष्यान्मरणायार्धसम्पत्तिर्मूर्छा । मरणं हि सर्वप्राणदेहसम्बन्धोपरतिः; सूक्ष्मप्राणदेहसम्बन्धावस्थितिर्मूर्छा॥

इति श्रीशारीरकमीमांसाभाष्ये मुग्धाधिकरणम्॥ ४॥