श्रीभाष्यम् 03-02-02 तदभावाधिकरणम्

श्रीशारीरकमीमांसाभाष्ये तदभावाधिकरणम्॥२॥

अधिकरणार्थः

जिवात्मनां सुषुप्तौ स्थानानि हिताख्यनाडी – पुरीतत् – परमात्मनस्त्रयोऽपि

३२१. तदभावो नाडीषु तच्छ्रुतेरात्मनि च ॥ ३–२–७ ॥

सङ्गतिः विषयनिर्देशश्च

इदानीं सुषुप्तिस्थानं परीक्ष्यते, इदमाम्नायते अथ यत्रैतत्सुप्तस्समस्तस्सम्प्रसन्नः स्वप्नं न विजानाति आसु तदा नाडीषु सृप्तो भवति (छां.८.३.३) इति; तथा अथ यदा सुषुप्तो भवति यदा न कस्यचन वेद हिता नाम नाड्यो द्वासप्ततिसहस्राणि हृदयात्पुरीततमभिप्रतिष्ठन्ते ताभिः प्रत्यवसृप्य पुरीतति शेते (बृ.४.१.१९) इति; तथा – यत्रैतत्पुरुषः स्वपिति नाम सता सोम्य तदा सम्पन्नो भवति (छा.६.८.१) इति। एवं नाड्यः पुरीतद् ब्रह्म च सुषुप्तिस्थानत्वेन श्रूयन्ते;

संशयः पूर्वपक्षश्च

किमेषां विकल्पः समुच्चयो वेति विशये निरपेक्षत्वप्रतीतेः युगपदनेकस्थानवृत्त्यसम्भवाच्च विकल्पः-

सिद्धान्तप्रदर्शनं सूत्रतः

इति प्राप्ते उच्यते – तदभाव – इति। तदभावः – स्वप्नाभावः सुषुप्तिः नाडीषु पुरीतत्यात्मनि च भवति, एषां स्थानानां समुच्चय इत्यर्थः । कुतः? तच्छ्रुतेः त्रयाणां स्थानत्वश्रुतेः । न च कार्यभेदेन समुच्चये सम्भवति पाक्षिकबाधगर्भविकल्पो न्याय्यः । सम्भवति च प्रासादखट्वापर्यङ्कवन्नाड्यादीनां कार्यभेदः। तत्र नाडीपुरीततौ प्रासादखट्वास्थानीयौ; ब्रह्म तु पर्यङ्कस्थानीयम्। अतो ब्रह्मैव साक्षात्सुषुप्तिस्थानम्॥७॥

ब्रह्मणः जीवप्रबोधावधिस्थानता

३२२. अतः प्रबोधोऽस्मात् ॥ ३–२–८ ॥

यतो ब्रह्मैव साक्षात्सुषुप्तिस्थानम्, अतः अस्मात् – ब्रह्मणः एषां जीवानां प्रबोधः श्रूयमाण उपपद्यते – सत आगम्य न विदुः सत आगच्छामहे (छा.६.१०.२) इत्यादिषु ॥८॥

इति श्रीशारीरकमीमांसाभाष्ये तदभावाधिकरणम्॥२॥