श्रीभगवद्रामानुजविरचिते श्रीशारीररकमीमांसाभाष्ये
तृतीयस्य साधनाध्यायस्य – द्वितीयः उभयलिङ्गपादः
अधिकरणानि – 8, सूत्राणि – 40
पादार्थः – परस्य ब्रह्मणः निरस्ताखिलदोषता समस्तकल्याणगुणाकरता च
सन्ध्याधिकरणम्
बृहदारण्यकदहरविद्या 6-3-10
अधिकरणार्थः
स्वप्नानां जीवानुभाव्यानां
३१५. सन्ध्ये सृष्टिराह हि ॥ ३–२–१ ॥ (पू)
पादसङ्गतिप्रदर्शनम्, विषयवाक्यं च
एवं कर्मानुरूपगमनागमनजन्मादियोगेन जाग्रतो जीवस्य दुःखित्वं ख्यापितम्; इदानीमस्य स्वप्नावस्था परीक्ष्यते। स्वप्नमधिकृत्य श्रूयते – न तत्र रथा न रथयोगा न पन्थानो भवन्ति, अथ रथान् रथयोगान् पथस्सृजते, न तत्रानन्दा मुदः प्रमुदो भवन्ति, अथ आनन्दान् मुदः प्रमुदः सृजते, न तत्र वेशान्ताः पुष्किरण्यः स्रवन्त्यो भवन्ति, अथ वेशान्ताः पुष्किरण्यः स्रवन्त्यस्सृजते, स हि कर्ता (बृ.६.३.१०) इति।
अधिकरणीयः संशयः
तत्र संशयः – किमियं रथादिसृष्टिः जीवेनैव क्रियते; आहोस्विदीश्वरेण इति ।
पूर्वपक्षः सयुक्तिकः
किंयुक्तम्? सन्ध्ये सृष्टिर्जीवेनेति। कुतः? सन्ध्यं – स्वप्नस्थानमुच्यते, सन्ध्यं तृतीयं स्वप्नस्थानम् इति वचनात्; सा तु जीवेनैव क्रियते सृजते स हि कर्ता (बृ.६.३.१०) इत्याह हि। स्वप्नदृग्जीव एव तत्र प्रतीयते ॥१॥
जीवस्यैव स्वाप्नार्थनिर्मातृत्वे श्रुत्यन्तरम्
३१६. निर्मातारं चैके पुत्रादयश्च ॥ ३–२–२ ॥
किञ्च – एनं जीवं स्वप्ने कामानां निर्मातारमेके शाखिनोऽधीयते य एषु सुप्तेषु जागर्ति कामंकामं पुरुषो निर्मिमाणः (कठ.२.५.८) इति । पुत्रादयश्च तत्र काम्यमानतया कामशब्देन निर्दिश्यन्ते, नेच्छामात्रम्; पूर्वत्र हि सर्वान् कामान् छन्दतः प्रार्थयस्व (कठ.१.१.२५) शतायुषः पुत्रपौत्रान् वृणीष्व (कठ.१.१.२३) इति पुत्रादय एव कामाः प्रकृताः ।
पूर्वपक्षार्थनिगमनम्
अतो रथादीन् जीवः स्वप्ने सृजति, जीवस्य च सत्यसङ्कल्पत्वं प्रजापतिवाक्ये श्रुतम्; अत उपकरणाद्यभावेऽपि सृष्टिरुपपद्यते॥२॥
सिद्धान्तसूत्रं सविवरणम्
इति प्राप्तेऽभिधीयते
३१७. मायामात्रं तु कार्त्स्न्येेनानभिव्यक्तस्वरूपत्वात् ॥ ३–२–३ ॥
तु शब्दः पक्षं व्यावर्तयति स्वप्ने रथपुष्करिण्याद्यर्थजातं मायामात्रं परमपुरुषसृष्टमित्यर्थः। मायाशब्दो ह्याश्चर्यवाची जनकस्य कुले जाता देवमायेव निर्मिता (श्रीराम.बाल.१.२७) इत्यादिषु तथा दर्शनात्। अत्रापि न तत्र रथा न रथायोगा न पन्थानः – (बृ.६.३.१०) सकलेतरपुरुषानुभाव्यतया न भवन्तीत्यर्थः, अथ रथान् रथयोगान्पथः सृजते (बृ.६.३.१०) स्वप्नदृगनुभाव्यतया तत्कालमात्रावसानान् सृजत इत्याश्चर्यरूपत्वमेवाह।
जीवे ईदृश्याः सृष्टेः अयोगः
एवंविधाश्चर्यरूपा सृष्टिस्सत्यसङ्कल्पस्य परमपुरुषस्यैवोपपद्यते, न जीवस्य; तस्य सत्यसङ्कल्पत्वादि-युक्तस्यापि संसारदशायां कार्त्स्न्येेनानभिव्यक्तस्वरूपत्वान्न जीवस्य तथाविधाश्चर्यसृष्टिरुपपद्यते। कामं कामं पुरुषो निर्ममाणः (कठ.२.५.८) इति च परमपुरुषमेव निर्मातारमाह – य एषु सुप्तेषु जागर्ति (कठ.२.५.८) तदेव शुक्रं तद्ब्रह्म तदेवामृतमुच्यते। तस्मिन्लोकाश्श्रितास्सर्वे तदु नात्येति कश्चन (कठ.२.५.८) इत्युपक्रमोपसंहारयोः परमपुरुषासाधारणस्वभावप्रतीतेः । अथ वेशान्तान् पुष्किरण्यः स्रवन्त्यः सृजते स हि कर्ता (बृह.६.३.१०) इति च तया श्रुत्यैकार्थ्यात्परमपुरुषमेव कर्तारमाह ॥३॥
जीवस्वभावगतस्य धर्मस्यापि अनाविर्भावे हेतुः
स्वाभाविकं चेज्जीवस्यापहतपाप्मत्वादिकम्, कुतस्तन्नाभिव्यज्यत इत्यत आह –
३१८. पराभिध्यानात्तु तिरोहितं ततो ह्यस्य बन्धविपर्ययौ ॥ ३–२–४ ॥ (सि)
तुशब्दश्शङ्काव्यावृत्त्यर्थः; पराभिध्यानात् – परमपुरुषसङ्कल्पात्, अस्य जीवस्य स्वाभाविकं रूपं तिरोहितम्; अनादिकर्मपरम्परया कृतापराधस्य ह्यस्य स्वाभाविकं कल्याणरूपं परमपुरुषस्तिरोधापयति; ततः तत्सङ्कल्पादेव हि अस्य जीवस्य बन्धमोक्षौ श्रुतौ यदा ह्येवैष एतस्मिन्नदृश्येऽनात्म्येऽनिरुक्तेऽनिलयनेऽभयं प्रतिष्ठां विन्दते अथ सोऽभयं गतो भवति यदा ह्येवैष एतस्मिन्नुदरमन्तरं कुरुते अथ तस्य भयं भवति (तै.आन.७.१) एष ह्येवानन्दयाति (तै.आन.७.२) भीषाऽस्माद्वातः पवते (तै.आन.८.१) इत्यादिषु ॥४॥
तिरोधानप्रदर्शनम्
३१९. देहयोगाद्वा सोऽपि ॥ ३–२–५ ॥
सोऽपि तिरोभावो देहयोगद्वारेण वा भवति, सूक्ष्माचिच्छक्तियोगद्वारेण वा; सृष्टिकाले देहावस्थेनाचिद्वस्तुना संयोगाद्भवति, प्रलयकाले नामरूपविभागानर्हातिसूक्ष्माचिद्वस्तुयोगात्। अतोऽनभिव्यक्तस्वरूपत्वात्स्वप्ने जीवो न रथादीन् सङ्कल्पमात्रेण स्रष्टुं शक्नोति। तस्मिल्लोकाश्श्रितास्सर्वे तदु नात्येति कश्चन (कठ.५.८) इति सर्वेषु सुप्तेषु जागरणं सर्वलोकाश्रयत्वमित्यादयो हि परमपुरुषस्यैव सम्भवन्ति। अतो जीवानां अल्पाल्पकर्मानुगुण-फलानुभवार्थं तावन्मात्रकालावसानान् तदेकानुभाव्यानर्थानुत्पादयति॥५॥
स्वप्नस्य शुभाद्यर्थसूचकत्वतः जीवसृष्टत्वायोगः
३२०. सूचकश्च हि श्रुतेराचक्षते च तद्विदः ॥ ३–२–६ ॥
इतश्च स्वाप्ना अर्था न जीवसङ्कल्पपूर्वकाः; यतः स्वप्नोऽभ्युदयानभ्युदययोस्सूचकः श्रुतेरवगम्यते यदा कर्मसु काम्येषु स्त्रियं स्वप्नेषु पश्यति समृद्धिं तत्र जानीयात्तस्मिन् स्वप्ननिदर्शने (छा.५-२-९) इति; अथ स्वप्ने पुरुषं कृष्णं कृष्णदन्तं पश्यति स एनं हन्ति इत्यादेश्च। स्वप्नाध्यायविदश्च स्वप्नं शुभाशुभयोस्सूचकमाचक्षते । सूचकत्वं च स्वसङ्कल्पायत्तस्य नोपपद्यते; तथाचाशुभस्यानिष्टत्वाच्छुभस्य सूचकमेव सृष्ट्वा पश्येत्। अतः स्वप्ने सृष्टिरीश्वरेणैव कृता ॥६॥
इति श्रीशारीरकमीमांसाभाष्ये सन्ध्याधिकरणम्॥१॥