श्रीभाष्यम् 03-01-05 नातिचिराधिकरणम्

श्रीशारीरकमीमांसाभाष्ये नातिचिराधिकरणम्॥७॥

३१०. नातिचिरेण विशेषात् ॥ ३–१–२३ ॥ (सि)

अधिकरणार्थः

जीवस्य अवरोहकाले आकाशादिषु स्थानेषु शीघ्रा गतिः

सङ्गतिविचारपूर्वपक्षः

आकाशप्राप्तिप्रभृति यावद्व्रीह्यादिप्राप्ति किं तत्रतत्र नातिचिरं तिष्ठति, उतानियम इति विशये नियमहेत्वभावादनियमः –

सिद्धान्तः सूत्रार्थतः

इति प्राप्ते,

उच्यते – नातिचिरेण – इति।

कुतः? विशेषात् – उत्तरत्र व्रीह्यादिप्राप्तौ अतो वै खलु दुर्निष्प्रपतरम् (छा।५-१०-६) इति विशिष्य कृच्छ्रनिष्क्रमणत्वाभिधानात् पूर्वत्र ह्याकाशादिप्राप्तावचिरनिष्क्रमणं गम्यते। दुर्निष्प्रपतरमिति च्छान्दसस्तशब्दलोपः; दुर्निष्प्रपतरं – दुःखनिष्क्रमणतरमित्यर्थः॥२३॥

इति श्रीशारीरकमीमांसाभाष्ये नातिचिराधिकरणम्॥ ५॥