श्रीशारीरकमीमांसाभाष्ये तत्स्वाभाव्यापत्त्यधिकरणम् ॥४॥
अधिकरणार्थः
अवरोहतो जीवस्य श्रुत्युक्तः आकाशादिभावः आकाशादिसादृश्यरूपः
३०९. तत्स्वाभाव्यापत्तिरुपपत्तेः ॥ ३–१–२२ ॥
उक्तार्थानुवादः सङ्गत्यर्थम्
इष्टादिकारिणो भूतसूक्ष्मपरिष्वक्तास्सानुशयाश्चन्द्रमसोऽवरोहन्तीत्युक्तम्, अवरोहप्रकारश्च अथैतमेवाध्वानं पुनर्निवर्तन्ते यथेतमाकाशम् आकाशाद्वायुः वायुर्भूत्वा धूमो भवति धूमो भूत्वाऽभ्रं भवति अभ्रं भूत्वा मेघो भवति, मेघो भूत्वा प्रवर्षति (छा.५.१०, ५.६) इति वचनात् यथेतमनेवञ्च इत्युक्तम् ॥
प्रकृतो विचारणीयोंशः
तत्रास्याकाशादिप्रतिपत्तौ देवमनुष्यादिभाववदाकाशादिभावः, उत तत्सादृश्यापत्तिमात्रमिति विशये,
पूर्वपक्षः सदृष्टान्तः
श्रद्धावस्थस्य सोमभाववदविशेषादाकाशादिभावः – इति प्राप्ते
सिद्धान्तार्थः सयुक्तिकः
तत्स्वाभाव्यापत्तिरेवेत्युच्यते। तत्स्वाभाव्यापत्तिः– तत्सादृश्यापत्तिरित्यर्थः। कुत एतत्? उपपत्तेः सोमभावमनुष्यभावादौ हि सुखदुःखोपभोगाय तद्भावः; अत्र त्वाकाशादौ सुखदुःखोपभोगाभावात्तद्भावानुपपत्तेस्तदापत्तिवचनं तत्संसर्गकृततत्सादृश्यापत्त्यभिप्रायम्॥२२॥
इति श्रीशारीरकमीमांसाभाष्ये तत्स्वाभाव्यापत्त्यधिकरणम्॥४॥