श्रीभाष्यम् 03-01-03 अनिष्टादिकार्यधिकरणम्

श्रीशारीरकमीमांसाभाष्ये अनिष्टादिकार्यधिकरणम्॥३॥

अधिकरणार्थः

केवलपापकारिणां चन्द्रारोहावरोहौ विनैव गतागती

२९९. अनिष्टादिकारिणामपि च श्रुतम् ॥ ३–१–१२ ॥

सङ्गतिः, अधिकरणविचार्योंशश्च

केवलेष्टापूर्तदत्तकारिणश्चन्द्रमसं गत्वा सानुशया एव निवर्तन्त इत्युक्तम्; इदानीमनिष्टादिकारिणोऽपि चन्द्रमसं गच्छन्ति, नेति चिन्त्यते । ये विहितं न कुर्वन्ति, निषिद्धं च कुर्वन्ति, त उभयेऽपि पापकर्माणोऽनिष्टादिकारिणः ।

पूर्वपक्षारम्भः सयुक्तिकः

किं युक्तम्? तेऽपि चन्द्रमसं गच्छन्तीति, कुतः? तेषामपि हि तद्गमनं श्रुतं – ये वै केचास्माल्लोकात्प्रयन्ति चन्द्रमसमेव ते सर्वे गच्छन्ति (कौषी.१.२) इत्यविशेषेण सर्वेषामेव गतिश्रवणात्॥१२॥

पुण्यपापकर्मणोरुभयोरपि गतितौल्यशङ्का-परिहारौ

एवं तर्हि सुकृतदुष्कृतकारिणोरुभयोरप्यविशिष्टैव गतिस्स्यात्; नेत्याह –

३००. संयमने त्वनुभूयेतरेषामारोहावरोहौ तद्गतिदर्शनात् ॥ ३–१–१३ ॥

तु शब्दश्शङ्कां व्यावर्तयति; इतरेषाम् अनिष्टादिकारिणां चन्द्रारोहावरोहौ संयमने – यमशासने तत्प्रयुक्तयातना अनुभूयैव, नान्यथा; कुतः? तद्गतिदर्शनात् – दृश्यते हि पापकर्मणां यमवश्यतया तद्गमनम् अयं लोको नास्ति न पर इति मानी पुनःपुनर्वशमापद्यते मे (कठ.१-२- ६) वैवस्वतं सङ्गमनं जनानां यमं राजानम् (तै.आरण्.२.१) इत्यादिषु॥३॥

अविशेषेण सर्वेषां यमवश्यतास्मृतिः

३०१. स्मरन्ति च ॥३–१–१४॥

स्मरन्ति च सर्वेषां यमवश्यतां पराशरादयः सर्वे चैते वशं यान्ति यमस्य भगवन्किल (वि.पु ३-७-५) इत्यादिषु॥१४॥

पापकारिभिर्गन्तव्याः सप्त नरकाः

३०२. अपि सप्त॥ ३–१–१५ ॥

पापकर्मणां गन्तव्यत्वेन रौरवादीन् सप्त नरकानपि स्मरन्ति॥१५॥

ननु सप्तसु लोकेषु गच्छतां कथं यमसदनप्राप्तिः, अत आह –

सप्तलोकेषु यमसम्बन्धोपपत्तिः

३०३. तत्रापि तद्व्यापारादविरोधः ॥ ३–१–१६ ॥

तेष्वपि सप्तसु यमाज्ञयैव गमनादविरोधः ।

पूर्वपक्षोपसंहरणम्

अतोऽनिष्टादिकारिणामपि यमलोकं प्राप्य स्वकर्मानुरूपं यातनाश्चानुभूय पश्चाच्चन्द्रारोहावरोहौ स्तः ॥१६॥

सिद्धान्तारम्भः

इति प्राप्त उच्यते –

३०४. विद्याकर्मणोरिति तु प्रकृतत्वात् ॥ ३–१–१७ ॥

तु शब्दः पक्षव्यावृत्त्यर्थः। अनिष्टादिकारिणामपि चन्द्रप्राप्तिरस्तीत्येतन्नोपपद्यते; कुतः? विद्याकर्मणोरिति विद्याकर्मणोः फलभोगार्थत्वाद्देवयानपितृयाणयोः।

विद्याप्रसङ्गस्य दृष्टान्तार्थत्वम्

एतदुक्तं भवति – अनिष्टादिकारिणां यथा विद्याविधुरत्वाद्देवयानेन पथा गमनं न सम्भवति; तद्वदेवेष्टापूर्तदत्तविधुरत्वात्पितृयाणेन चन्द्रगमनमपि न सम्भवति – इति ।

उक्तविभागावगमकप्रदर्शनम्

देवयानपितृयाणयोः विद्याविषयत्वं पुण्यकर्मविषयत्वं च कथमवगम्यत इति चेत् – प्रकृतत्वात्तयोः। प्रकृता हि देवयाने विद्या, पितृयाणे च कर्म तद्य इत्थं विदुर्ये चेमेऽरण्ये श्रद्धा तप इत्युपासते (छा.५.१०.१) इत्युक्त्वा तेऽर्चिषमभिसम्भवन्त्यर्चिषोऽहः (छा.५.१०.१) इत्यादिना देवयानवचनात्, अथ य इमे ग्राम इष्टापूर्ते दत्तमित्युपासते (छां.५.१०.३) इत्युक्त्वा ते धूममभिसम्भवन्ति (छा.५.१०.३) इत्यादिना पितृयाणवचनाच्च ये वै के चास्माल्लोकात्प्रयन्ति चन्द्रमसमेव ते सर्वे गच्छन्ति (कौषी.१.२) इत्येतदपि वचनं य इष्टादिकारिणः ते सर्वे इति परिणेयम् ॥

पापकर्मिणां चन्द्रगमनाभावे शरीरानारम्भशङ्का-परिहारौ

ननु पापकर्मणां चन्द्रगमनाभावे पञ्चमाहुत्यसम्भवाच्छरीरारम्भ एव नोपपद्यते; पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति (छा.५.९.१) इति हि शरीराम्भश्श्रूयते, सा चाहुतिश्चन्द्रप्राप्तिपूर्विकेति दर्शितम्; अतश्शरीरारम्भायैव तेषामपि चन्द्रारोहावरोहाववश्याभ्युपेत्यौ इत्यत आह –

३०५. न तृतीये तथोपलब्धेः ॥ ३–१–१८ ॥

तृतीयस्थानस्य शरीरारम्भाय न पञ्चमाहुत्यपेक्षा; कुतः? तथोपलब्धेः – तृतीयस्थानशब्देन केवलपापकर्माण उच्यन्ते, तेषां देहारम्भे पञ्चमाहुत्यनपेक्षत्वमुपलभ्यते वेत्थ यथा केनासौ लोकाे न संपूर्यते (छा.५.३.३) इत्यस्य प्रश्नस्य प्रतिवचने अथैतयोः पथोर्न कतरेण च तानीमानि क्षुद्राण्यसकृदावर्तीनि भूतानि भवन्ति जायस्व म्रियस्वेत्येतत्तृतीयं स्थानं तेनासौ लोको न संपूर्यते (छा.५.१०.८) इति तृतीयस्थानस्य द्युलोकारोहावरोहाभावेन द्युलोकासंपूर्तिवचनादस्य तृतीयस्थानस्य शरीरारम्भाय न पञ्चमाहुत्यपेक्षा । पञ्चम्यामाहुतौ (छा.६.३.१) इति चापां पञ्चमाग्निसम्बन्धस्य पुरुषवचस्त्वहेतुत्वमात्रं प्रतिपादयति, नान्यन्निवारयति, अवधारणाश्रवणात् ॥१८॥

मनुष्येष्वपि केषुचित् देहारम्भे पञ्चमाहुत्यनपेक्षा

३०६. स्मर्यतेऽपि च लोके ॥ ३–१–१९ ॥

पुण्यकर्मणामपि केषाञ्चित्पञ्चमाहुत्यनपेक्षया देहारम्भो लोके स्मर्यते द्रौपदीधृष्टद्युम्नप्रभृतीनाम्॥१९॥

पञ्चमाहुत्यनपेक्षया देहारम्भस्य श्रुतितोऽपि सिद्धिः

३०७. दर्शनाच्च ॥ ३–१–२० ॥

श्रुतावपि दृश्यते केषाञ्चित्पञ्चमाहुत्यनपेक्षया देहारम्भः तेषां खल्वेषां भूतानां त्रीण्येव बीजानि भवन्ति आण्डजं जीवजमुद्भिज्जम् (छां. ६.३.१) इति। एषूद्भिज्जस्वेदजयोः भूतयोः पञ्चमाहुतिमन्तरेणोत्पत्तिर्दृश्यते॥२०॥

उद्भिज्जशब्देन स्वेदजानां सङ्ग्रहः

ननु स्वेदजानामत्र न सङ्कीर्तनमस्ति त्रीण्येव बीजानि (छां.६.३.१) इति वनचात्; तत्राह –

३०८. तृतीयशब्दावरोधस्संशोकजस्य॥ ३–१–२१ ॥

संशोकजस्य – स्वेदजस्यापि आण्डजं जीवजमुद्भिज्जम् (छा.६.३.१) इत्यत्र तृतीयेनोद्भिज्जशब्देनावरोधः संग्रहो विद्यत इत्यर्थः; अतः केवलपापकर्मणां चन्द्रप्राप्तिर्न सम्भवति॥२१॥

इति श्रीशारीरकमीमांसाभाष्ये अनिष्टादिकार्यधिकरणम् ॥३॥