श्रीभाष्यम् 02-04-04 वायुक्रियाधिकरणम्

श्रीशारीरकमीमांसाभाष्ये वायुक्रियाधिकरणम्॥४॥

अधिकरणार्थः

श्रेष्ठः प्राणः न वायुसामान्यम्, तत्क्रिया वा, किन्तु विशिष्टो वायुः

२७६. न वायुक्रिये पृथगुपदेशात् ॥ २–४–८ ॥

विचारोपयोगी संशयः

सोऽयं श्रेष्ठः प्राणः किं महाभूतद्वितीयवायुमात्रम्; तस्य वा स्पन्दरूपक्रिया; अथवा वायुरेव कञ्चन विशेषमापन्नः – इति विशये –

पूर्वपक्षः सहेतुकः

वायुरेवेति प्राप्तम्, यः प्राणस्स वायुः इति व्यपदेशात्। यद्वा वायुमात्रे प्राणत्वप्रसिद्ध्यभावादुच्छ्वासनिश्वासादिवायुक्रियायां प्राणशब्दप्रसिद्धेश्च तत्क्रियैव –

सिद्धान्तरूपं सूत्रोत्तरार्धवर्णनम्

इति प्राप्ते न वायुमात्रम्, न च तत्क्रियेत्युच्यते; कुतः, पृथगुपदेशात् – एतस्माज्जायते प्राणो मनस्सर्वेन्द्रियाणि च । खं वायुः (मु.२.१.३) इति । तत एव पृथगुपदेशात् वायुक्रियापि न भवति प्राणः; न हि तेजः प्रभृतीनां क्रिया तैस्सह पृथग्द्रव्यतयोपदिश्यते यः प्राणस्स वायुः इति तु वायुरेवावस्थान्तरमापन्नः प्राणः; न तेजः प्रभृतिवत्तत्त्वान्तरमिति ज्ञापनार्थम्। उच्छ्वासनिश्वासादावपि प्राणः स्पन्दत इति क्रियावति द्रव्य एव प्राणशब्दप्रसिद्धिः; न क्रियामात्रे॥८॥

वायोः भूतान्तरत्वनिरासः

किमयं प्राणो वायोर्विकारस्सन्नग्निवद्भूतान्तरम्?, नेत्याह –

२७७. चक्षुरादिवत्तु तत्सहशिष्ट्यादिभ्यः ॥ २–४–९ ॥

नायं भूतविशेषः; अपि तु चक्षुरादिवज्जीवोपकरणविशेषः । तच्चोपकरणत्वमुपकरण-भूतैरिन्द्रियैः सहशिष्ट्यादिभ्योऽवगम्यते। चक्षुरादिभिस्सहायं प्राणश्शिष्यते प्राणसंवादादिषु। तत्सजातीयत्वे हि तैस्सह शासनं युज्यते।

प्राणशब्दपरिगृहीतेषु करणेष्वस्य विशिष्याभिधानमादिशब्देन गृह्यते; अथ ह य एवायं मुख्यः प्राणः (छा.१.२.७) योऽयं मध्यमः प्राणः इत्यादिषु विशिष्याभिधानात् ॥९॥

मुख्यप्राणस्य चक्षुरादिवत् जीवोपकरणत्वसमर्थनम्

चक्षुरादिवदस्यापि करणत्वे तद्वदस्यापि जीवं प्रत्युपकारविशेषरूपक्रियया भवितव्यम्; सा तु न दृश्यते; अतो नायं चक्षुरादिवद्भवितुमर्हातीति चेत् – तत्राह –

२७८. अकरणत्वाच्च न दोषस्तथाहि दर्शयति ॥ २–४–१० ॥

अकरणत्वात् – करणं क्रिया, अक्रियत्वात् अस्य प्राणस्य जीवं प्रत्युपकारविशेषरूप-क्रियारहितत्वाच्च यो दोष उद्भाव्यते, स नास्ति; यत उपकारविशेषरूपां शरीरेन्द्रियधारणादिरूपां क्रियां दर्शयति श्रुतिः – यस्मिन्नुत्क्रान्ते इदं शरीरं पापिष्ठतरमिव दृश्यते स वः श्रेष्ठः (छा.५.१.७) इत्युक्त्वा वागाद्युत्क्रमणेऽपि शरीरस्येन्द्रियाणां च स्थितिं दर्शयित्वा प्राणोत्क्रमणे शरीरेन्द्रियशैथिल्याभिधानात्। अतः प्राणापानव्यानोदानसमानाकारेण पञ्चधाऽवस्थितोऽयं प्राणः शरीरेन्द्रियधारणादिना जीवस्योपकरोतीति चक्षुरादिवत्करणत्वम्॥१०॥

प्राणापानादीनां तत्त्वान्तरत्वशङ्कानिरासः

नन्वेवं नामभेदात्कार्यभेदाच्च प्राणापानादयस्तत्त्वान्तराणि स्युः तत्राह –

२७९. पञ्चवृत्तिर्मनोवद्व्यपदिश्यते ॥ २–४–११ ॥

यथा कामादिवृत्तिभेदे तत्कार्यभेदेऽपि न कामादिकं मनसस्तत्त्वान्तरं कामस्सङ्कल्पो विचिकत्सा श्रद्धाऽश्रद्धा धृतिरधृतिर्ह्रीर्धीर्भीरित्येतत्सर्वं मन एव (बृ.३.५.३) इति वचनात्। एवं प्राणोऽपानो व्यान उदानस्समाना इत्येतत्सर्वं प्राण एव (बृ.उ.३.५.३) इति वचनात् अपानादयोऽपि प्राणस्यैव वृत्तिविशेषाः; न तत्त्वान्तरमित्यवगम्यते॥११॥

इति श्रीशारीरकमीमांसाभाष्ये वायुक्रियाधिकरणम्॥४॥