श्रीभाष्यम् 02-03-05 कर्त्रधिकरणम्

श्रीशारीरकमीमांसाभाष्ये कर्त्रधिकरणम्॥५॥

अधिकरणार्थः

आत्मन एव कर्तृत्वम्, न गुणानाम् इति समर्थनम्

२४९. कर्ता शास्त्रार्थवत्वात् ॥ २–३–३३ ॥

अवान्तरसङ्गतिप्रदर्शनम्, अधिकरणीयो विचारश्च

अयमात्मा ज्ञाता, स चाणुपरिमाण इत्युक्तम्; इदानीं किं स एव कर्ता; उत स्वयमकर्तैव सन्नचेतनानां गुणानां कर्तृत्वमात्मन्यध्यस्यतीति चिन्त्यते।

पर्वपक्षः सयुक्तिकः

किमत्र युक्तम्? अकर्तैवात्मेति। कुतः? आत्मनो ह्यकर्तृत्वम्, गुणानामेव च कर्तृत्वमध्यात्मशास्त्रेषु श्रूयते। तथाहि कठवल्लीषु जीवस्य न जायते म्रियते (कठ.२.१८) इत्यादिना जन्मजरामरणादिकं सर्वं प्रकृतिधर्मं प्रतिषिध्य हननादिषु क्रियासु कर्तृत्वमपि प्रतिषिध्यते हन्ता चेन्मन्यते हन्तुं हतश्चेन्मन्यते हतम्। उभौ तौ न विजानीतो नायं हन्त न हन्यते (कठ.२.१९) इति। हन्तारमात्मानं जानन्न जानात्यात्मानमित्यर्थः। तथा च भगवता स्वयमेव जीवस्याकर्तृत्वं स्वरूपम्, कर्तृत्वाभिमानस्तु व्यामोह इत्युच्यते प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः। अहङ्कारविमूढात्मा कर्ताऽहमिति मन्यते (भ.गी.३.२७) नान्यं गुणेभ्यः कर्तारं यदा द्रष्टाऽनुपश्यति (भ.गी.१४.१९) कार्यकारणकर्तृत्वे हेतुः प्रकृतिरुच्यते। पुरुषस्सुखदुःखानां भोक्तृत्वे हेतुरुच्यते (भ.गी.१३.२०) इति च। अतः पुरुषस्य भोक्तृत्वमेव, प्रकृतेरेव तु कर्तृत्वम् इति।

सिद्धान्तमुखेन सूत्रार्थः

एवं प्राप्ते प्रचक्ष्महे – कर्ता शास्त्रार्थवत्त्वात् इति। आत्मैव कर्ता, न गुणाः, कस्मात्? शास्त्रार्थवत्त्वात्। शास्त्राणि हि यजेत स्वर्गकामः मुमुक्षुर्ब्रह्मोपासीत इत्येवमादीनि स्वर्गमोक्षादिफलस्य भोक्तारमेव कर्तृत्वे नियुञ्जते; न ह्यचेतनस्य कर्तृत्वेऽन्यो नियुज्यते। शासनाच्च शास्त्रम्; शासनं च प्रवर्तनम् शास्त्रस्य च प्रवर्तकत्वं बोधजननद्वारेण; अचेतनं च प्रधानं न बोधयितुं शक्यम्। अतः शास्त्राणामर्थवत्त्वं भोक्तुश्चेतनस्यैव कर्तृत्वे भवेत्। तदुक्तं शास्त्रफलं प्रयोक्तरि (पूर्व.मी.न्या.३-७) इति।

अनुवादपूर्वकं पूर्वपक्षनिरासः

यदुक्तं हन्ता चेन्मन्यते (कठ.२.१९) इत्यादिना हननिक्रयायामकर्तृत्वमात्मनः श्रूयत इति; तदात्मनो नित्यत्वेन हन्तव्यत्वाभावादुच्यते। यच्च प्रकृतेः क्रियमाणानि (भ.गी.३.२७) इत्यादिना गुणानामेव कर्तृत्वं स्मर्यत इति; तत्सांसारिकप्रवृत्तिष्वस्य कर्तृता सत्त्वरजस्तमोगुणसंसर्गकृता; न स्वरूपप्रयुक्तेति प्राप्ताप्राप्ताविवेकेन गुणानामेव कर्तृतेत्युच्यते। तथा च तत्रैवोच्यते कारणं गुणसङ्गोऽस्य सदसद्योनिजन्मसु (भ.गी.१६.२९) इति। तथा तत्रैवात्मनश्च कर्तृत्वमभ्युपेत्योच्यते तत्रैवं सति कर्तारमात्मानं केवलं तु यः। पश्यत्यकृतबुद्धित्वान्न स पश्यति दुर्मतिः (भ.गी.१८-१६) इति। अधिष्ठानं तथा कर्ता करणं च पृथग्विधम्। विविधा च पृथक् चेष्टा दैवं चैवात्र पञ्चमम् (भ.गी.१८.१४) इत्यधिष्ठानादिदैवपर्यन्तसापेक्षे सत्यात्मनः कर्तृत्वे य आत्मानमेव केवलं कर्तारं मन्यते, न स पश्यतीत्यर्थः ॥३३॥

आत्मनः कर्तृत्वस्य श्रुत्युपदेशतो लाभः

२५०. उपादानाद्विहारोपदेशाच्च ॥ २–३–३४ ॥

स यथा महाराजः (बृ.४.१.१८) इति प्रकृत्य, एवमेवैष एतान् प्राणान् गृहीत्वा स्वे शरीरे यथाकामं परिवर्तते (बृह.४.७.१८) इति प्राणानामुपादाने विहारे च कर्तृत्वमुपदिश्यते॥३४॥

आत्मनः कर्तृत्वव्यपदेशः लौकिक-वैदिकीषु क्रियासु

२५१. व्यपदेशाच्च क्रियायां न चेन्निर्देशविपर्ययः॥ २–३–३५ ॥

विज्ञानं यज्ञं तनुते कर्माणि तनुतेऽपि च (तै.आन.५.१) इति लौकिकवैदिकक्रियासु कर्तृत्वव्यपदेशाच्च कर्ता । विज्ञानशब्देन नात्मनो व्यपदेशः; अपित्वन्तःकरणस्य बुद्धेरिति चेत् – एवं सति निर्देशविपर्ययस्स्यात् – बुद्धेः करणत्वाद्विज्ञानेनेति करणविभक्तिनिर्देशस्स्यात्॥३५॥

आत्मनः कर्तृत्वानभ्युपगमे दोषप्रदर्शनम्

२५२. उपलब्धिवदनियमः ॥ २–३–३६ ॥

आत्मनोऽकर्तृत्वे दोष उच्यते। यथाऽऽत्मनो विभुत्वे नित्योपलब्ध्यनुपलब्धिप्रसङ्ग इत्यादिनोपलब्धेरनियम उक्तः; तद्वदात्मनोऽकर्तृत्वे प्रकृतेश्च कर्तृत्वे तस्यास्सर्वपुरुषसाधारणत्वात् सर्वाणि कर्माणि सर्वेषां भोगाय स्युः; नैव वा कस्यचित्। आत्मनो विभुत्वाभ्युपगमात्सन्निधानमपि सर्वेषामविशिष्टम्। अत एव चान्तःकरणादीनामपि नियमो नोपपद्यते; यदायत्ता व्यवस्था स्यात्॥३६॥

बुद्धेः कर्तृत्वाभ्युपगमे आत्मापलापापत्तिः

२५३. शक्तिविपर्ययात्॥ २–३–३७ ॥

बृुद्धेः कर्तृत्वे कर्तुरन्यस्य भोक्तृत्वानुपपत्तेर्भोक्तृत्वशक्तिरपि तस्या एव स्यादित्यात्मनो भोक्तृत्वशक्तिर्हीयेत। भोक्तृत्वं च बुद्धेरेव संपद्यत इति आत्मसद्भावे प्रमाणाभावश्च स्यात्। पुरुषोऽस्ति भोक्तृभावात् (सां.का.१७) इति हि तेषामभ्युपगमः॥३७॥

प्रकृतौ, प्रकृत्यन्यथाख्यातिरूपसमाध्यनुपपत्तिः

२५४. समाध्यभावाच्च ॥ २–३–३८ ॥

बुद्धेः कर्तृत्वे मोक्षसाधनभूतसमाधावपि सैव कर्त्री स्यात् । स च समाधिः प्रकृतेरन्योऽस्मीत्येवंरूपः, न च प्रकृतेरन्योऽस्मीति प्रकृतिस्समाधातुमलम्। अतोऽप्यात्मैव कर्ता॥३८॥

आत्मनः कर्तृत्वे, तस्मिंस्तस्यानुपरतिशङ्का-तत्परिहारौ

नन्वात्मनः कर्तृत्वेऽभ्युपगम्यमाने सर्वदा कर्तृत्वान्नोपरमेतेत्यत्राह –

२५५. यथा च तक्षोभयधा॥ २–३–३९ ॥

वागादिकरणसम्पन्नोऽप्यात्मा यदेच्छति, तदा करोति यदा तु नेच्छति, तदा न करोति, यथा तक्षा वाश्यादिकरणसन्निधानेऽपि इच्छानुगुण्येन करोति, न करोति च। बुद्धेस्त्वचेतनायाः कर्तृत्वे तस्याः भोगवाञ्छादिनियमकारणाभावात्सर्वदा कर्तृत्वमेव स्यात्॥२९॥

इति श्रीशारीरकमीमांसाभाष्ये कर्त्रधिकरणम्॥ ५॥