श्रीभाष्यम् 02-03-03 आत्माधिकरणम्

श्रीशारीरकमीमांसाभाष्ये आत्माधिकरणम्॥३॥

अधिकरणार्थः

जीवानां उत्पत्तिविनाशराहित्येन नित्यता

२३४. नात्मा श्रुतेर्नित्यत्वाच्च ताभ्यः ॥ २–३–१८ ॥

अवान्तरसङ्गतिः, अधिकरणे विचारणीयोंशश्च

वियदादेः कृत्स्नस्य परस्माद्ब्रह्मण उत्पत्तिरुक्ता। इदानीं जीवस्याप्युत्पत्तिरस्ति नेति संशय्यते ॥

पूर्वपक्षः सयुक्तिकः

कि युक्तम्? अस्तीति, कुतः, एकविज्ञानेन सर्वविज्ञानप्रतिज्ञोपपत्तेः, प्राक्सृष्टेरेकत्वावधारणाच्च। वियदादेरिव जीवस्याप्युत्पत्तिवादिन्यः श्रुतयश्च सन्ति – यतः प्रसूता जगतः प्रसूती तोयेन जीवान् व्यससर्ज भूम्याम् (तै.उ.ना.१.१) प्रजापतिः प्रजा असृजत (यजु.२.अष्ट) सन्मूलास्सोम्येमास्सर्वाः प्रजास्सदायतनास्सत्प्रतिष्ठाः (छा.६.८.४) यतो वा इमानि भूतानि जायन्ते (तै.उ.भृगु-१) इति। एवं सचेतनस्य जगत उत्पत्तिवचनात् जीवस्याप्युत्पत्तिः प्रतीयते।

जीवब्रह्माभेदतः, जीवनित्यत्वशङ्का-परिहारौ

न च वाच्यं – ब्रह्मणो नित्यत्वात् तत्त्वमस्यादिभिश्च जीवस्य ब्रह्मत्वावगमाज्जीवस्य नित्यत्वम् – इति ऐतदात्म्यिमदं सर्वम् (छा.६.८.७) सर्वं खल्विदं ब्रह्म (छा.३.१४.१) इत्येवमादिभिर्वियदादेरपि ब्रह्मत्वावगमात्तस्यापि नित्यत्वप्रसक्तेः। अतो जीवोऽपि वियदादिवत् उत्पद्यत इति॥

अधिकरणीयः सिद्धान्तः

एवं प्राप्तेऽभिधीयते नात्मा श्रुतेः – इति। नात्मोत्पद्यते; कुतः? श्रुतेः न जायते म्रियते वा विपश्चित् (कठ.२.१८) ज्ञाज्ञौ द्वावजौ, (श्वेत.२.९) इत्यादिभिर्जीवस्योत्पत्तिप्रतिषेधो हि श्रूयते। आत्मनो नित्यत्वं च ताभ्यः श्रुतिभ्य एवावगम्यते नित्यो नित्यानां चेतनश्चेतनानामेको बहूनां यो विदधाति कामान् (श्वेत.६.१३) अजो नित्यश्शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे, (कठ.२.१८) इत्यादिभ्यः। अतश्च नात्मोत्पद्यते।

अधिकरणद्वयार्थनिगमनम्

कथं तर्ह्येकविज्ञानेन सर्वविज्ञानप्रतिज्ञोपपद्यते; इत्थमुपपद्यते जीवस्यापि कार्यत्वात्कार्यकारणयोरनन्यत्वाच्च। एवं तर्हि वियदादिवदुत्पत्तिमत्त्वमङ्गीकृतं स्यात्; नेत्युच्यते – कार्यत्वं हि नामैकस्य द्रव्यस्यावस्थान्तरापत्तिः, तज्जीवस्याप्यस्त्येव। इयांस्तु विशेषः – वियदादेरचेतनस्य यादृशोऽन्यथाभावो न तादृशो जीवस्य; ज्ञानसङ्कोचविकासलक्षणो जीवस्यान्यथाभावः; वियदादेस्तु स्वरूपान्यथाभावलक्षणः। सेयं स्वरूपान्यथाभावलक्षणोत्पत्तिर्जीवे प्रतिषिध्यते।

आत्मनो नित्यत्वे एकविज्ञानतः सर्वविज्ञानानुपपत्तिशङ्का-तत्परिहारौ

एतदुक्तं भवति – भोग्यभोक्तृनियन्तॄन् विविक्तस्वभावान् प्रतिपाद्य भोग्यगतमुत्पत्त्यादिकं, भोक्तरि प्रतिषिध्य तस्य नित्यतां च प्रतिपाद्य भोग्यगतमुत्पत्त्यादिकं, भोक्तृगतं चापुरुषार्थाश्रयत्वं नियन्तरि प्रतिषिध्य तस्य नित्यत्वं, निरवद्यत्वं सर्वदा सर्वज्ञत्वं, सत्यसङ्कल्पत्वं, करणाधिपाधिपत्वं, विश्वस्य पतित्वं च प्रतिपाद्य सर्वावस्थयोश्चिदचितोस्तं प्रति शरीरत्वं तस्य चात्मत्वं प्रतिपादितम् ॥

ब्रह्मण एव कार्यत्व-कारणत्वयोर्विवेकः

अतस्सर्वदा चिदचिद्वस्तुतया तत्प्रकारं ब्रह्म। तत्कदाचित्स्वस्माद्विभक्त-व्यपदेशानर्हातिसूक्ष्मदशापन्नचिदचिद्वस्तु शरीरं तिष्ठति; तत्कारणावस्थं ब्रह्म। कदाचिच्च विभक्तनामरूपस्थूलचिदचिद्वस्तुशरीरम्; तच्च कार्यावस्थम्। तत्र कारणावस्थस्य कार्यावस्थापत्तौ अचिदंशस्य कारणावस्थायां शब्दादिविहीनस्य भोग्यत्वाय शब्दादिमत्तया स्वरूपान्यथा-भावरूपविकारो भवति। चिदंशस्य च कर्मफलविशेषभोक्तृत्वाय तदनुरूपज्ञानविकासरूपविकारो भवति। उभयप्रकारविशिष्टे नियन्त्रंशे तदवस्थतदुभय-विशिष्टतारूपविकारो भवति ॥

ब्रह्मणः कार्यत्वप्रकारविवेचनम्

कारणावस्थाया अवस्थान्तरापत्तिरूपो विकारः प्रकारद्वये प्रकारिणि च समानः। अत एवैकस्यावस्थान्तरापत्तिरूपविकारापेक्षया येनाश्रुतं श्रुतम् (छा.६.१.३) इत्येकविज्ञानेन सर्वविज्ञानं प्रतिज्ञाय मृदादिदृष्टान्तो यथा सोम्यैकेन (छां.६-१-४) इत्यादिना निदर्शितः ॥

उत्पत्त्यनुत्पत्त्यादिपरश्रुतिविषयविभागः

ईदृशज्ञानसङ्कोचविकासकरतत्तद्देहसम्बन्धवियोगाभिप्रायाः जीवस्योत्पत्तिमरणवादिन्यः, प्रजापतिः प्रजा असृजत (तै.यजु.अष्ट-२) इत्याद्याः श्रुतयः। अचिदंशवत्स्वरूपान्यथात्वाभावाभिप्राया उत्पत्तिप्रतिषेधवादिन्यो नित्यत्ववादिन्यश्च न जायते म्रियते (कठ.२.१८) इत्याद्याः, नित्यो नित्यानाम् (श्वेत.६.१३) इत्याद्याश्च श्रुतयः ।

स्वरूपान्यथात्वज्ञानसङ्कोचविकासरूपोभयविधानिष्टविकाराभावाभिप्रायाः स वा एष महानज आत्माऽजरोऽमरोऽमृतो ब्रह्म (बृह.६.४.२५) नित्यो नित्यानाम् (श्वे.६.१३) इत्याद्याः परविषयाः श्रुतयः।

सदा विशिष्टस्याऽपि ब्रह्मणः, प्राक् सृष्टेरेकत्वोपपत्तिः

एवं सर्वदा चिदचिद्वस्तुविशिष्टस्य ब्रह्मणः प्राक्सृष्टेरेकत्वावधारणं च नामरूपविभागाभावादुपपद्यते।

तद्धेदं तह्यव्याकृतमासीत् तन्नामरूपाभ्यां व्याक्रियत (बृह.३.४.७) इति हि नामरूपविभाग-भावाभावाभ्यां नानात्वैकत्वे वदति – इति।

अद्वैतकारणत्रयेऽपि एकत्वावधारणनिर्वाहस्य अविशिष्टता

ये त्वविद्योपाधिकं जीवत्वं वदन्ति, ये च पारमार्थिकोपाधिकृतम्, ये च सन्मात्रस्वरूपं ब्रह्म स्वयमेव भोक्तृभोग्यनियन्तृरूपेण त्रिधाऽवस्थितं वदन्ति; सर्वेऽप्येते अविद्याशक्तेरुपाधिशक्तेर्भोक्तृभोग्यनियन्तृशक्तीनां च प्रलयकालेऽवस्थानेऽपि तदानीमेकत्वावधारणं नामरूपविभागाभावादेव उपपादयन्ति । वैषम्यनैर्घृण्ये न सापेक्षत्वात् (ब्र.सू.२.१.३४) न कर्माविभागादितिचेन्नानादित्वादुपपद्यते चाप्युलभ्यते च (ब्र.सू.२.१.३५) इति सूत्राभ्यां जीवभेदस्य तत्कर्मप्रवाहस्य चानादित्वाभ्युपगमाच्च।

विशिष्टाद्वैतिनां त्रिविधाद्वैतिनां च विशेषः

इयान्विशेषः – एकस्यानाद्यविद्यया ब्रह्म स्वयमेव मुह्यति, अन्यस्य पारमार्थिकानाद्युपाधिना ब्रह्मस्वरूपमेव बध्यते, उपाधिब्रह्मव्यतिरिक्तवस्त्वन्तराभावात्। अपरस्य ब्रह्मैव विचित्राकारेण परिणमते, कर्मफलानि चानिष्टानि भुङ्क्ते नियन्त्रंशस्य भोक्तृत्वाभावेऽपि सर्वज्ञत्वात्स्वस्मादभिन्नं भोक्तारमनुसंदधातीति स्वयमेव भुङ्क्ते, अस्माकं तु स्थूलसूक्ष्मावस्थ-चिदचिद्वस्तुशरीरं ब्रह्म कार्यकारणोभयावस्थावस्थितमपि सर्वदा निरस्तनिखिलदोषगन्धं सत्यसङ्कल्पत्वाद्यपरिमितोदार-गुणसागरमवतिष्ठते। प्रकारभूतचिदचित् वस्तुगताः अपुरुषार्थाः स्वरूपान्यथाभावाश्चेति सर्वं समञ्जसम्॥१८॥

इति श्रीशारीरकमीमांसाभाष्ये आत्माधिकरणम्॥३॥