श्रीशारीरकमीमांसाभाष्ये प्रयोजनवत्त्वाधिकरणम्॥१०॥
अधिकरणार्थः
ब्रह्मणः अवाप्तसमस्तकामस्यापि, लीलार्थं सर्वजगत्स्रष्टृत्वोपपत्तिः
आप्तसमस्तकामस्य भगवतः जगत्सृष्टेः प्रयोजनाभावः
अतश्च जगत्कारणत्वानुपपत्तिः
१७०. न प्रयोजनवत्त्वात् ॥ २–१–३२ ॥
यद्यपीश्वरः प्राक्सृष्टेरेक एव सन् सकलेतरविलक्षणत्वेन सर्वार्थशक्तियुक्तः स्वयमेव विचित्रं जगत्स्रष्टुं शक्नोति, तथापीश्वरकारणत्वं न सम्भवति, प्रयोजनवत्त्वाद्विचित्रसृष्टेः, ईश्वरस्य च प्रयोजनाभावात्। बुद्धिपूर्वकारिणामारम्भे द्विविधं हि प्रयोजनं – स्वार्थः परार्थो वा। न हि परस्य ब्रह्मणस्स्वभावत एवावाप्तसमस्तकामस्य जगत्सर्गेण किञ्चन प्रयोजनमनवाप्तमवाप्यते। नापि परार्थः, अवाप्तकामस्य परार्थता हि परानुग्रहेण भवति; न च ईदृशगर्भजन्मजरामरणनरकादि-नानाविधानन्तदुःखमूलं जगत्करुणावान् सृजति; प्रत्युत सुखैकतानमेव जनयेज्जगत्करुणया सृजन्। अतः प्रयोजनाभावाद्ब्रह्मणः कारणत्वं नोपपद्यत इति॥३२॥
लीलारूपं प्रयोजनं निमित्तीकृत्य ब्रह्मणो जगत्कारणत्वसिद्धान्तः
एवं प्राप्ते प्रचक्ष्महे –
१७१. लोकवत्तु लीलाकैवल्यम् ॥ २–१–३३ ॥
अवाप्तसमस्तकामस्य परिपूर्णस्य स्वसङ्कल्पविकार्यविविधविचित्रचिदचिन्मिश्रजगत्सर्गे लीलैव केवला प्रयोजनाम्, लोकवत् – यथा लोके सप्तद्वीपामेव मेदिनीमधितिष्ठतः संपूर्णशौर्यवीर्यपरामक्रस्यापि महाराजस्य केवललीलैकप्रयोजनाः कन्तुकाद्यारम्भा दृश्यन्ते; तथैव परस्यापि ब्रह्मणः स्वसङ्कल्पमात्रावकॢप्तजगज्जन्मस्थितिध्वंसादेर्लीलैव प्रयोजनमिति निरवद्यम्॥३३॥
परमात्मनः सृष्टि वैविध्यनिबन्धनपक्षपातित्व-निर्दयत्वयोः शङ्का-परिहारौ
१७२. वैषम्यनैर्घ्रृण्ये न सापेक्षत्वात्तथा हि दर्शयति ॥ २–१–३४ ॥
यद्यपि परमपुरुषस्य सकलेतरचिदचिद्वस्तुविलक्षणस्याचिन्त्यशक्तियोगात्प्राक्सृष्टेरेकस्य निरवयवस्यापि विचित्रचिदचिन्मिश्रजगत्सृष्टिस्सम्भाव्येत, तथापि देवतिर्यङ्मनुष्यस्थावरात्मनः उत्कृष्टमध्यमापकृष्टसृष्ट्या पक्षपातः प्रसज्येत। अतिघोरदुःखयोगकरणात् नैर्घ्रृण्यं चावर्जनीयमिति। तत्रोत्तरं – न सापेक्षत्वादिति; न प्रसज्येयातां वैषम्यनैर्घृण्ये, कुतः सापेक्षत्वात् – सृज्यमानदेवादिक्षेत्रज्ञकर्मसापेक्षत्वात् विषमसृष्टेः। देवादीनां क्षेत्रज्ञानां देवादिशरीरयोगं तत्तत्कर्मसापेक्षं दर्शयन्ति हि श्रुतिस्मृतयः – साधुकारी साधुर्भवति पापकारी पापो भवति पुण्यः पुण्येन कर्मणा भवति पापः पापेन कर्मणा, (बृ.६.४.५) तथा भगवता पराशरेणापि देवादिवैचित्र्यहेतुः सृज्यमानानां क्षेत्रज्ञानां प्राचीनकर्मशक्तिरेवेत्युक्तं – निमित्तमात्रमेवासौ सृज्यानां सर्गकर्मणि। प्रधानकारणीभूता यतो वै सृज्यशक्तयः॥ निमित्तमात्रं मुक्त्वैव नान्यत्किंचिदपेक्षते। नीयते तपतां श्रेष्ठ स्वशक्त्या वस्तु वस्तुताम् (वि.पु.१.४.५१,५२) इति। स्वशक्त्या स्वकर्मणैव देवादिवस्तुताप्राप्तिरिति॥ ३४॥
सृष्टेः पूर्वं जीवानामेवाभावात् सृष्टिवैषम्यप्रयोजककर्माभावशङ्का-परिहारौ
१७३. न कर्माविभागादिति चेन्नानादित्वादुपपद्यते चाप्युलभ्यते च ॥ २–१–३५ ॥
प्राक्सृष्टेः क्षेत्रज्ञा न सन्ति; कुतः? अविभागश्रवणात्, सदेव सोम्येदमग्र आसीत् (छा.६.२.१) इति । अतस्तदानीं तदभावात्तत्कर्म न विद्यते; कथं तदपेक्षं सृष्टिवैषम्यमित्युच्यत इति चेत् – न, अनादित्वात् क्षेत्रज्ञानां तत्कर्मप्रवाहाणां च। तदनादित्वेऽप्यविभाग उपपद्यते च; यतस्तत् क्षेत्रज्ञवस्तु परित्यक्तनामरूपं ब्रह्मशरीरतयापि पृथग्व्यपदेशानर्हामतिसूक्ष्मम् । तथाऽनभ्युपगमे अकृताभ्यागमकृतविप्रणाशप्रसङ्गश्च । उपलभ्यते च तेषामनादित्वं – न जायते म्रियते वा विपश्चित् (कठ.१.२.१८) इति। सृष्टिप्रवाहानादित्वं च सूर्याचन्द्रमसौ धाता यथापूर्वमकल्पयत् (तै.ना.१.१४) इत्यादौ। तद्धेदं तर्ह्यव्याकृतमासीत्तन्नामरूपाभ्यां व्याक्रियत (बृ.३-४-७) इति नामरूपव्याकरणमात्रश्रवणात् क्षेत्रज्ञानां स्वरूपानादित्वं सिद्धम्। स्मृतावपि प्रकृतिं पुरुषं चैव विद्ध्यनादी उभावपि (भ.गी.१३.१९) इति। अतस्सर्वविलक्षणत्वात्सर्वशक्तित्वात्, लीलैकप्रयोजनत्वात्, क्षेत्रज्ञकर्मानुगण्येन विचित्रसृष्टियोगात् ब्रह्मैव जगत्कारणम् ॥ ३५॥
ब्रह्मणो जगत्कारणत्वे निर्दुष्टतया सर्वार्थोपपन्नता
१७४. सर्वधर्मोपपत्तेश्च ॥ २–१–३६ ॥
प्रधानपरमाण्वादीनां कारणत्वे यद्धर्मवैकल्यमुक्तं, वक्ष्यमाणं च, तस्य सर्वस्य धर्मजातस्य कारणत्वोपपादिनो ब्रह्मण्युपपत्तेश्च ब्रह्मैव जगत्कारणमिति स्थितम्॥ ६३॥
इति श्रीशारीरकमीमांसाभाष्ये प्रयोजनवत्त्वाधिकरणम्॥१०॥
इति श्रीभगवद्रामानुजविरचिते शारीरकमीमांसाभाष्ये द्वितीयस्याध्यायस्य प्रथमःपादः॥१॥