श्रीशारीरकमीमांसाभाष्ये कृत्स्नप्रसक्त्यधिकरणम्॥९॥
अधिकरणार्थः
ब्रह्मणो निरवयवस्यापि जगत्कारणतायाः श्रुतिप्रतिपन्नतया नाऽसाङ्गत्यम्
१६४. कृत्स्नप्रसिक्तिर्निरवयवत्वशब्दकोपो वा ॥ २–१–२६ ॥
श्रुतिभिः ब्रह्मणि निरवयवत्वरूपैकत्वप्रतिपादनम्
सदेव सोम्येदमग्र आसीत् (छा.६.२.१) इदं वा अग्रे नैव किञ्चनासीत् (तै.यजु.२.अष्ट.२.५) आत्मा वा इदमेक एवाग्र आसीत् (ऐत.१.१.१) इत्यादिषु कारणावस्थायां ब्रह्मैकमेव निरवयवमासीदिति कारणावस्थायां निरस्तचिदचिद्विभागतया निरवयवं ब्रह्मैवासीदित्युक्तम्; तदविभागमेकं निरवयमेव ब्रह्म बहु स्याम् (छां.६२.३) इति सङ्कल्प्य आकाशवाय्वादिविभागं ब्रह्मादिस्तम्बपर्यन्तक्षेत्रज्ञविभागं चाभवदिति चोक्तम् ॥
कृत्स्नैकदेशविकल्पतः, ब्रह्मणो जगत्कारणत्वानुपपत्तिशङ्का
एवं सति तदेव परं ब्रह्म कृत्स्नं कार्यत्वेनोपयुक्तमित्यभ्युपगन्तव्यम्। अथ चिदंशः क्षेत्रज्ञविभागविभक्तः; अचिदंशश्चाकाशादिविभागविभक्तः इत्युच्यते, तदा सदेव सोम्येदमग्र आसीत् एकमेवाद्वितीयम् (छां.६.२.१) ब्रह्मैकमेव, आत्मैक एव इत्येवमादयः कारणभूतस्य ब्रह्मणो निरवयवत्ववादिनश्शब्दाः कुप्येयुः – बाधिता भवेयुः। यद्यपि सूक्ष्मचिदचिद्वस्तुशरीरं ब्रह्म कारणम्, स्थूलचिदचिद्वस्तुशरीरं ब्रह्म कार्यमित्यभ्युपगम्यते; तथापि शरीर्यंशस्यापि कार्यत्वाभ्युपगमादुक्तदोषो दुर्वारः। तस्य निरवयवस्य बहुभवनं च नोपपद्यते। कार्यत्वानुपयुक्तांशस्थितिश्च नोपपद्यते। तस्मादसमञ्जसमिवाभाति। अतो ब्रह्मकारणत्वं नोपपद्यते ॥२६॥
श्रुत्यैकगम्यस्यार्थस्य तर्केणाप्रधृष्यता
इत्याक्षिप्ते समाधत्ते –
१६५. श्रुतेस्तु शब्दमूलत्वात् ॥ २–१–२७ ॥
तु शब्द उक्तदोषं व्यावर्तयति। नैवमसामञ्जस्यम्; कुतः? श्रुतेः श्रुतिस्तावन्निरवयवत्वं ब्रह्मणस्ततो विचित्रसर्गं चाह। श्रौतेऽर्थे यथाश्रुति प्रतिपत्तव्यमित्यर्थः। ननु च श्रुतिरपि अग्निना सिञ्चेदितिवत्परस्परान्वयायोग्यमर्थं प्रतिपादयितुं न समर्था; अत आह – शब्दमूलत्वादिति। शब्दैकप्रमाणकत्वेन सकलेतरवस्तुविसजातीयत्वादस्यार्थस्य विचित्रशक्तियोगो न विरुद्ध्यत इति न सामान्यतो दृष्टं साधनं, दूषणं वा अर्हाति ब्रह्म॥२७॥
१६६. आत्मनि चैवं विचित्राश्च हि ॥ २–१–२८ ॥
सामान्यतः अन्यत्र दृष्टस्य अन्यत्र तद्विसजातीये अनारोपणीयता
किञ्च – एवं वस्त्वन्तरसंबन्धिनो धर्मस्य वस्त्वन्तरे चारोपणे सति, अचेतने घटादौ दृष्टा धर्मास्तद्विसजातीये चेतने नित्ये आत्मन्यपि प्रसज्यन्ते। तदप्रसक्तिश्च भावस्वभाववैचित्र्यात् इत्याह – विचित्राश्च हि इति; यथा अग्निजलादीनामन्योन्यविसजातीयानामौष्ण्यादिशक्तयश्च विसजातीया दृश्यन्ते; तद्वल्लोकदृष्टविसजातीये परे ब्रह्मणि तत्रतत्रादृष्टास्सहस्रशः शक्तयः सन्तीति न किञ्चिदनुपपन्नम् ॥
उक्तेऽर्थे पुराणाम्नायवचनोपष्टम्भः
यथोक्तं भगवता पराशरेण – निर्गुणस्याप्रमेयस्य शुद्धस्याप्यमलात्मनः। कथं सर्गादिकर्तृत्वं ब्रह्मणोऽभ्युपगम्यते ॥ (वि.पु.अं.१.३.१) इति सामान्यदृष्ट्या परिचोद्य शक्तयस्सर्वभावानां अचिन्त्यज्ञानगोचराः। यतोऽतो ब्रह्मणस्तास्तु सर्गाद्या भावशक्तयः ॥ भवन्ति तपतां श्रेष्ठ पावकस्य यथोष्णता (वि.पु.२.३) इति। श्रुतिश्च किं स्विद्वनं क उ स वृक्ष आसीद्यतो द्यावापृथिवी निष्टतक्षुः। मनीषिणो मनसा पृच्छतेदुतद्यदध्यतिष्ठद्भुवनानि धारयन्। ब्रह्म वनं ब्रह्म स वृक्ष आसीद्यतो द्यावापृथिवी निष्टतक्षुः। मनीषिणो मनसा विब्रवीमि वो ब्रह्माध्यतिष्ठद्भुवनानि धारयन् (यजु.२.अष्ट.२.७.) इति। सामान्यतो दृष्टं चोद्यं सर्ववस्तुविलक्षणे परे ब्रह्मणि नावतरतीत्यर्थः॥ २८॥
प्रधानादिकारणवादेऽपि निर्वाहदौस्स्थ्यम्
इतश्च
१६७. स्वपक्षदोषाच्च ॥ २–१–२९ ॥
स्वपक्षे – प्रधानादिकारणवादे, लौकिकवस्तुविसजातीयत्वाभावेन प्रधानादेः लोकदृष्टा दोषास्तत्र भवेयुरिति सकलेतरविलक्षणं ब्रह्मैव कारणमभ्युपगन्तव्यम् । प्रधानं च निरवयवम्; तस्य निरवयवस्य कथमिव महदादिविचित्रजगदारम्भ उपपद्यते । सत्त्वं रजस्तम इति तस्यावयवा विद्यन्त इति चेत् – तत्रेदं विवेचनीयम्, किं सत्त्वरजस्तमसां समूहः प्रधानम्, उत सत्त्वरजस्तमोभिरारब्धं प्रधानम्;, अनन्तरे कल्पे प्रधानं कारणमिति स्वाभ्युपगमविरोधः। स्वाभ्युपेतसङ्ख्याविरोधश्च। तेषामपि निरवयवानां कार्यारम्भविरोधश्च। समूहपक्षे च तेषां निरवयवत्वेन प्रदेशभेदमनपेक्ष्य संयुज्यमानानां न स्थूलद्रव्यारम्भकत्वसिद्धिः। परमाणुकारणवादेऽपि तथैव अणवो निरंशाः निष्प्रदेशाः प्रदेशभेदमनपेक्ष्य परस्परं संयुज्यमाना अपि न स्थूलकार्यारम्भाय प्रभवेयुः॥ २९ ॥
परमात्मनः स्वेतरसमस्तवैजात्येन सर्वशक्तिमत्वेन च श्रुतितः सिद्धिः
१६८. सर्वोपेता च तद्दर्शनात् ॥ २–१–३० ॥
सकलेतरवस्तुविसजातीया परा देवता सर्वशक्त्युपेता च। तथैव परां देवतां दर्शयन्ति हि श्रुतयः- पराऽस्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च (श्वे.६.७) तथा अपहतपाप्मा विजरो विमृत्युर्विशोको विजिघत्सोऽपिपासः (छा.८.१.५) इति सकलेतर-विसजातीयतां परस्या देवतायाः प्रतिपाद्य सत्यकामस्सत्यसङ्कल्पः (छा.८.१.५) इति सर्वशक्तियोगं प्रतिपादयन्ति। तथा मनोमयः प्राणशरीरो भारूपस्सत्यसङ्कल्प आकाशात्मा सर्वकर्मा सर्वकामस्सर्वगन्धस्सर्वरसः सर्वमिदमभ्यात्तोऽवाक्यनारदरः (छा.३.१४.२) इति च॥ ३०॥
देहेन्द्रियादिविरहिणोऽपि ब्रह्मणः श्रुतिसिद्धकारणत्वाविरोधः
१६९. विकरणत्वान्नेति चेत्तदुक्तम्।२–१–३१॥
यद्यप्येकमेव ब्रह्म सकलेतरिवलक्षणं सर्वशक्ति; तथापि न तस्य कार्यं करणं च विद्यते (श्वे.६-८) इति करणविरहिणस्तस्य न कार्यारम्भस्सम्भवतीति चेत् – तत्रोत्तरं – शब्दमूलत्वात्, विचत्राश्च हि इत्युक्तम्। शब्दैकप्रमाणं सकलेतरिवलक्षणं तत्तत्करणविरहेणापि तत्तकार्यसमर्थमित्यर्थः। तथाच श्रुतिः – पश्यत्यचक्षुस्स शृणोत्यकर्णः अपाणिपादो जवनो ग्रहीता (श्वे.३-१६) इत्येवमाद्या॥३१॥
इति श्रीशारीरकमीमांसाभाष्ये कृत्स्नप्रसक्त्यधिकरणम्॥ ९॥