श्रीभाष्यम् 02-02-08 उत्पत्त्यसम्भवाधिकरणम्

श्रीशारीरकमीमांसाभाष्ये उत्पत्त्यसम्भवाधिकरणम्॥८॥

अधिकरणार्थः

जीवोत्पत्तिवादशङ्कितपाञ्चरात्राप्रामाण्यनिरासः

२१३. उत्पत्यसम्भवात् ॥ २–२–३९ ॥

अवान्तरसङ्गतिः

कपिलादितन्त्रसामान्याद्भगवदभिहितपरमनिश्श्रेयससाधनावबोधिनि पञ्चरात्रतन्त्रेऽपि अप्रामाण्यमाशङ्क्य निराक्रियते;

प्रकृताधिकरणारम्भोपयोगिनी आशङ्का

तत्रैवमाशङ्कते – परमकारणात्परब्रह्म भूताद्वासुदेवात्सङ्कर्षणो नाम जीवो जायते सङ्कर्षणात्प्रद्युम्नसंज्ञं मनो जायते तस्मादनिरुद्धसंज्ञोऽहङ्कारो जायते (परमसंहिता) इति हि भागवतप्रक्रिया। अत्र जीवस्योत्पत्तिः श्रुतिविरुद्धा प्रतीयते; श्रुतयो हि जीवस्यानादित्वं वदन्ति – न जायते म्रियते वा विपश्चित् (कठ.२.१८) इत्याद्याः॥ ३९॥

२१४. न च कर्तुः करणम् ॥ २–२–४०॥

जीवात् मनस उत्पत्तिवादस्य असाधुता

सङ्कर्षणात्प्रद्युम्नसंज्ञं मनो जायते (परमसंहिता) इति कर्तुः जीवात्, करणस्य मनस उत्पत्तिर्न सम्भवति, – एतस्माज्जायते प्राणो मनस्सर्वेन्द्रियाणि च (मु.२.१.३) इति परस्मादेव ब्रह्मणो मनसोऽप्युत्पत्तिश्रुतेः। अतः श्रुतिवरुद्धार्थप्रतिपादनादस्यापि तन्त्रस्य प्रामाण्यं प्रतिषिद्ध्यत इति॥४०॥

जीवोत्पत्तिवादादितात्पर्यव्यक्तीकरणेन सिद्धान्तः

एवं प्राप्ते प्रचक्ष्महे

२१५. विज्ञानादिभावे वा तदप्रतिषेधः ॥ २–२–४१ ॥

वाशब्दात्पक्षो विपरिवर्तते; विज्ञानं चादि चेति परब्रह्म विज्ञानादि। सङ्कर्षणप्रद्युम्नानिरुद्धानामपि परब्रह्मभावे सति तत्प्रतिपादनपरस्य शास्त्रस्य प्रामाण्यं न प्रतिषिध्यते। एतदुक्तं भवति – भागवतप्रक्रियामजनतामिदं चोद्यं – यज्जीवोत्पत्तिर्विरुद्धाऽभिहिता इति । वासुदेवाख्यं परं ब्रह्मैवाश्रितवत्सलं स्वाश्रितसमाश्रयणीयत्वाय स्वेच्छया चतुर्धाऽवतिष्ठत इति हि तत्प्रक्रिया। यथा पौष्करसंहितायां – कर्तव्यत्वेन वै यत्र चातुरात्म्यमुपास्यते। क्रमागतैस्स्वसंज्ञाभिः ब्राह्मणैरागमं तु तत् (पौ.सं) इत्यादि। तच्च चातुरात्म्योपासनं वासुदेवाख्यपरब्रह्मोपासनमिति सात्त्वतसंहितायामुक्तं – ब्राह्मणानां हि सद्ब्रह्मवासुदेवाख्ययाजिनाम् । विवेकदं परं शास्त्रं ब्रह्मोपिनषदं महत् (सा.सं)) इति। तद्धि वासुदेवाख्यं परं ब्रह्म सम्पूर्णषाङ्गुण्यवपुः सूक्ष्मव्यूहविभवभेदभिन्नं यथाधिकारं भक्तैः ज्ञानपूर्वेण कर्मणा अभ्यर्चितं सम्यक्प्राप्यते। विभवार्चनाद्व्यूहं प्राप्य व्यूहार्चनात्परं ब्रह्म वासुदेवाख्यं सूक्ष्मं प्राप्यत इति वदन्ति। विभवो हि नाम रामकृष्णादिप्रादुर्भावगणः। व्यूहो वासुदेवसङ्कर्षणप्रद्युम्नानिरुद्धरूपश्चतुर्व्यूहः। सूक्ष्मं तु केवलषाड्गुण्यविग्रहं वासुदेवाख्यं पर ब्रह्म। यथा पौष्करे – यस्मात्सम्यक्परं ब्रह्म वासुदेवाख्यमव्ययम् । अस्मादवाप्यते शास्त्रात् ज्ञानपूर्वेण कर्मणा (पौ.सं) इत्यादि। अतः सङ्कर्षणादीनामपि परस्यैव ब्रह्मणः स्वेच्छाविग्रहरूपत्वात् – अजायमानो बहुधा विजायते (पु.सू) इति श्रुतिसिद्धस्यैवाश्रितवात्सल्यनिमित्तस्वेच्छाविग्रहसंग्रहरूपजन्मनोऽभिधानात्तदभिधायिशास्त्र- प्रामाण्यस्याप्रतिषेधः – इति। तत्र जीवमनोऽहङ्कारतत्त्वानामधिष्ठातारः सङ्कर्षणप्रद्युम्नानिरुद्धा इति तेषामेव जीवादिशब्दैरभिधानमविरुद्धम्; यथा आकाशप्राणादिशब्दैर्ब्रह्मणोऽभिधानम् ॥४१॥

जीवोत्पत्तिवादस्य उक्ततात्पर्यनिर्णये एतत्तन्त्रोक्तस्य जीवोत्पत्तिनिषेधवादस्य उपष्टम्भकता

२१६. विप्रतिषेधाच्च ॥ २–२–४२ ॥

विप्रतिषिद्धा हि जीवोत्पत्तिस्तस्मिन्नपि तन्त्रे; यथोक्तं परमसंहितायाम्, अचेतना परार्था च नित्या सततविक्रिया। त्रिगुणा कर्मिणां क्षेत्रं प्रकृते रूपमुच्यते॥ व्याप्तिरूपेण सम्बन्धस्तस्याश्च पुरुषस्य च। स ह्यनादिरनन्तश्च परमार्थेन निश्चितः (परमसंहिता) इति। एवं सर्वास्वपि संहितासु जीवस्य नित्यत्ववचनाज्जीवस्वरूपोत्पत्तिः पञ्चरात्रतन्त्रे प्रतिषिद्धैव। जन्ममरणादिव्यवहारस्तु लोकवेदयोर्जीवस्य यथोपपद्यते, तथा नात्माश्रुतेः (ब्र.सू.२.३.१८) इत्यत्र वक्ष्यते। अतो जीवस्योत्पत्तिस्तत्रापि प्रतिषद्धैवेति जीवोत्पत्तिवादनिमित्ताप्रामाण्यशङ्का दूरोत्सारिता।

शाण्डिल्यस्य वेदेषु निष्ठाया अलाभोक्तेस्तात्पर्यचिन्ता

यश्चैष केषाञ्जिदुद्घोषः साङ्गेषु वेदेषु निष्ठामलभमानः शाण्डिल्यः पञ्चरात्रशास्त्रमधीतवान् इति । साङ्गेषु वेदेषु पुरुषार्थनिष्ठा न लब्धेति वचनाद्वेदविरुद्धमेवेदं तन्त्रम् इति, साऽप्यनाघ्रातवेदवचसामानाकलिततदुपबृंहणन्यायकलापानां श्रद्धामात्रविजृम्भितः; यथा – प्रातःप्रातरनृतं ते वदन्ति पुरोदयाज्जुह्वति येऽग्निहोत्रम् (ऐ.ब्रा) इति अनुदितहोमनिन्दा उदितहोमप्रशंसार्थेत्युक्तम्; यथा च भूमविद्याप्रक्रमे नारदेन – ऋग्वेदं भगवोऽध्येमि यजुर्वेदं सामवेदमाथर्वणं चतुर्थमितिहासपुराणं पञ्चमम् (छा.७.१.२) इत्यारभ्य सर्वं विद्यास्थानमभिधाय सोऽहं भगवो मन्त्रविदेवास्मि नात्मवित् (छां.७.१.३) इति भूमविद्याव्यतिरिक्तासु सर्वासु विद्यास्वात्मवेदनालाभवचनं वक्ष्यमाणभूमविद्याप्रशंसार्थं कृतम्; अथवा अस्य नारदस्य साङ्गेषु वेदेषु यत्परतत्त्वं प्रतिपाद्यते, तदलाभनिमित्तोऽयं वादः; एवमेव शाण्डिल्यस्येति पश्चाद्वेदान्तवेद्यवासुदेवाख्यपरब्रह्मतत्त्वाभिधानादवगम्यते।

दुर्ज्ञानस्य वेदार्थस्य सुखावबोधाय पाञ्चरात्रारम्भः

तथा वेदार्थस्य दुर्ज्ञानतया सुखावबोधार्थश्शास्त्रारम्भः परमसंहितायामुच्यते अधीता भगवन् वेदाः साङ्गोपाङ्गास्सविस्तराः। श्रुतानि च मयाऽङ्गानि वाकोवाक्ययुतानि च। नचैतेषु समस्तेषु संशयेन विना क्वचित्। श्रेयोमार्गं प्रपश्यामि येन सिद्धिर्भवष्यति इति, (पाञ्चरात्रम्) वेदान्तेषु यथा सारं संगृह्यभगवान् हरिः। भक्तानुकम्पया विद्वान् सञ्चिक्षेप यथासुखम् (पाञ्चरात्रम्) इति च।

पाञ्चरात्रतन्त्रप्रणयने भगवतस्तात्पर्यम्

अतस्स भगवान्वेदैकवेद्यः परब्रह्माभिधानो वासुदेवो निखिलहेयप्रत्यनीककल्याणैकतान-अनन्तज्ञानानन्दाद्यपरिमितोदारगुणसागरस्सत्यसङ्कल्पः चातुर्वर्ण्यचातुराश्रम्यव्यवस्थया अवस्थितान् धर्मार्थकाममोक्षाख्यपुरुषार्थाभिमुखान् भक्तानवलोक्यापारकारुण्यसौशील्यवात्सल्यौदार्य-महोदधिः स्वस्वरूपस्वविभूतिस्वाराधनतत्फलयाथात्म्यावबोधिनो वेदान् ऋग्यजुस्सामाथर्वभेद-भिन्नान् अपरिमितशाखान् विध्यर्थवादमन्त्ररूपान् स्वेतरसकलसुरनरदुरवगाहांश्चावधार्य तदर्थ-याथात्म्यावबोधि पञ्चरात्रशास्त्रं स्वयमेव निरमिमीतेति निरवद्यम्॥

परकीये व्याख्याने सूत्राक्षराननुगुणता – तद्विरोधश्च

यत्तु – परैस्सूत्रचतुष्टयं कस्यचिद्विरुद्धांशस्य प्रामाण्यनिषेधपरं व्याख्यातम्; तत्सूत्राक्षराननुगुणम्, सूत्रकाराभिप्रायविरुद्धञ्च। तथाहि – सूत्रकारेण वेदान्तन्यायाभिधायीनि सूत्राण्यभिधाय वेदोपबृंहणाय च भारतसंहितां शतसहस्रिकां कुर्वता मोक्षधर्मे ज्ञानकाण्डेऽभिहितं,

पाञ्चरात्रप्रामाण्यस्थापकमहाभारतवचनादि

गृहस्थो ब्रह्मचारी च वानप्रस्थोऽथ भिक्षुकः। य इच्छेत्सिद्धमास्थातुं देवतां कां यजेत सः (म.भा.शा.मोक्ष.३३५.१) इत्यारभ्य महता प्रबन्धेन पञ्चरात्रशास्त्रप्रक्रियां प्रतिपाद्य इदं शतसहस्रादि भारताख्यानविस्तरात्। आविध्य मतिमन्थानं दध्नो घृतमिवोद्धृतम्। नवनीतं यथा दध्नो द्विपदां ब्राह्मणो यथा। आरण्यकं च वेदेभ्यः ओषधीभ्यो यथाऽमृतम् (म.भा.शा.मोक्ष.३४०.१११) इदं महोपनिषदं चतुर्वेदसमन्वितम्। साङ्ख्ययोगकृतान्तेन पञ्चरात्रानुशब्दितम् (म.भा.शा.मोक्ष.३४०.१११) इदं श्रेय इदं ब्रह्म इदं हितमनुत्तमम्। ऋग्यजुस्सामभिर्जुष्टमथर्वाङ्गिरसैस्तथा ॥ भविष्यति प्रमाणं वै एतदेवानुशासनम् (म.भा.शा.मोक्ष.३३६-३२) इति। साङ्ख्ययोगशब्दाभ्यां ज्ञानयोगकर्मयोगावभिहितौ; यथोक्तं -ज्ञानयोगेन साङ्ख्यानां कर्मयोगेन योगिनाम् (भ.गी.३.३) इति। भीष्मपर्वण्यपि – ब्राह्मणैः क्षत्रियैर्वैश्यैः शूद्रैश्च कृतलक्षणैः। अर्चनीयश्च सेव्यश्च पूजनीयश्च माधवः। सात्त्वतं विधिमास्थाय गीतस्सङ्कर्षणेन यः (म.भा.शा.मोक्ष.३६-३९,४०) इति। कथमेवं ब्रुवाणो बादरायणो वेदविदग्रेसरो वेदान्तवेद्यपरब्रह्मभूतवासुदेवोपासनार्चनादिप्रतिपादनपरस्य सात्त्वतशास्त्रस्याप्रामाण्यं ब्रूयात्।

महाभारतप्रशंसायाः अनैकान्त्यशङ्कासमाधाने

ननु च साङ्ख्यं योगः पञ्चरात्रं वेदाः पाशुपतं तथा। किमेतान्येकनिष्ठानि पृथङ्निष्ठानि वा मुने ॥ (म.भा.शा.मोक्ष.३५०-१,२) इत्यादिना साङ्ख्यादीनामप्यादरणीयतोच्यते; शारीरके तु साङ्ख्यादीनि प्रतिषिध्यन्ते; अत इदमपि तन्त्रं तत्तुल्यम्; नेत्युच्यते, यतस्तत्रापीममेव शारीरकोक्तं न्यायमवतारयति; किमेतान्येकनिष्ठानि पृथङ्निष्ठानि वा इति प्रश्नस्यायमर्थः -किं साङ्ख्ययोगपाशुपतवेदपञ्चरात्राण्येकतत्त्वप्रतिपादनपराणि, पृथक्तत्त्वप्रतिपादनपराणि वा; यदैकतत्त्वप्रतिपादनपराणि; किं तदेकं तत्त्वम्; यदा तु पृथक्तत्त्वप्रतिपादनपराणि, तदैषां परस्परं विरुद्धार्थप्रतिपादनपरत्वाद्वस्तुनि विकल्पासम्भवाच्चैकमेव प्रमाणमङ्गीकरणीयम्, कि तदेकम् – इति। अस्योत्तरं ब्रूवन् ज्ञानान्येतानि राजर्षे विद्धि नानामतानि वै। साङ्ख्यस्य वक्ता कपिलः (म.भा.शा.मो.३५०.६३,६४) इत्यारभ्य साङ्ख्ययोगपाशुपतानां कपिलहिरण्यगर्भपशुपतिकृतत्वेन पौरुषेयत्वं प्रतिपाद्य अवान्तरतपा नाम वेदाचार्यस्स उच्यते (म.भा.शा.मो.३५०.६५) इति वेदानामपौरुषेयत्वमभिधाय पञ्चरात्रस्य कृत्स्नस्य वक्ता नारायणस्स्वयम् (म.भा.शा.मो.३५०-६७) इति पञ्चरात्रतन्त्रस्य वक्ता नारायणः स्वयमेवेत्युक्तवान् ।

वक्ता नारायणस्स्वयम् इत्यस्याशयाविष्कारः

एवं वदतश्चायमाशयः – पौरुषेयाणां तन्त्राणां परस्परविरुद्धवस्तुवादितया अपौरुषेयत्वेन निरस्तप्रमादादिनिखिलदोषगन्धवेदवेद्यवस्तुविरुद्धाभिधायित्वाच्च यथावस्थितवस्तुनि प्रामाण्यं दुर्लभम्; वेदवेद्यश्च परब्रह्मभूतो नारायणः; अतस्तत्तत्तन्त्राभिहितप्रधानपुरुषपशुपतिप्रभृतितत्त्वस्य वेदान्तवेद्यपरब्रह्मभूतनारायणात्मकतयैव वस्तुत्वमभ्युपगमनीयम् – इति। तदिदमाह च सर्वेषु च नृपश्रेष्ठ ज्ञानेष्वेतेषु दृश्यते । यथागमं यथान्यायं निष्ठा नारायणः प्रभुः (म.भा.शा.मो.३५०.६७,६८) इति। यथागमं यथान्यायम् इति न्यायानुगृहीततत्तदागमोक्तं वस्तु परामृशतो नारायण एव सर्वस्य वस्तुनो निष्ठेति दृश्यते, अब्रह्मात्मकतया तत्तत्तन्त्राभिहितानां तत्त्वानां सर्वं खल्विदं ब्रह्म (छा.३.१४.१) विश्वं नारायणः (तै.नारा.१३) इत्यादिना सर्वस्य ब्रह्मात्मकतामनुसन्दधानस्य नारायण एव निष्ठेति प्रतीयत इत्यर्थः।

उक्तार्थस्य वचनान्तरेण विशदीकरणम्

अतो वेदान्तवेद्यः परब्रह्मभू तो नारायणः स्वयमेव पञ्चरात्रस्य कृत्स्नस्य वक्तेति, तत्स्वरूपतदुपासनाभिधायि तत्तन्त्रमिति च तस्मिन्नितरतन्त्रसामान्यं न केनचिदुद्भायितुं शक्यम्। अतस्तत्रैवेदमुच्यते एवमेकं सांख्ययोगं वेदारण्यकमेव च। परस्पराङ्गान्येतानि पञ्चरात्रं तु कथ्यते (म.भा.शा.मो.३४९.८१) इति। सांख्यं च योगश्च सांख्ययोगम्, वेदाश्चारण्यकानि च वेदारण्यकम्, परस्पराङ्गान्येतानि एकतत्त्वप्रतिपादनपरतयैकीभूतानि एकं पञ्चरात्रमिति कथ्यते।

सर्वस्य पाञ्चरात्रस्य एकत्वोक्तिविशदीकारः

एतदुक्तं भवति – सांख्योक्तानि पञ्चविंशतितत्त्वानि, योगोक्तं च यमनियमाद्यात्मकं योगम्, वेदोदितकर्मस्वरूपाण्यङ्गीकृत्य तत्त्वानां ब्रह्मात्मकत्वं, योगस्य च ब्रह्मोपासनप्रकारत्वं कर्मणां च तदाराधनरूपतामभिदधति, ब्रह्मस्वरूपं प्रतिपादयन्त्यारण्यकानि। एतदेव परेण ब्रह्मणा नारायणेन स्वयमेव पञ्चरात्रतन्त्रे विशदीकृतम् – इति।

शारीरके तन्त्रान्तरनिराकरणस्याशयः

शारीरके च सांख्योक्ततत्त्वानामब्रह्मात्मकतामात्रं निराकृतम्; न स्वरूपम्। योगपाशुपतयोश्चेश्वरस्य केवलनिमित्तकारणता, परावरतत्त्वविपरीतकल्पना, वेदबहिष्कृताचारो निराकृतः; न योगस्वरूपम्, पशुपतिस्वरूपं च। अतः सांख्यं योगः पञ्चरात्रं वेदाः पाशुपतं तथा। आत्मप्रमाणान्येतानि न हन्तव्यानि हेतुभिः (म.भा.शा.मो.३५०.६३) इत्यपि तत्तदभिहिततत्तत्स्वरूपमात्रमङ्गीकार्यम्, जिनसुगताभिहिततत्त्ववत्सर्वं न बहिष्कार्यमित्युच्यते। यथागमं यथान्यायं निष्ठा नारायणः प्रभुः (म.भा.शा.मो.३५०.६८) इत्यनेनैकार्थ्यात् ॥४२॥

इति श्रीशारीरकमीमांसाभाष्ये उत्पत्त्यसम्भवाधिकरणम्॥८॥

पाञ्चरात्राधिकरणम्

इति श्रीभगवद्रामानुजविरचिते शारीरकमीमांसाभाष्ये द्वितीयस्याध्यायस्य द्वितीयःपादः॥२॥