श्रीभाष्यम् 02-01-07 इतरव्यपदेशाधिकरणम्

श्रीशारीरकमीमांसाभाष्ये इतरव्यपदेशाधिकरणम्॥७॥

अधिकरणार्थः

जगत्स्रष्टुर्ब्रह्मणः स्वहिताकरणादिदोषप्रसङ्गनिवारणम् सू.21-23

१५९. इतरव्यपदेशाद्धिताकारणादिदोषप्रसक्तिः ॥ २–१–२१ ॥

अवान्तरसङ्गतिः

जगतो ब्रह्मानन्यत्वं प्रतिपादयद्भिः तत्त्वमसि (छा.६.८.७) अयमात्मा ब्रह्म (बृ.६.४.५) इत्यादिभर्जीवस्यापि ब्रह्मानन्यत्वं व्यपदिश्यत इत्युक्तम्।

सूत्राशयविशदीकरणम्

तत्रेदं चोद्यते; यदीतरस्य जीवस्य ब्रह्मभावोऽमीभिर्वाक्यैर्व्यपदिश्यते, तदा ब्रह्मणः सार्वज्ञ्यसत्यसङ्कल्पत्वादियुक्तस्यात्मनो हितरूपजगदकरणमहितरूपजगत्करणमित्यादयो दोषाः प्रसज्येरन्। आध्यात्मिकाधिदैविक- आधिभौतिकानन्तदुःखाकरं चेदं जगत्; न चेदृशे स्वानर्थे स्वाधीनो बुद्धिमान् प्रवर्तते ॥

जीवाद्ब्रह्मणो भेदवादिन्यश्श्रुतयो जगद्ब्रह्मणोरनन्यत्वं वदता त्वयैव परित्यक्ताः, भेदे सत्यनन्यत्वासिद्धेः॥

भास्करमतानुवाद-तद्दूषणे

औपाधिकभेदविषया भेदश्रुतयः स्वाभाविकाभेदविषयाश्चाभेदश्रुतय इतिचेत् –

तत्रेदं वक्तव्यम् – स्वभावतः स्वस्मादभिन्नं जीवं किमनुपहितं जगत्कारणं ब्रह्म जानाति वा, न वा; न जानाति चेत् – सर्वज्ञत्वहानिः; जानाति चेत् – स्वस्मादभिन्नस्य जीवस्य दुःखं स्वदुःखमिति जानतो ब्रह्मणो हिताकरणाहितकरणादिदोषप्रसक्तिरनिवार्या॥

ब्रह्माज्ञानवादिनः अस्मिन्नधिकरणे अनवकाशः

जीवब्रह्मणोरज्ञानकृतो भेदः, तद्विषया भेदश्रुतिरिति चेत् – तत्रापि जीवाज्ञानपक्षे पूर्वोक्तो विकल्पस्तत्फलं च तदवस्थम्। ब्रह्माज्ञानपक्षे स्वप्रकाशस्वरूपस्य ब्रह्मणोऽज्ञानसाक्षित्वं तत्कृतजगत्सृष्टिश्च न सम्भवति। अज्ञानेन प्रकाशस्तिरोहितश्चेत् तिरोधानस्य प्रकाशनिवृत्तिकरत्वेन प्रकाशस्यैव स्वरूपत्वात्स्वरूपनिवृत्तिरेवेति स्वरूपनाशादिदोषसहस्रं प्रागेवोदीरितम् । अत इदमसङ्गतं ब्रह्मणो जगत्कारणत्वम्॥२१॥

श्रुतिभिः ब्रह्मणः जीवार्थान्तरत्वसमर्थनम्

इति प्राप्येऽभिधीयते

१६०. अधिकन्तु भेदनिर्देशात् ॥ २–१–२२ ॥

तु शब्दः पक्षं व्यावर्तयति; आध्यात्मिकादिदुःखयोगार्हात्प्रत्यगात्मनः अधिकं अर्थान्तरभूतं ब्रह्म। कुतः, भेदनिर्देशात् – प्रत्यगात्मनो हि भेदेन निर्दिश्यते परं ब्रह्म – य आत्मनि तिष्ठन्नात्मनोऽन्तरो यमात्मा न वेद यस्यात्मा शरीरं य आत्मानमन्तरो यमयति स त आत्माऽन्तर्याम्यमृतः (बृ.५.७.२२) पृथगात्मानं प्रेरितारं च मत्वा जुष्टस्ततस्तेनामृतत्वमेति (श्वे.१.६) स कारणं करणाधिपाधिपः (श्वे.६.९) तयोरन्यः पिप्पलं स्वाद्वत्ति अनश्नन्नन्यो अभिचाकशीति (श्वे.४.६) ज्ञाज्ञौ द्वावजावीशनीशौ (श्वे.१.९) प्राज्ञेनाऽत्मना सम्परिष्वक्तः (बृ.६.३.२१) प्राज्ञेनात्मनाऽन्वारूढः (बृ.६.३.३५) अस्मान्मायी सृजते विश्वमेतत् तस्मिंश्चान्यो मायया सन्निरुद्धः (श्वे.४.९) प्रधानक्षेत्रज्ञपतिर्गुणेशः (श्वे.६.१६) नित्यो नित्यानां चेतनश्चेतनानामेको बहूनां यो विदधाति कामान् (श्वे.६.१३) योऽव्यक्तमन्तरे सञ्चरन् यस्याव्यक्तं शरीरं यमव्यक्तं न वेद, योऽक्षरमन्तरे सञ्चरन् यस्याक्षरं शरीरं यमक्षरं न वेद एष सर्वभूतान्तरात्माऽपहतपाप्मा दिव्यो देव एको नारायणः (सुबाल.७) इत्यादिभिः॥२२॥

चेतनस्य ब्रह्मभावासाङ्गत्यं वस्तुविरोधात्

१६१. अश्मादिवच्च तदनुपपत्तिः ॥ २–१–२३ ॥

अश्मकाष्ठलोष्टतृणादीनामत्यन्तहेयानां सततविकारास्पदानामचिद्विशेषाणां निरवद्य-निर्विकारनिखिलहेयप्रत्यनीककल्याणैकतानस्वेतरसमस्तवस्तुविलक्षणानन्तज्ञानानन्दैकस्वरूप-नानाविधानन्तमहाविभूति-ब्रह्मस्वरूपैक्यं यथा नोपपद्यते, तथा चेतनस्याप्यनन्तदुःखयोगार्हास्य खद्योतकल्पस्य अपहतपाप्मा (छा.८.१.५) इत्यादिवाक्यावगतसकलहेयप्रत्यनीक-अनवधिकातिशय- असङ्ख्येयकल्याणगुणाकरब्रह्मभावानुपपत्तिः ॥

जीवब्रह्मणोर्भेदेऽपि सामानाधिकरण्यादिनिर्वाहप्रकारः

सामानाधिकरण्यनिर्देशः यस्यात्मा शरीरम् (बृ.५.७.२२) इत्यादिश्रुतेर्जीवस्य ब्रह्मशरीरत्वाद्ब्रह्मणो जीवशरीरतया तदात्मत्वेनावस्थितेर्जीवप्रकारब्रह्मप्रतिपादनपरश्चैतदविरोधी, प्रत्युतैतस्यार्थस्योपपादकश्चेति अवस्थितेरिति काशकृत्स्नः (ब्र.सू.१.४.२२) इत्यादिभिरसकृत् उपपादितम्। अतस्सर्वावस्थं ब्रह्म चिदचिद्वस्तुशरीरमिति सूक्ष्मचिदचिद्वस्तुशरीरं ब्रह्म कारणम्; तदेव ब्रह्म स्थूलचिदचिद्वस्तुशरीरं जगदाख्यं कार्यमिति जगद्ब्रह्मणोः सामानाधिकरण्योपपत्तिः, जगतो ब्रह्मकार्यत्वम्, ब्रह्मणोऽनन्यत्वम्, अचिद्वस्तुनो जीवस्य च ब्रह्मणश्च परिणामित्वदुःखित्वकल्याणगुणाकरत्वस्वभावासङ्करः सर्वश्रुत्यविरोधश्च भवति। सदेव सोम्येदमग्र आसीदेकमेव (छा.६.२.१) इत्यविभागावस्थायामप्यचिद्युक्तजीवस्य ब्रह्मशरीरतया सूक्ष्मरूपेणावस्थानमवश्याभ्युपगन्तव्यम्, वैषम्यनैर्घृण्ये न सापेक्षत्वात् (ब्र.सू.२.१.३४) न कर्माविभागादिति चेन्नानादित्वादुपपद्यते चाप्युपलभ्यते च (ब्र.सू.२.१.३५) इति सूत्रद्वयोदितत्वात्तदानीमपि सूक्ष्मरूपेणावस्थानस्य। अविभागस्तु नामरूपविभागाभावादुपपद्यते। अतो ब्रह्मकारणत्वं सम्भवत्येव।

उक्तसूत्रद्वयस्य परोक्तेऽर्थे असाङ्गत्यम्

ये पुनरस्यैव जीवस्याविद्यावियुक्तावस्थामभिप्रेत्येमं भेदं वर्णयन्ति, तेषामिदं सर्वमसङ्गतं स्यात्; न हि तदवस्थस्य सर्वज्ञत्वं, सर्वेश्वरत्वं, समस्तकारणत्वं, सर्वात्मत्वं, सर्वनियन्तृत्वमित्यादीनि सन्ति। अनेनैव रूपेण ह्याभिः श्रुतिभिः प्रत्यगात्मनो भेदः प्रतिपाद्यते; तस्य सर्वस्याविद्यापरिकल्पितत्वात्। तत्सर्वं ह्यविद्यापरिकल्पितं त्वन्मते। न चाविद्यापरिकल्पितस्याविद्यावस्थायां शुक्तिकारजतादिभेदवत्परस्परभेदोऽत्र सूत्रकारेण अधिकन्तु भेदनिर्देशात् (ब्र.सू.२.१.२२) इत्यादिषु प्रतिपाद्यते; ब्रह्मजिज्ञासा कर्तव्येति जिज्ञास्यतया प्रक्रान्तस्य ब्रह्मणो जगज्जन्मादिकारणस्य वेदान्तवेद्यत्वम्, तस्य च स्मृतिन्यायविरोधपरिहारश्च क्रियते।

अस्मिन्नधिकरणे अधिकं त्विति सूत्रस्य पौनरुक्त्यपरिहारः

अपीतौ तद्वत्प्रसङ्गादसमञ्जसम् (ब्र.सू.२.१.८) न तु दृष्टान्तभावात् (ब्र.सू.२.१.९) इति सूत्रद्वयमेतदधिकरणसिद्धमनुवदति; तत्र हि विलक्षणयोः कार्यकारणभावसम्भव एवाधिकरणार्थः। असदिति चेन्न प्रतिषेधमात्रत्वात् (शारी.२-१-७) इति च पूर्वाधिकरणस्थमनुवदति ॥२३॥

इति श्रीशारीरकमीमांसाभाष्ये इतरव्यपदेशाधिकरणम्॥ ७॥