श्री शारीरकमीमांसाभाष्ये एकस्मिन्नसम्भवाधिकरणम् ॥ ६ ॥
अधिकरणार्थः
आर्हताभ्युपगतानेकान्तवादनिरासः
२०५. नैकस्मिन्नसम्भवात् ॥ २–२–३१ ॥
सङ्गतिप्रदर्शनम्
निरस्तास्सौगताः। जैना अपि परमाणुकारणत्वादिकं जगतो वदन्तीत्यनन्तरं जैनपक्षः प्रतिक्षिप्यते।
आर्हतमतस्य संग्रहेणानुवादः
ते किल मन्यन्ते – जीवाजीवात्मकं जगदेतन्निरीश्वरम्; तच्च षड्द्रव्यात्मकम्। तानि च द्रव्याणि जीवधर्माधर्मपुद्गलकालाकाशाख्यानि। तत्र जीवाः – बद्धाः, योगसिद्धाः, मुक्ताश्चेति त्रिविधाः। धर्मो नाम गतिमतां गतिहेतुभूतो द्रव्यविशेषो जगद्व्यापी। अधर्मश्च स्थितिहेतुभूतो व्यापी। पुद्गलो नाम वर्णगन्धरसस्पर्शवद्द्रव्यम्। तच्च द्विविधम् – परमाणुरूपम्, तत्सङ्घातरूपं च पवनज्वलनसलिलधरणीतनुभुवनादिकम्। कालस्तु अभूदस्तिभविष्यतीति व्यवहारहेतुरणुरूपो द्रव्यविशेषः। आकाशोऽप्येकोऽनन्त-प्रदेशश्च। तेषु चाणुव्यतिरिक्तद्रव्याणि पञ्चास्तिकाया इति च संगृह्यते – जीवास्तिकायः, धर्मास्तिकायः, अधर्मास्तिकायः, पुद्गलास्तिकायः, आकाशास्तिकायः इति । अनेकदेशवर्तिनि द्रव्येऽस्तिकाय शब्दः प्रयुज्यते ।
तत्रैव जीवमोक्षौपयिकार्थसङ्ग्रहः
जीवानां मोक्षोपयोगिनमपरमपि संग्रहं कुर्वन्ति – जीवाजीवास्रवबन्धनिर्जरसंवरमोक्षाः – इति। मोक्षसंग्रहेण मोक्षोपायश्च गृहीतः । स च सम्यग्ज्ञानदर्शनचारित्ररूपः । तत्र जीवस्तु -ज्ञानदर्शनसुखवीर्यगुणः। अजीवश्च जीवभोग्यवस्तुजातम्। आस्रवः तद्भोगोपकरणभूतं इन्द्रियादिकम्। बन्धश्चाष्टविधः – घातिकर्मचतुष्टयमघातिकर्मचतुष्टयं चेति । तत्राद्यं जीवगुणानां स्वाभाविकानां ज्ञानदर्शनवीर्यसुखानां प्रतिघातकरम् । अपरं शरीरसंस्थानतदभिमानतत्स्थिति-तत्प्रयुक्तसुखदुःखोपेक्षाहेतुभूतम्। निर्जरं मोक्षसाधनम् – अर्हादुपदेशावगतं तपः । संवरो नामेन्द्रियनिरोधः समाधिरूपः । मोक्षस्तु निवृत्तरागादिक्लेशस्य स्वाभाविकात्मस्वरूपाविर्भावः।
असाधारणभूतो जैनप्रक्रियाविशेषः
पृथिव्यादिहेतुभूताश्चाणवो वैशेषिकादीनामिव न चतुर्विधाः। अपित्वेकस्वभावाः। पृथिव्यादिभेदस्तु परिणामकृतः । सर्वं च वस्तुजातं सत्त्वासत्त्वनित्यत्वानित्यत्वभिन्नत्व-अभिन्नत्वादिभिः अनैकान्तिकमिच्छन्ति – स्यादस्ति, स्यान्नास्ति, स्यादस्ति च नास्ति च, स्यादवक्तव्यम्, स्यादस्ति चावक्तव्यं च, स्यान्नास्ति चावक्तव्यं च, स्यादस्ति च नास्तिचावक्तव्यं चेति सर्वत्र सप्तभङ्गीनयावतारात्। सर्वं वस्तुजातं द्रव्यपर्यायात्मकमिति द्रव्यात्मना सत्त्वैकत्वनित्यत्वाद्युपपादयन्ति; पर्यायात्मना च तद्विपरीतम्। पर्यायाश्च द्रव्यस्यावस्थाविशेषाः। तेषां च भावाभावरूपत्वात्सत्त्वासत्त्वादिकं सर्वमुपपन्नम् – इति ॥
स्वसिद्धान्तप्रतिपादनस्य जैनमतदूषणम्
अत्राभिधीयते – नैकिस्मन्नसम्भवात् – इति। नैतदुपपद्यते; कुतः? एकस्मिन्नसम्भवात् – एकस्मिन्वस्तुनि अस्तित्वनास्तित्वादेर्विरुद्धस्य छायातपवद् युगपदसम्भवात् । एतदुक्तं भवति – द्रव्यस्य तद्विशेषणभूतपर्यायशब्दाभिधेयावस्थाविशेषस्य च पृथक्पदार्थत्वान्नैकस्मिन् विरुद्धधर्म- समावेशस्सम्भवति – इति।
असम्भवोपपादनम्
तथाहि – एकेन अस्तित्वादिनाऽवस्थाविशेषेण विशिष्टस्य तदानीमेव न तद्विपरीतनास्तित्वादिविशिष्टत्वं सम्भवति। उत्पत्तिविनाशाख्यपरिणामविशेषास्पदत्वं च द्रव्यस्यानित्यत्वम्, तद्विपरीतं च नित्यत्वं तस्मिन् कथं समवैति, विरोधिधर्माश्रयत्वं च भिन्नत्वं, तद्विपरीतं चाभिन्नत्वं कथं वा तस्मिन् समवैति? यथाऽश्वत्वमहिषत्वयोर्युगपत् एकस्मिन्नसम्भवः। अयमर्थः पूर्वमेव भेदाभेदवादिनिरसनसमये तत्तु समन्वयात् (शा.मी.सू.१.१.४) इत्यत्र प्रपञ्चितः।
कालाणुत्वनिराकरणे तात्पर्यम्
कालस्य पदार्थविशेषणतयैव प्रतीतेस्तस्य पृथगस्तित्वनास्तित्वादयो न वक्तव्याः; न च परिहर्तव्याः। कालोऽस्ति नास्तीति व्यवहारो व्यवहर्तॄणां जात्याद्यस्तित्वनास्तित्वव्यवहारतुल्यः। जात्यादयो हि द्रव्यविशेषणतयैव प्रतीयन्त इति पूर्वमेवोक्तम्।
वेदान्तवादेऽपि अनैकान्त्याभ्युपगमशङ्का-परिहारौ
कथं पुनरेकमेव ब्रह्म सर्वात्मकमिति श्रोत्रियैरुच्यते?; सर्वचेतनाचेतनशरीरत्वात् सर्वज्ञस्य सर्वशक्तेस्सत्यसङ्कल्पस्य पुरुषोत्तमस्येत्युक्तम्। शरीरशरीरिणोस्तद्धर्माणाञ्चात्यन्त-वैलक्षण्यमप्युक्तम्।
उक्तानैकान्त्यस्य व्यभिचरितत्वम्
किञ्च जीवादीनां षण्णां द्रव्याणामेकद्रव्यपर्यायत्वाभावात्तेषु द्रव्यैकत्वेन पयार्यात्मना चैकत्वानेकत्वादयो दुरुपपादाः। अथोच्येत – षडेतानि द्रव्याणि स्वकीयैः पर्यायैः स्वेन स्वेनचात्मना तथा भवन्ति – इति।
एवमपि सर्वमनैकान्तिकमित्यभ्युपगमविरोधः, अन्योन्यतादात्म्याभावात्।
अतो न युक्तमिदं जैनमतम्। ईश्वरानधिष्ठितपरमाणुकारणवादे पूर्वोक्तदोषास्तथैव अवतिष्ठन्ते॥ ३१॥
जैनमते आत्मनो देहसमपरिमाणत्वाभ्युपगमतो दोषः
२०६. एवं चात्माकार्त्स्न्यम् ॥ २–२–३२ ॥
एवं भवदभ्युपगमे सति आत्मनश्चाकार्त्स्न्यम् प्रसज्यते। जीवोऽसङ्ख्यातप्रदेशो देहपरिमाण इति हि भवतां स्थितिः। तत्र हस्त्यादिशरीरेऽवस्थितस्यात्मनस्ततो न्यूनपरिमाणे पिपीलिकादिशरीरे प्रविशतोऽल्पदेशव्यापित्वेनाकार्त्स्न्यम् प्रसज्यते – अपरिपूर्णता प्रसज्यत इत्यर्थः॥३२॥
आत्मस्वरूपे सङ्कोचविकासाभ्युपगमेन विरोधाभावशङ्का-तत्परिहारौ
अथ सङ्कोचविकासधर्मतया आत्मनः पर्यायशब्दाभिधेयावस्थान्तरापत्त्या विरोधः परिह्रियत इत्युच्येत; तत्राह –
२०७. न च पर्यायादप्यविरोधो विकारादिभ्यः ॥ २–२–३३ ॥
न च सङ्कोचविकासरूपावस्थान्तरापत्त्या विरोधः परिहर्तुं शक्यते, विकारतत्प्रयुक्तानित्यत्वादि-दोषप्रसक्तेर्घटादितुल्यत्वप्रसङ्गात् ॥३३॥
२०८. अन्त्यावस्थितेश्चोभयनित्यत्वादविशेषः ॥ २–२–३४ ॥
जीवस्य यदन्त्यं परिमाणं मोक्षावस्थागतम्, तस्य पश्चाद्देहान्तरपरिग्रहाभावादवस्थितत्वादात्मनः च मोक्षावस्थस्य तत्परिमाणस्य चोभयोर्नित्यत्वात्तदेव आत्मनस्स्वाभाविकं परिमाणमिति पूर्वमपि तस्मादविशेषः स्यात्। अतो देहपरिमाणत्वमात्मनो न स्यादित्यसङ्गतमेवेदं आर्हातमतम् ॥३४॥
इति श्रीशारीरकमीमांसाभाष्ये एकस्मिन्नसम्भवाधिकरणम्॥६॥