श्रीभाष्यम् 02-04-05 श्रेष्ठाणुत्वाधिकरणम्

श्रीशारीरकमीमांसाभाष्ये श्रेष्ठाणुत्वाधिकरणम्॥५॥

अधिकरणार्थः

मुख्यप्राणस्याप्यणुत्वमेव, न विभुत्वम्

२८०. अणुश्च ॥ २–४–१२ ॥

अणुश्चायम्, पूर्ववदुत्क्रान्त्यादिश्रवणात् तमुत्क्रामन्तं प्राणोऽनूत्क्रामति (बृ.३.५.३) इत्यादिषु। अधिकाशङ्का तु सम एभिस्त्रिभिर्लोकैस्समोऽनेन सर्वेण (बृ.३.३.२२) प्राणे सर्वं प्रतिष्ठितम्, सर्वं हीदं प्राणेनावृतम् इत्यादिश्रवणात् महापरिमाण इति॥१२॥

परिहारस्तु – उत्क्रान्त्यादिश्रवणात्परिच्छिन्नत्वे निश्चिते सर्वस्य प्राणिजातस्य प्राणायत्तस्थितित्वेन वैभववादोपपत्तिः – इति॥१२॥

इति श्रीशारीरकमीमांसाभाष्ये श्रेष्ठाणुत्वाधिकरणम्॥ ५॥