श्रीशारीरकमीमांसाभाष्ये शिष्टापरिग्रहाधिकरणम्॥४॥
अधिकरणार्थः
वेदापरिगृहीतसर्वक्षप्रतिक्षेपः
१५१. एतेन शिष्टापरिग्रहा अपि व्याख्याताः ॥ २–१–१३ ॥
सूत्रार्थविवरणम्
शिष्टाः – परिशिष्टाः, न विद्यते वेदपरिग्रहो येषामित्यपरिग्रहाः; शिष्टाश्चापरिग्रहाश्च शिष्टापरिग्रहाः एतेन वेदापरिगृहीतसाङ्ख्यपक्षक्षपणेन परिशिष्टाश्च वेदापरिगृहीताः कणभक्षाक्षपादक्षपणकभिक्षुपक्षाः क्षपिता वेदितव्याः ॥
अधिकाशङ्का-परिहारयोः स्फुटीकरणम्
परमाणुकारणवादेऽमीषां सर्वेषां संवादात्कारणवस्तुविषयस्य तर्कस्याप्रतिष्ठितत्वं न शक्यते वक्तुमित्यधिकाशङ्का॥
तावन्मात्रसंवादेऽपि तर्कमूलत्वाविशेषात्परमाणुस्वरूपेऽपि शून्यात्मकत्वाशून्यात्मकत्व-ज्ञानात्मकत्व-अर्थात्मकत्वक्षणिकत्वनित्यत्वैकान्तत्वानेकान्तत्वसत्यासत्यात्मकत्वादि-विसंवाद-दर्शनात् च अप्रतिष्ठितत्वमेवेति परिहारः॥१३॥
इति श्रीशारीरकमीमांसाभाष्ये शिष्टापरिग्रहाधिकरणम्॥ ४॥