श्रीभाष्यम् 02-01-03 विलक्षणत्वाधिकरणम्

श्रीशारीरकमीमांसाभाष्ये विलक्षणत्वाधिकरणम् ॥३॥

अधिकरणार्थः

ब्रह्मणो जगदपेक्षया वैलक्षण्यं जगत्कारणत्वाविरोधि

१४२. न विलक्षणत्वादस्य तथात्वं च शब्दात् ॥ २–१–४ ॥

सङ्गतेः प्रदर्शनम्

पुनरपि स्मृतिविरोधवादी तर्कमवलम्बमानः प्रत्यवतिष्ठते –

सूत्राक्षरविवरणम्

यत्साङ्ख्यस्मृतिनिराकरणेन जगतो ब्रह्मकार्यत्वमुक्तम्; तन्नोपपद्यते, अस्य प्रत्यक्षादिभिरचेतनत्वेनाशुद्धत्वेन अनीश्वरत्वेन दुःखात्मकत्वेन चोपलभ्यमानस्य चिदचिदात्मकस्य जगतः भवदभ्युपेतात्सर्वज्ञात् सर्वेश्वराद्धेयप्रत्यनीकात् आनन्दैकतानाद्ब्रह्मणो विलक्षणत्वात् ॥

शब्दतश्च ब्रह्मणि जगद्वैलक्षण्यप्रदर्शनम्

न केवलं प्रत्यक्षादिभिरेव जगतो वैलक्षण्यमुपलभ्यते; शब्दाच्च तथात्वं विलक्षणत्वम्, उपलभ्यते विज्ञानं चाविज्ञानं च (तै.उ.आ.६.३) एवमेवैता भूममात्राः प्रज्ञामात्रास्वर्पिताः प्रज्ञामात्राः प्राणेऽर्पिताः (कौ.३.९) समाने वृक्षे पुरुषो निमग्नोऽनीशया शोचति मुह्यमानः (मु.३.१.२) अनीशश्चात्मा बध्यते भोक्तृभावात् (श्वे.१.८) इत्यादिभिः। कार्यस्य हि जगतोऽचेतनत्वदुःखित्वादयो निर्दिश्यन्ते ॥

कार्यसमानलक्षणस्यैव कारणत्वे युक्तिः

यद्धि यत्कार्यम्, तत्तस्मादविलक्षणम्, यथा मृत्सुवर्णादिकार्यं घटरुचकादि। अतो ब्रह्मविलक्षणस्यास्य जगतस्तत्कार्यत्वं न सम्भवतीति साङ्ख्यस्मृत्यनुरोधेन कार्यसलक्षणं प्रधानमेव कारणं भवितुमर्हाति ॥

प्रमाणानां तर्कानुग्रहापेक्षाविशदीकरमम्

अवश्यं च शास्त्रस्यानन्यापेक्षस्यातीन्द्रियार्थगोचरस्यापि तर्कोऽनुसरणीयः; यतस्सर्वेषां प्रमाणानां क्वचित्क्वचिद्विषये तर्कानुगृहीतानामेवार्थनिश्चयहेतुत्वम्। तर्को हि नाम अर्थस्वभावविषयेण वा सामग्रीविषयेण वा निरूपणेनार्थविशेषे प्रमाणं व्यवस्थापयत् तदितिकर्तव्यतारूपमूहापरपर्यायं ज्ञानम्; तदपेक्षा च सर्वेषां प्रमाणानां समाना॥

प्रत्यक्षविलक्षणस्य शास्त्रस्य तर्कानुग्रहापेक्षानियमः

शास्त्रस्य तु विशेषेणाकाङ्क्षासन्निधियोग्यताज्ञानाधीनप्रमाणभावस्य सर्वत्रैव तर्कानुग्रहापेक्षा; उक्तं च मनुना यस्तर्केणानुसन्धत्ते स धर्म वेद नेतरः (मनु.१२.१०६) इति। तदेव हि तर्कानुगृहीतशास्त्रार्थप्रतिष्ठापनं श्रुत्या च मन्तव्यः (बृ.६.५.६) इत्युच्यते ॥

जगति अनुद्भूतचैतन्याभ्युपगमेन ब्रह्मसालक्षण्याशङ्का-परिहारौ

अथोच्येत – श्रुत्या जगतो ब्रह्मैककारणत्वे निश्चिते सति तत्कार्यस्यापि जगतश्चैतन्यानुवृत्तिरभ्युपगम्यते।

तथा चेतनस्य सुषुप्तिमूर्च्छादिषु चैतन्यानुपलम्भः;
तथा घटादिष्वपि सदेव चैतन्यमनुद्भूतम्,
अत एव चेतनाचेतनविभागः – इति ॥

नैतदुपपद्यते, यतो नित्यानुपलब्धिरसद्भावमेव साधयति। अत एव चैतन्यशक्तियोगोऽपि तेषु निरस्तः।

यस्य हि क्वचित्कदाचिदपि यत्कार्यानुपलब्धिः;
तस्य तत्कार्यशक्तिं ब्रुवाणो वन्ध्यासुतसमितिषु तज्जननीनां प्रजननशक्तिं ब्रूताम् ॥

किञ्च वेदान्तैर्जगतो ब्रह्मोपादानताप्रतिपादननिश्चये सति घटादीनां चैतन्यशक्तेश्चैतन्यस्य वाऽनुद्भूतस्य सद्भावनिश्चयः, तन्निश्चये सति वेदान्तैर्जगतो ब्रह्मोपादानताप्रतिपादननिश्चय इतीतरेतराश्रयत्वम्।
विलक्षणयोर्हि कार्यकारणभावः प्रतिपादयितुमेव न शक्यते ॥

प्रसक्तसालक्षण्यविवेचनतः ब्रह्मणः उपादानत्व-तन्निषेधौ

किं पुनः प्रकृतिविकारयोस्सालक्षण्यमभिप्रेतम्, यदभावाज्जगतो ब्रह्मोपादानता-प्रतिपादनासम्भवं ब्रूषे; न तावत्सर्वधर्मसारूप्यम्, कार्यकारणभावानुपपत्तेः।
न हि मृत्पिण्डकार्येषु घटशरावादिषु पिण्डत्वाद्यनुवृत्तिर्दृश्यते। अथ येनकेनचिद्धर्मेण सारूप्यम्, तज्ज्गद्ब्रह्मणोरपि सत्तादिलक्षणं सम्भवति।

तदुच्यते – येन स्वभावेन कारणभूतं वस्तु वस्त्वन्तराद्व्यावृत्तम्, तस्य स्वभास्य तत्कार्येऽप्यनुवृत्तिः कार्यस्य कारणसालक्षण्यम् । येन ह्याकारेण मृदादिभ्यो हिरण्यं व्यावर्तते, तदाकारानुवृत्तिस्तत्कार्येषु कुण्डलादिषु दृश्यते। ब्रह्म च हेयप्रत्यनीकज्ञानानन्दैश्वर्यस्वभावम्, जगच्च तत्प्रत्यनीकस्वभावमिति न तदुपादानम्।

कार्यकारणसालक्षण्यनियमे अनैकान्त्य-तत्परिहारौ

ननु च वैलक्षण्येऽपि कार्यकारणभावो दृश्यते यथा चेतनात्पुरुषादचेतनानि केशनखदन्तलोमानि जायन्ते; यथाचाचेतनाद्गोमयाच्चेतनो वृश्चिको जायते; चेतनाच्चोर्णनाभेरचेतनस्तन्तुः; नैतदेवम्, यतस्तत्राप्यचेतनांश एव कार्यकारणभावः॥ ४ ॥

पृथिव्यादावपि चैतन्यस्य श्रुत्याद्यभिमतत्वोक्तितः सालक्षण्यशङ्का

अथ स्यात्- अचेतनत्वेनाभिमतानामपि चैतन्ययोगश्श्रुतिषु श्राव्यते तं पृथिव्यब्रवीत् (तै.यजुषि.५.५.२) आपो वा अकामयन्त (तै.यजुषि.३अष्ट.१.५) ते हेमे प्राणा अहं श्रेयसे विवदमाना ब्रह्माणं जग्मुः (बृह.८.१.७) इति। नदीसमुद्रपर्वतादीनामपि चेतनत्वं पौराणिका आतिष्ठन्ते; अतो न वैलक्षण्यम् – इति। अत उत्तरं पठति –

श्रौतव्यपदेशानां अभिमानिदेवतापरत्वेन, सर्वथा सालक्षण्याभावः

१४३. अभिमानिव्यपदेशस्तु विशेषानुगतिभ्याम् ॥ २–१–५ ॥

तु शब्दश्चोदिताशङ्कानिवृत्त्यर्थः; पृथिव्याद्यभिमानिन्यो देवताः तं पृथिव्यब्रवीत् (तै.यजु.५ .५.२) इत्यादिषु पृथिव्यादिशब्दैर्व्यपदिश्यन्ते। कुतः? विशेषानुगतिभ्यां – विशेषः – विशेषणम्, देवताशब्देन विशिष्य पृथिव्यादयोऽभिधीयन्ते, हन्ताऽहमिमास्तिस्रो देवताः (छां.६.३.२) इति तेजोऽबन्नानि देवताशब्देन विशेष्यन्ते, सर्वा ह वै देवता अहंश्रेयसे विवदमानाः (कौषी.२.९) ते देवाः प्राणे निश्श्रेयसं विदित्वा इति च; अनुगतिः – अनुप्रवेशः; अग्निर्वाग्भूत्वा मुखं प्राविशत्। आदित्यश्चक्षुर्भूत्वाऽक्षिणी प्राविशत्। वायुः प्राणो भूत्वा नासिके प्राविशत् (ऐत.१.२.४) इत्यादिना वागाद्यभिमानित्वेन अग्न्यादीनामनुप्रवेशश्श्रूयते। अतो जगतोऽचेतनत्वेन विलक्षणत्वात् ब्रह्मकार्यत्वानुपपत्तेः तर्कानुगृहीतस्मृत्यनुरोधेन जगतः प्रधानोपादानत्वं वेदान्तैः प्रतिपाद्यते इति॥५॥

सिद्धान्तार्थनिरूपणम्

एवं प्राप्तेऽभीधीयते

१४४. दृश्यते तु ॥ २–१–६ ॥

तु शब्दात्पक्षो विपरिवर्तते,

विलक्षणयोरप्युपादानोपादेयता

यदुक्तं – जगतो ब्रह्मविलक्षणत्वेन ब्रह्मोपादानत्वं न सम्भवति – इति; तदयुक्तम्, विलक्षणयोरपि कार्यकारणभावदर्शनात्। दृश्यते हि माक्षिकादेर्विलक्षणस्य क्रिम्यादेस्तस्मादुत्पत्तिः। ननूक्तमचेतनांश एव कार्यकारणभावात्तत्र सालक्षण्यम्। सत्यमुक्तम्, न तावता कार्यकारणयोः भवदभिमतसालक्षण्यसिद्धिः; यथा कथञ्चित्सालक्षण्ये सर्वस्य सर्वसालक्षण्येन सर्वस्मात् सर्वोत्पत्तिप्रसङ्गभयाद्वस्तुनो वस्त्वन्तराद्व्यावृत्तिहेतुभूतस्याकारस्यानुवृत्तिस्सालक्षण्यं भवता अभ्युपेतम्; स तु नियमो माक्षिकादिभ्यः क्रिम्याद्युत्पत्तौ न दृश्यत इति ब्रह्मविलक्षणस्यापि जगतो ब्रह्मकार्यत्वं नानुपपन्नम्। न हि मृद्धिरण्यघटमकुटादिष्विव वस्त्वन्तरव्यावृत्तिहेतुभूत-असाधरणाकारानुवृत्तिर्माक्षिक-गोमयक्रिमिवृश्चिकादिषु दृश्यते॥६॥

असदुत्पत्तिपर्यवसानप्रसक्तिशङ्का-परिहारौ

१४५. असदिति चेन्न प्रतिषेधमात्रत्वात् ॥ २–१–७ ॥

यदि कार्यभूताज्जगतः कारणभूतं ब्रह्म विलक्षणम्, तर्हि कार्यकारणयोर्द्रव्यान्तरत्वेन कारणे परस्मिन् ब्रह्मणि कार्यं जगन्न विद्यत इत्यसत एव जगत उत्पत्तिः प्रसज्यत इति चेत् – नैतदेवम्, कार्यकारणयोस्सालक्षण्यनियमप्रतिषेधमात्रमेव हि पूर्वसूत्रेऽभिप्रेतम्; न तु कारणात्कार्यस्य द्रव्यान्तरत्वम्; कारणभूतं ब्रह्मैव स्वस्माद्विलक्षणजगदाकारेण परिणमत इत्येतत्तु न परित्यक्तम्; क्रिमिमाक्षिकयोरपि हि सति च वैलक्षण्ये कुण्डलहिरण्ययोरिव द्रव्यैक्यमस्त्येव ॥ ७॥

ब्रह्मणो जगत्कारणत्वे प्रलयाद्यवस्थासु ब्रह्मणः जगद्गतदोषापत्त्युद्भावनम्

अत्र चोदयति –

१४६. अपीतौ तद्वत्प्रसङ्गादसमञ्जसम् ॥ २–१–८ ॥

अपीतावित्यपीतिपूर्वकसृष्ट्यादेः प्रदर्शनार्थम्, सदेव सोम्येदमग्र आसीत् (छा.६.२.१) आत्मा वा इदमेक एवाग्र आसीत् (ऐत.१.१.१) इत्यादिष्वप्ययावस्थोपदेशपूर्वकत्वदर्शनात्सृष्ट्यादेः ॥

सूत्राभिप्रायवर्णनम्

यदि कार्यकारणयोर्द्रव्यैक्यमभ्युपेतम्, तदा कार्यस्य जगतो ब्रह्मण्यप्ययसृष्ट्यादिषु सत्सु, ब्रह्मण एव तत्तदवस्थान्वय इति कार्यगतास्सर्व एवापुरुषार्था ब्रह्मणि प्रसज्येरन्, सुवर्ण इव कुण्डलगता विशेषाः। ततश्च वेदान्तवाक्यं सर्वमसमञ्जसं स्यात्, यस्सर्वज्ञस्सर्ववित् (मु.१.१.९) अपहतपाप्मा विजरो विमृत्युः (छा.८.१.५) न तस्य कार्यं करणं च विद्यते न तत्समश्चाभ्यिधकश्च दृश्यते (श्वे.६.८) तयोरन्यः पिप्पलं स्वाद्वत्ति (मु.३.१.१) अनीशश्चात्मा बध्यते भोक्तृभावात् (श्वे.१.८) अनीशया शोचति मुह्यमानः (मु.३.१.२) इत्येकस्मिन्नेव वस्तुन्येषां परस्परविरुद्धानां प्रसक्तेः ॥

जगद्ब्रह्मणोः शरीरशरीरिभावासम्भवप्रदर्शनाय शङ्का

अथोच्येत – चिदचिद्वस्तुशरीरकस्य परस्यैव ब्रह्मणः कार्यकारणभावाच्छरीरभूत-चिदचिद्वस्तुगतत्वाच्च दोषाणाम्, न शरीरिणि ब्रह्मणि कार्यावस्थे कारणावस्थे च प्रसङ्ग इति –

तदयुक्तम्, जगद्ब्रह्मणोश्शरीरशरीरिभावस्यैवासम्भवात्, सम्भवे च ब्रह्मणि शरीरसम्बन्धनिबन्धनदोषाणामनिवार्यत्वात्; न हि चिदचिद्वस्तुनोर्ब्रह्मणश्शरीरत्वं सम्भवति ॥

जगतः शरीरत्वाभावसमर्थनम्

शरीरं हि नाम कर्मफलरूपसुखदुःखभोग- साधनभूतेन्द्रियाश्रयः पञ्चवृत्तिप्राणाधीनधारणः पृथिव्यादिभूतसङ्घातविशेषः, तथाविधस्यैव लोकवेदयोश्शरीरत्वप्रसिद्धेः। परमात्मनश्च अपहतपाप्मा विजरः (छा.८.१.५) अनश्नन्नन्यो अभिचाकशीति (मु.३.१.१) अपाणिपादो जनवो ग्रहीता पश्यत्यचक्षुस्स शृणोत्यकर्णः (श्वे.३.१९) अप्राणो ह्यमनाः (मु.२.१.२) इत्यादिभिः कर्मतत्फलभोगयोरभावादिन्द्रियाधीनभोगत्वाभावात्प्राणवत्त्वाभावाच्च न तं प्रति चेतनाचेतनयोः शरीरत्वम्। न चाचेतनव्यष्टिरूपतृणकाष्टादीनां समष्टिरूपस्य भूतसूक्ष्मस्य चेन्द्रियाश्रयत्वादि सम्भवति। भूतसूक्ष्मस्य पृथिव्यादिसङ्घातत्वं च न विद्यते। चेतनस्य तु ज्ञानैकाकारस्य सर्वमेतन्नसम्भवतीति नतरां शरीरत्वसम्भवः ॥

अन्यत् शरीरलक्षणमनुरुध्य जगतो ब्रह्मशरीरत्वशङ्का-परिहारौ

न च भोगायतनत्वं शरीरत्वमिति शरीरत्वसम्भवः, भोगायतनेषु वेश्मादिषु शरीरत्वाप्रसिद्धेः; यत्र वर्तमानस्यैव सुखदुःखोपभोगः, तदेव भोगायतनमितिचेन्न, परकायप्रवेशजन्म-सुखदुःखोपभोगायतनस्य परकायस्य प्रविष्टशरीरत्वाप्रसिद्धेः; ईश्वरस्य तु स्वतस्सिद्धनित्य-निरतिशयानन्दस्य भोगं प्रति चिदचितोरायतनत्वनियमो न सम्भवति।

एतेन भोगसाधनमात्रस्य शरीरत्वं प्रत्युक्तम्।

सिद्धान्त्यभिमतशरीरलक्षणस्यापि दूषणम्

अथ मतं – यदिच्छाधीनस्वरूपस्थितिप्रवृत्ति यत्, तत्तस्य शरीरमिति, सर्वस्येश्वरेच्छाधीनस्वरूपस्थितिप्रवृत्तित्वेनेश्वरशरीरत्वं सम्भवति – इति; तदपि न साधीयः, शरीरतया प्रसिद्धेषु तत्तच्चेतनेच्छायत्तस्वरूपत्वाभावात्, रुग्णशरीरस्य तदिच्छाधीनप्रवृत्तित्वाभावात्, मृतशरीरस्य तदायत्तस्थितित्वाभावाच्च, सालभञ्जिकादिषु चेतनेच्छाधीनस्वरूपस्थितिप्रवृत्तिषु तच्छरीरत्वाप्रसिद्धेश्च, चेतनस्य नित्यस्येश्वरेच्छायत्तस्वरूपत्वाभावाच्च, न तच्छरीरत्वसम्भवः। नच यद्यदेकनियाम्यम्, यदेकधार्यम्, यस्यैकशेषभूतम्, तत्तस्य शरीरमिति वाच्यम्; क्रियादिषु व्यभिचारात्॥

ईश्वरस्याऽशरीरतायाः श्रौतता, सूत्रार्थनिगमनं वा

अशरीरं शरीरेषु (कठ.१.२.२२) अपाणिपादो जनवो ग्रहीता (श्वेत.३.१९) इत्यादिभिश्चेश्वरस्य शरीराभावः प्रतिपाद्यते। अतो जगद्ब्रह्मणोश्शरीरशरीरिभावस्य असम्भवात् तत्सम्भवे च ब्रह्मणि दोषप्रसङ्गाद्ब्रह्मकारणवादे वेदान्तवाक्यानामसामञ्जस्यम्-इति॥ ८॥

पूर्वोक्तासामञ्जस्यपरिहारः

अत्रोत्तरम् –

१४७. न तु दृष्टान्तभावात् ॥ २–१–९ ॥

नैवमसामञ्जस्यम् – एकस्यैवावस्थाद्वयान्वयेऽपि गुणदोषव्यवस्थितेर्दृष्टान्तस्य विद्यमानत्वात्। तुशब्दोऽत्र हेयसम्बन्धगन्धस्यासम्भावनीयतां द्योतयति ॥

सौत्रार्थनिष्कृष्टांशः आवश्यकदृष्टान्तयुक्तः

एतदुक्तं भवति – चिदचिद्वस्तुशरीरतया तदात्मभूतस्य परस्य ब्रह्मणस्सङ्कोच-विकासात्मककार्यकारणभावावस्थाद्वयान्वयेऽपि न कश्चिद्विरोधः; यतस्सङ्कोचविकासौ परब्रह्मशरीरभूतचिदचिद्वस्तुगतौ, शरीरगतास्तु दोषा नात्मनि प्रसज्यन्ते; आत्मगताश्च गुणा, न शरीरे; यथा देवमनुष्यादीनां सशरीराणां क्षेत्रज्ञानां शरीरगता बालत्वयुवत्वस्थविरत्वादयो नात्मनि सम्बध्यन्ते; आत्मगताश्च ज्ञानसुखादयो न शरीरे। अथ च देवो जातो, मनुष्यो जातः, तथा स एव बालो युवा स्थविरश्च इति व्यपदेशश्च मुख्यः; भूतसूक्ष्मशरीरस्यैव क्षेत्रज्ञस्य देवमनुष्यादिभाव इति तदन्तरप्रतिपत्तौ (ब्र.सू.३.१.१) इति वक्ष्यते – इति ॥

पूर्वोक्तायाः शरीरत्वासम्भवशङ्कायाः अनूद्य निरासः

यत्पुनरुक्तं – चिदचिदात्मकस्य जगतस्स्थूलस्य सूक्ष्मस्य च परमात्मानं प्रति शरीरभावो नोपपद्यते – इति; तदनाकलितसम्यङ्न्यायानुगृहीतवेदान्तवाक्यगणस्य स्वमतिपरिकल्पितकुतर्क-विजृम्भितम्; सर्व एव हि वेदान्ताः स्थूलस्य सूक्ष्मस्य चेतनस्याचेतनस्य समस्तस्य च परमात्मानं प्रति शरीरत्वं श्रावयन्ति ॥

जगद्ब्रह्मणोः शरीरशरीरिभावबोधिकाः श्रुतयः

वाजसनेयके तावत्काण्वशाखायां माध्यन्दिनशाखायां चान्तर्यामिब्राह्मणे यः पृथिव्यां तिष्ठन्, यस्य पृथिवी शरीरम् (बृ.५.७.७) इत्यारभ्य पृथिव्यादिसमस्तचिदचिद्वस्तु यो विज्ञाने तिष्ठन् **…**यस्य विज्ञानं शरीरम् (बृ.५.७.२६) य आत्मनि तिष्ठन् ….. यस्यात्मा शरीरम् (बृ.५.७.२२) इति चेतनं च पृथक्पृथङ्निर्दिश्य तस्य तस्य परमात्मशरीरत्वमभिधीयते। सुबालोपिनषदि च यः पृथिवीमन्तरे सञ्चरन्यस्य पृथिवी शरीरम् (सुबा.७) इत्यारभ्य तद्वदेव चिदचितोस्सर्वावस्थयोः परमात्मशरीरत्वमभिधाय एष सर्वभूतान्तरात्माऽपहतपाप्मा दिव्यो देव एको नारायणः (सुबाल.७) इति तस्य सर्वभूतानि प्रत्यात्मत्वमभिधीयते ॥ स्मरन्ति च –

स्मृतिभिः परमात्मनः सर्वशरीरकत्वम्

जगत्सर्वं शरीरं ते (रामा.युद्ध.१२०.२९) यदम्बु वैष्णवः कायः (वि.पु.२.१२.३७) तत्सर्वं वै हरेस्तनुः (वि.पु.१.२२.३८) तानि सर्वाणि तद्वपुः (वि.पु.१.२२.८६) सोऽभिध्याय शरीरात्स्वात् (मनु.१.८) इत्यादि। भूतसूक्ष्मात्स्वाच्छरीरादित्यर्थः। लोके च शरीरशब्दो घटादिशब्दवदेकाकार-द्रव्यनियतवृत्तिमनासादितः क्रिमिकीटपतङ्गसर्पनरपशुप्रभृतिषु अत्यन्त-विलक्षणाकारेषु द्रव्येष्वगौणः प्रयुज्यमानो दृश्यते। तेन तस्य प्रवृत्तिनिमित्तव्यवस्थापनं सर्वप्रयोगानुगुण्येनैव कार्यम्। त्वदुक्तं च कर्मफलभोगहेतुः इत्यादिकं प्रवृत्तिनिमित्तलक्षणं न सर्वप्रयोगानुगुणम्, यथोक्तेष्वीश्वरशरीरतया अभिहितेषु पृथिव्यादिष्वव्याप्तेः। किञ्च ईश्वरस्येच्छाविग्रहेषु मुक्तानां च स एकधा भवति (छां.७.२६.२) इत्यादि वाक्यावगतेषु विग्रहेषु तल्लक्षणमव्याप्तम्, कर्मफलभोगनिमित्तत्वाभावात्तेषाम्; परमपुरुषेच्छाविग्रहाश्च न पृथिव्यादिभूतसङ्घातविशेषाः न भूतसङ्गसंस्थानो देहोऽस्य परमात्मनः (महा.भा.शा.२०६.६०) इति स्मृतेः। अतो भूतसङ्घातरूपत्वं च शरीरस्याव्याप्तम्। पञ्चवृत्तिप्राणाधीनधारणत्वं च स्थावरशरीरेष्वव्याप्तम्। स्थावरेषु हि प्राणसद्भावेऽपि तस्य पञ्चधा अवस्थाय शरीरस्य धारकत्वेनावस्थानं नास्ति। अहल्यादीनां कर्मनिमित्तशिलाकाष्ठादिशरीरेष्विन्द्रियाश्रयत्वं सुखदुःखहेतुत्वं चाव्याप्तम् ॥

सिद्धान्त्यभिमतं निर्दुष्टं शरीरलक्षणम्

अतो यस्य चेतनस्य यद्द्रव्यं सर्वात्मना स्वार्थे नियन्तुं धारियतुं च शक्यम्, तच्छेषतैकस्वरूपं च, तत्तस्य शरीरमिति शरीरलक्षणमास्थेयम्। रुग्णशरीरादिषु नियमनाद्यदर्शनं विद्यमानाया एव नियमनशक्तेः प्रतिबन्धकृतम्, अग्न्यादेश्शक्तिप्रतिबन्धादौष्ण्याद्यदर्शनवत्। मृतशरीरं च चेतनवियोगसमय एव विशरितुमारब्धम्; क्षणान्तरे च विशीर्यते। पूर्वं शरीरतया परि प्तसङ्घातैकदेशत्वेन च तत्र शरीरत्वव्यवहारः। अतस्सर्वं परमपुरुषेण सर्वात्मना स्वार्थे नियाम्यं धार्यं तच्छेषतैकस्वरूपमिति सर्वं चेतनाचेतनं तस्य शरीरम् ॥

परब्रह्मणः शरीरनिषेधकश्रुत्याशयः

अशरीरं शरीरेषु (कठ.२.२२) इत्यादि च कर्मनिमित्तशरीरप्रतिषेधपरम्, यथोक्तसर्वशरीरत्वश्रवणात्। उपरितनाधिकरणेषु चैतदुपपादयिष्यते। अपीतौ तद्वत्प्रसङ्गात् असमञ्जसम्, न तु दृष्टान्तभावात् इति सूत्रद्वयेन इतरव्यपदेशात् (ब्र.सू.२.१.२१) इत्यधिकरणसिद्धोऽर्थस्स्मारितः॥ ९ ॥

सांख्यसमयगतो दोषोऽपि तत्परित्यागे हेतुः

१४८. स्वपक्षदोषाच्च ॥ २–१–१० ॥

न केवलं ब्रह्मकारणवादस्य निर्दोषतयैतत्समाश्रयणम्; प्रधानकारणवादस्य दुष्टत्वाच्च तत्पिरत्यज्यैतदेव समाश्रयणीयम्। प्रधानकारणवादे हि जगत्प्रवृत्तिर्नोपपद्यते। तत्र हि निर्विकारस्य चिन्मात्रैकरसस्य पुरुषस्य प्रकृतिसन्निधानेन प्रकृतिधर्माध्यासनिबन्धना जगत्प्रवृत्तिः। निर्विकारस्य चिन्मात्ररूपस्य प्रकृतिधर्माध्यासहेतुभूतं प्रकृतिसन्निधानं किंरूपमिति विवेचनीयम्; किं प्रकृतेस्सद्भाव एव; उत तद्गतः कश्चिद्विकारः; अथ पुरुषगत एव कश्चिद्विकारः। न तावत्पुरुषगतः अनभ्युपगमात्; नापि प्रकृतेर्विकारः, तस्याध्यासकार्यतया अभ्युपेतस्याध्यास हेतुत्वासस्भवात्; सद्भावमात्रस्य सन्निधानत्वे मुक्तस्याप्यध्यासप्रसङ्ग इति त्वत्पक्षे जगत्प्रवृत्तिर्नोपपद्यते। अयमर्थस्साङ्ख्यपक्षप्रतिक्षेपसमये अभ्युपगमेऽप्यर्थाभावात् (शारी.२.२.८) इत्यादिना प्रपञ्चयिष्यते॥ १०॥

केवलतर्काश्रितसिद्धान्तस्यानाश्रयणीयता

१४९. तर्काप्रतिष्ठानादपि ॥ २–१–११ ॥

तर्कस्याप्रतिष्ठितत्वादपि श्रुतिमूलो ब्रह्मकारणवाद एव समाश्रयणीयः; न प्रधानकारणवादः। शाक्योलूक्याक्षपादक्षपणकपिलपतञ्जलितर्काणामन्योन्यव्याघातात्तर्कस्याप्रतिष्ठितत्वं गम्यते॥११॥

विलक्षणतर्काश्रयणेऽप्युक्तदोषादनिस्तारः

१५०. अन्यथानुमेयमिति चेदेवमप्यनिर्मोक्षप्रसङ्गः ॥ २–१–१२ ॥

इदानीं विद्यमानानां शाक्यादीनां तर्कानुद्दऊष्यान्यथा प्रधानकारणवादमति-क्रान्ततदुपदर्शितदूषणत्वेनानुमास्यामह इति चेत् – एवमपि पुरुषबुद्धिमूलतर्कैकावलम्बनस्य तथैव देशान्तरकालान्तरेषु त्वदधिककुतर्ककुशलपुरुषोत्प्रेक्षिततर्कदूष्यत्वसम्भावनया तर्काप्रतिष्ठानदोषात् अनिर्मोक्षो दुर्वारः। अतोऽतीन्द्रियेऽर्थे शास्त्रमेव प्रमाणम्; तदुपबृंहणायैव तर्क उपादेयः; तथाचाह आर्षं धर्मोपदेशं च वेदशास्त्राविरोधिना । यस्तर्केणानुसन्धत्ते स धर्मं वेद नेतरः (मनु.१२.१०६) इति। वेदाख्यशास्त्रविरोधिनेत्यर्थः। अतो वेदविरोधित्वेन वेदार्थविशदीकरणरूपवेदोपबृंहणतर्कोपादानाय साङ्ख्यस्मृतिर्नादरणीया॥ १२ ॥

इति श्रीशारीरकमीमांसाभाष्ये विलक्षणत्वाधिकरणम्॥३॥