श्रीभाष्यम् 02-02-03 समुदायाधिकरणम्

श्रीशारीरकमीमांसाभाष्ये समुदायाधिकरणम् ॥३॥ (सू.17-26)

अधिकरणार्थः

बौद्ध-वैभाषिक-सौत्रान्तिकपक्षयोः निरसनम्

१९१. समुदाय उभयहेतुकेऽपि तदप्राप्तिः ॥ २–२–१७ ॥

सङ्गतिप्रदर्शनम्

परमाणुकारणवादिनो वैशेषिका निरस्ताः; सौगताश्च जगतः परमाणुकारणत्वं अभ्युपगच्छन्तीत्यनन्तरं तन्मतेऽपि जगदुत्पत्तितद्व्यवहारादिकं नोपपद्यत इत्युच्यते ॥

बौद्धप्रभेद-तन्मतानां सामान्यतः प्रदर्शनम्

ते चतुर्विधाः – केचित्पार्थिवाप्यतैजसवायवीयपरमाणुसङ्घातरूपान् भूतभौतिकान् बाह्यांश्चित्तचैत्तरूपांश्च आभ्यन्तरानर्थान् प्रत्यक्षानुमानसिद्धानभ्युपयन्ति, अन्ये तु बाह्यार्थान् सर्वान् पृथिव्यादीन्विज्ञानानुमेयान्वदन्ति; अपरे त्वर्थशून्यं विज्ञानमेव परमार्थसत्, बाह्यार्थास्तु स्वाप्नार्थकल्पा इत्याहुः; त्रयोऽप्येते स्वाभ्युपगतं वस्तु क्षणिकमाचक्षते, उक्तभूतभौतिकचित्तचैत्त-व्यतिरिक्तं आत्माकाशादिकं स्वरूपेणैव नानुमन्वते; अन्ये तु सर्वशून्यत्वमेव सङ्गिरन्ते ॥

वैभाषिक-सौत्रान्तिकबौद्धयोर्निरासः

तदभिप्रायानुवादभागः

तत्र ये बाह्यार्थास्तित्ववादिनः, ते तावन्निरस्यन्ते । ते चैवं मन्यन्ते – रूपरसस्पर्शगन्धस्वभावाः पार्थिवाः परमाणवः, रूपरसस्पर्शस्वभावाश्चाप्याः, रूपस्पर्शस्वभावाश्च तैजसाः, स्पर्शस्वभावाश्च वायवीयाः पृथिव्यप्तेजोवायुरूपेण संहन्यन्ते, तेभ्यश्च पृथिव्यादिभ्यः शरीरेन्द्रियविषयरूपसङ्घाता भवन्ति, तत्र च शरीरान्तर्वर्ती ग्राहकाभिमानारूढो विज्ञानसन्तान एवात्मत्वेनावतिष्ठते; तत एव सर्वो लौकिको व्यवहारः प्रवर्तते – इति ॥

निरासभागः सिद्धान्ते

तत्राभिधीयते – समुदाय उभयहेतुकेऽपि तदप्राप्तिः– योऽयमणुहेतुकः पृथिव्यादिभूतात्मक­ समुदायः, यश्च पृथिव्यादिहेतुकश्शरीरेन्द्रियविषयरूपस्समुदायः, तस्मिन्नुभयहेतुकेऽपि समुदाये तत्प्राप्तिर्नोपपद्यते – जगदात्मकसमुदायोत्पत्तिर्नोपपद्यत इत्यर्थः।

परमाणूनां पृथिव्यादिभूतानां च क्षणिकत्वाभ्युपगमात्, क्षणध्वंसिनः परमाणवो भूतानि च कदा संहतौ व्याप्रियन्ते, कदा वा संहन्यन्ते कदा विज्ञानविषयभूताः, कदा च हानोपादानादिव्यवहारास्पदतां भजन्ते, को वा विज्ञानात्मा कं च विषयं स्पृशति कश्च विज्ञानात्मा कमर्थं कदा वेदयते, कं वा विदितमर्थं कश्च कदोपादत्ते; स्प्रष्टा हि नष्टः, स्पृष्टश्च नष्टः; तथा वेदिता विदितश्च नष्टः; कथं चान्येन स्पृष्टमन्यो वेदयते, कथञ्चान्येन विदितमर्थमन्य उपादत्ते; सन्तानानामेकत्वेऽपि सन्तानिभ्यस्तेषां वस्तुतो वस्त्वन्तरत्वानभ्युपगमान्न तन्निबन्धनं व्यवहारादिकमुपपद्यते, अहमर्थ एवात्मा, स च ज्ञातैवेति चोपपादितं पुरस्तात्॥ १७॥

अविद्यादीनां मिथः कार्यकारणभावेन सङ्घातभावोपपत्तिशङ्का-तत्परिहारौ

१९२. इतरेतरप्रत्ययत्वादुपपन्नमिति चेन्न संघातभावानिमित्तत्वात् ॥ २–२–१८ ॥

अविद्यादीनामितरेतरहेतुत्वेनोपपन्नं सङ्घातभावादिकमिति चेत्, एतदुक्तं भवति – यद्यपि क्षणिकास्सर्वे भावाः, तथाऽप्यविद्ययैतत्सर्वमुपपद्यते । अविद्या हि नाम विपरीतबुद्धिः क्षणिकादिषु स्थिरत्वादिगोचरा; तया संस्काराख्याः रागद्वेषादयो जायन्ते; ततश्चित्ताभिज्वलनरूपं विज्ञानम्; ततश्च नामाख्याश्चित्तचैत्ताः पृथिव्यादिकं च रूपिद्रव्यम्; ततष्षडायतनाख्यमिन्द्रियषट्कम्; ततः स्पर्शाख्यः कायः; ततो वेदनादयः; ततश्च पुनरप्यविद्यादयो यथोक्ताः इत्यनादिरयमविद्यादिकाऽन्योन्यमूला चक्रपरिवृत्तिः; एतच्च सर्वं पृथिव्यादिभूतभौतिकसङ्घातमन्तरेण नोपपद्यते। अतस्सङ्घातभावादिकमुपपन्नम् – इति।

तत्रोत्तरं – न सङ्घातभावानिमत्तत्वात् – इति ।

नैतदुपपद्यते – एषामविद्यादीनां पृथिव्यादिभूतभौतिकसङ्घातभावं प्रत्यनिमित्तत्वात्; न खल्वस्थिरादिषु स्थिरत्वादिबुद्ध्यात्मिकाऽविद्या तन्निमित्ता रागद्वेषादयो वाऽर्थान्तरस्य क्षणिकस्य संहतिहेतुतां प्रतिपद्यन्ते; शुक्तिकारजतादिबुद्धिर्हि न शुक्त्याद्यर्थसंहतिहेतुर्भवति; किंच यस्य क्षणिके स्थिरत्वबुद्धिः, स तदैव नष्ट इति कस्य रागादय उत्पद्यन्ते; संस्काराश्रयं स्थिरमेकं द्रव्यमनभ्युपगच्छतां संस्कारानुवृत्तिरपि न शक्या कल्पयितुम् ।१८॥

क्षणिकत्वपक्षे जगदुत्पत्तेः अनुपपत्त्या दूषणम्

१९३. उत्तरोत्पादे च पूर्वनिरोधात् ॥ २–२–१९ ॥

इतश्च क्षणिकत्वपक्षे जगदुत्पत्तिर्नोपपद्यते, उत्तरक्षणोत्पत्तिवेलायां पूर्वक्षणस्य विनष्टत्वात्, तस्योत्तरक्षणं प्रति हेतुत्वानुपपत्तेः । अभावस्य हेतुत्वे सर्वं सर्वत्र सर्वदोत्पद्येत; अथ पूर्वक्षणवर्तित्वमेव हेतुत्वमित्युच्यते, एवं तर्हि कश्चिदेव घटक्षणस्तदुत्तरकालभाविनां सर्वेषामेव गोमहिषाश्वकुड्यपाषाणादीनां त्रैलोक्यवर्तिनां हेतुस्स्यात्। अथैकजातीयस्यैव पूर्वक्षणवर्तिनो हेतुत्वमिष्यते, तथापि सर्वदेशवर्तिनामुत्तरक्षणभाविनां घटानामेक एव पूर्वक्षणवर्तिघटो हेतुस्स्यात् । अथैकस्यैव हेतुरेक इति मनुषे तथापि कस्यैकस्य को हेतुरिति न ज्ञायते । अथ यस्मिन् देशे यो घटक्षणः स्थितः, तद्देशसम्बन्धिन एवोत्तरक्षणस्य स हेतुरिति, किं देशस्य स्थिरत्वं मनुषे; किञ्च चक्षुरादिसम्प्रयुक्तस्यार्थस्य ज्ञानोत्पत्तिकालेऽनवस्थत्वान्न कस्यचिदर्थस्य ज्ञानविषयत्वं सम्भवति॥१९॥

हेतोरभावेऽपि कार्योत्पादः इति वर्णनायोगः

१९४. असति प्रतिज्ञोपरोधो यौगपद्यमन्यथा ॥ २–२–२० ॥

असत्यपि हेतौ कार्यमुत्पद्यते चेत् – सर्वं सर्वत्र सर्वदोत्पद्येतेत्युक्तम्, न केवलमुत्पत्तिविरोध एव, प्रतिज्ञा च भवतामुपरुध्येत, अधिपतिसहकार्यालम्बनसमनन्तर-प्रत्ययाश्चत्वारो विज्ञानोत्पत्तौ हेतव इति वः प्रतिज्ञा; अधिपतिः इन्द्रियम् । अथ प्रतिज्ञानुपरोधाय घटक्षणे स्थित एव घटक्षणान्तरोत्पत्तिरिष्यते, तथा च सति द्वयोः कार्यकारणयोर्घटक्षणयोः यौगपद्येनोपलब्धिः प्रसज्येत, न च तथोपलभ्यते, क्षणिकत्वप्रतिज्ञा चैवं हीयेत। क्षणिकत्वं स्थितमेवेति चेत् – इन्द्रियसंप्रयोगज्ञानयोर्यौगपद्यं प्रसज्येत॥२०॥

सतोऽर्थस्य निरन्वयविनाशायोगेन क्षणिकत्वायोगः

१९५. प्रतिसंख्याप्रतिसंख्यानिरोधाप्राप्तिरविच्छेदात् ॥ २–२–२१ ॥

एवं तावदसत उत्पित्तिर्निरस्ता; सतो निरन्वयविनाशोऽपि नोपपद्यत इत्युच्यते; क्षणिकत्ववादिभिर्मुद्गराभिघाताद्यनन्तरभावितयोपलब्धियोग्यः सदृशसन्तानावसानरूपः स्थूलो यः, सदृशसन्ताने प्रतिक्षणभावी चोपलब्ध्यनर्हास्सूक्ष्मश्च यो निरन्वयो विनाशः प्रतिसंख्याप्रतिसङ्ख्यानिरोधशब्दाभ्यामभिधीयेते, तौ न सम्भवत इत्यर्थः। कुतः? अविच्छेदात् – सतो निरन्वयविच्छेदासम्भवात्। असम्भवश्च सत उत्पत्तिविनाशौ नामावस्थान्तरापत्तिरेव; अवस्थायोगि तु द्रव्यमेकमेव स्थिरमिति कारणादनन्यत्वं कार्यस्योपपादयद्भिरस्माभिः तदनन्यत्वम् (शा.२.१.१५) इत्यत्र प्रतिपादितः। निर्वाणस्य दीपस्य निरन्वयविनाशदर्शनादन्यत्रापि विनाशो निरन्वयोऽनुमीयत इति चेन्न; घटशरावादौ मृदादिद्रव्यानुवृत्त्युपलब्ध्या सतो द्रव्यस्यावस्थान्तरापत्तिरेव विनाश इति निश्चिते सति प्रदीपादौ सूक्ष्मदशापत्त्याऽप्यनुपलम्भोपपत्तेः। तत्राप्यवस्थान्तरापत्तिकल्पनस्यैव युक्तत्वात्॥२१॥

बौद्धाभिमतयोः उत्पत्तिविनाशयोः दुष्टता

१९६. उभयधा च दोषात् ॥ २–२–२२ ॥

क्षणिकत्ववादिभिरभ्युपेता तुच्छादुत्पत्तिः उत्पन्नस्य तुच्छतापत्तिश्च न सम्भवतीत्युक्तम्; तदुभयप्रकाराभ्युपगतौ दोषश्च भवति । तुच्छादुत्पत्तौ तुच्छात्मकमेव कार्यं स्यात्; यद्धि यस्मादुत्पद्यते, तत्तदात्मकं दृष्टम्, यथा मृत्सुवर्णादेरुत्पन्नं मणिकमकुटादि मृत्सुवर्णाद्यात्मकं दृष्टम्, न च जगत्तुच्छात्मकं भवद्भिरभ्युपगम्यते; न च प्रतीयते। सतो निरन्वयविनाशे सत्येकक्षणादूर्ध्वं कृत्स्नस्य जगतस्तुच्छतापत्तिरेव स्यात्, पश्चात्तुच्छाज्जगदुत्पत्तौ अनन्तरोक्तं तुच्छात्मकत्वमेव स्यात्। अत उभयधापि दोषान्न भवदुक्तप्रकारावुत्पत्तिनिरोधौ॥२२॥

सौगतसम्मताकाशतुच्छताप्रतिक्षेपः

१९७. आकाशे चाविशेषात् ॥ २–२–२३ ॥

बाह्याभ्यन्तरवस्तुनः स्थिरत्वप्रतिपादनाय प्रतिसङ्ख्याप्रतिसङ्खयानिरोधयोः तुच्छरूपता निराकृता; तत्प्रसङ्गेन ताभ्यां सह तुच्छत्वेन सौगतैः परिगणितस्याकाशस्यापि तुच्छता प्रतिक्षिप्यते। आकाशे च निरुपाख्यता न युक्ता, भावरूपत्वेनाभ्युपगतपृथिव्यादिवदाकाशस्यापि अबाधितप्रतीतिसिद्धत्वाविशेषात् । प्रतीयते ह्याकाशः – अत्र श्येनः पतति, अत्र गृध्रः इति श्येनादिपतनदेशत्वेन ॥

आकाशस्य अभावान्तर्भावप्रतिक्षेपः

न च पृथिव्याद्यभावमात्रमाकाश इति वक्तुं शक्यम्, विकल्पासहत्वात्। पृथिव्यादेः प्रागभावः, प्रध्वंसाभावः, इतरेतराभावः, अत्यन्ताभावो वा आकाशः, सर्वथाऽप्याकाशप्रतीत्यनुपपत्तिस्स्यात्। प्रागभावप्रध्वंसाभावयोः आकाशत्वे पृथिव्यादिषु वर्तमानेषु आकाशप्रतीत्ययोगात् निराकाशं जगत्स्यात्। इतरेतराभावस्याकाशत्वेऽपि इतरेतराभावस्य तत्तद्वस्तुगतत्वेन तेषामन्तराले आकाशप्रतीतिर्न स्यात् । अत्यन्ताभावस्तु पृथिव्यादीनां न सम्भवति । अभावस्य विद्यमानपदार्थावस्थाविशेषत्वोपपादनाच्चाकाशस्याभावरूपत्वेऽपि न निरुपाख्यत्वम्। अण्डान्तर्वर्तिनः आकाशस्य त्रिवृत्करणोपदेशप्रदर्शितपञ्चीकरणेन रूपवत्त्वाच्चाक्षुषत्वेऽपि अविरोधः॥२३॥

१९८. अनुस्मृतेश्च ॥२–२–२४॥

प्रत्यभिज्ञाबलेन वस्तुस्थिरत्वोपपादनम्

पूर्वप्रस्तुतं वस्तुनः स्थिरत्वमेवोपपाद्यते – अनुस्मरणं – पूर्वानुभूतवस्तुविषयं ज्ञानम्, प्रत्यभिज्ञानमित्यर्थः। तदेवेदमिति सर्वं वस्तुजातमतीतकालानुभूतं प्रत्यभिज्ञायते । न च भवद्भिर्ज्वालादिष्विव सादृश्यनिबन्धनोऽयमेकत्वव्यामोह इति वक्तुं शक्यम्, व्यामुह्यतो ज्ञातुरेकस्यानभ्युपगमात् । नह्यन्यानुभूतेनैकत्वं सादृश्यं वा स्वानुभूतस्यान्योऽनुसन्धत्ते । अतो भिन्नकालवस्त्वाश्रयसादृश्यानुभवनिबन्धनमेकत्वव्यामोहं वदद्भिर्ज्ञातुरेकत्वमवश्याश्रयणीयम् । न च ज्ञेयेष्वपि घटादिषु ज्वालादिष्विव भेदसाधनप्रमाणं उपलभामहे; येन सादृश्यनिबन्धनां प्रत्यभिज्ञां कल्पयेम।

प्रत्यक्षानुमानाभ्यां वस्तुक्षणिकत्वसिद्ध्याशङ्का-निरासौ

यदपि चेदमुच्यते प्रत्यक्षानुमानाभ्यां घटादेः क्षणिकत्वं सिध्यति; प्रत्यक्षं तावद्वर्तमानार्थविषयमवर्तमानाद्वस्तुनो व्यावृत्तं स्वविषयमवगमयति, नीलमिव पीतात् । एवं च भूतभविष्यद्भ्यां वर्तमानस्य वस्त्वन्तरत्वमवगतं भवति। अनुमानमपि अर्थक्रियाकारित्वात्सत्त्वाच्च घटादिः क्षणिकः, यदक्षणिकं शशविषाणादि, तदनर्थक्रियाकार्यसच्च। तथा अन्त्यघटक्षणसत्त्वात्पूर्वघटक्षणसत्त्वानि विनाशीनि, घटक्षणसत्त्वात्, अन्त्यघटक्षणसत्त्ववत् – इति; तच्च कार्यकारणभावानुपपत्त्यादिभिः पूर्वमेव निरस्तम्। किञ्च प्रत्यक्षगम्या वर्तमानस्यावर्तमानाद्व्यावृत्तिर्न वर्तमानस्य वस्त्वन्तरत्वमवगमयति; अपि तु वर्तमानकालयोगिता-मात्रम्। न च तावता वस्त्वन्तरत्वं सिध्यति, तस्यैव कालान्तरयोगसम्भवात् ॥

क्षणिकत्वसाधकहेतुदूषणम्

यत्तु सत्त्वादर्थक्रियाकारित्वाच्चेति क्षणिकत्वे हेतुद्वयमुक्तम्, तदभिमतविपरीतसाधनत्वात् विरुद्धम्। सत्त्वादर्थक्रियाकारित्वाद्वा घटादि स्थास्नु, यदस्थास्नु तदसदनर्थक्रियाकारि च, यथा शशविषाणमित्यपि हि वक्तुं शक्यम् । किञ्च अर्थक्रियाकारित्वमक्षणिकत्वमेव साधयेत्। क्षणध्वंसिनो हि व्यापारासम्भवादर्थक्रियाकारित्वं न सम्भवतीत्युक्तम्। तथाऽन्त्यघटक्षणस्य हेतुतो नाशदर्शनादितरेऽपि घटक्षणा हेत्वपेक्षविनाशास्स्युरित्यामुद्गरादिहेतूपनिपातात् स्थास्नुत्वमेव । न च वाच्यं न मुद्गरादयो विनाशहेतवः, अपि तु कपालादिविसदृशसन्तानोत्पत्तिहेतव इति, कपालत्वावस्थापत्तिरेव घटादीनां विनाश इत्युपपादितत्वात् । कपालोत्पत्तिव्यतिरिक्तत्वाभ्युपगमेऽपि विनाशस्य विनाशहेतुत्वमेव मुद्गरादेरानन्तर्याद्युक्तम् ॥

प्रत्यक्षिज्ञायाः स्थिरत्वावगमकतादृढीकरणम्

अतः प्रत्यभिज्ञया स्थिरत्वमवगम्यमानं न केनापि प्रकारेणापह्नोतुं शक्यम्। पूर्वापरकालसम्बन्ध्यर्थैक्यविषयायाः प्रत्यभिज्ञाया अन्यविषयत्वं ब्रुवन्नीलादिज्ञानानामपि नीलादेरर्थान्तरविषयत्वं ब्रूयात् । किञ्च प्रमातृप्रमेययोः क्षणिकत्वं वदद्भिर्व्याप्त्यवधारणतत्स्मरण-पूर्वकानुमानाभ्युपगमोऽपि दुश्शकः। तथा इदं क्षणिकमित्यादिप्रतिज्ञापूर्वकहेतूपन्यासादिकमपि नोपपद्यते भवताम्; प्रतिज्ञोपक्रमक्षण एव वक्तुर्विनष्टत्वात्; नह्यन्येनोपक्रान्तमजानद्भिः अन्यैस्समापयितुं शक्यम् ॥२४॥

१९९. नासतोऽदृष्टत्वात् ॥ २–२–२५ ॥

एवं तावद्वैभाषिकसौत्रान्तिकयोर्बाह्यार्थास्तित्ववादिनोस्साधारणानि दूषणान्युक्तानि; तत्र यदुक्तं – सम्प्रयुक्तस्यार्थस्य ज्ञानोत्पत्तिकालेऽनवस्थितत्वान्न कस्यचिदर्थस्य ज्ञानविषयत्वं सम्भवतीति; तत्र सौत्रान्तिकः प्रत्यवतिष्ठते –

ज्ञेयार्थस्य ज्ञानसमकालवर्तितायाः अनुपयोगिता, सौत्रान्तिकोक्ता

न ज्ञानकालेऽनवस्थानमर्थस्य ज्ञानाविषयत्वहेतुः; ज्ञानोत्पत्तिहेतुत्वमेव हि ज्ञानविषयत्वम् । न चैतावता चक्षुरादेः ज्ञानविषयत्वप्रसङ्गः, स्वाकारसमर्पणेन ज्ञानहेतोरेव ज्ञानविषयत्वाभ्युपगमात् । ज्ञाने स्वाकारं समर्प्य विनष्टोऽप्यर्थो ज्ञानगतेन नीलाद्याकारेणानुमीयते। न च पूर्वपूर्वज्ञानेनोत्तरोत्तरज्ञानाकारसिद्धिः, नीलज्ञानसन्ततौ पीतज्ञानानुत्पत्तिप्रसङ्गात् । अतोऽर्थकृतमेव ज्ञानवैचित्र्यम् – इति ।

सौत्रान्तिकोक्तस्यार्थस्य सूत्रार्थवर्णनतो निरासः

अत्रोच्यते – नासतोऽदृष्टत्वात् इति, योऽयं ज्ञाने नीलादिराकार उपलभ्यते, स विनष्टस्यासतोऽर्थस्याकारो भवितुं नार्हाति; कुतः? अदृष्टत्वात् – न खलु धर्मिणि विनष्टे तद्धर्मस्यार्थान्तरे सङ्क्रमणं दृष्टम्। प्रतिबिम्बादिकमपि स्थिरस्यैव भवति। तत्रापि न धर्ममात्रस्य। अतोऽर्थवैचित्र्यकृतं ज्ञानवैचित्र्यमर्थस्य ज्ञानकालेऽवस्थानादेव भवति॥२५॥

अनुद्योगिनामपि सर्वार्थसिद्धिप्रसङ्गेन क्षणिकत्वादेर्दुष्टता

पुनरपि साधारणं दूषणमाह

२००. उदासीनानामपि चैवं सिद्धिः ॥ २–२–२६ ॥

एवं क्षणिकत्वासदुत्पत्त्यहेतुकविनाशाद्यभ्युपगमे उदासीनानाम् अनुद्युञ्जानानामपि सर्वार्थसिद्धिस्स्यात्। इष्टप्राप्तिरनिष्टनिवृत्तिर्वा प्रयत्नादिभिस्साध्यते । क्षणध्वंसे हि सर्वेषां भावानां पूर्वपूर्वं वस्तु तद्गतो वा विशेषः संस्कारादिको विद्यादिर्वा उत्तरत्र न कश्चिदनुवर्तत इति प्रयत्नादिसाध्यं न किञ्चदस्ति। एवं सत्यहेतुसाध्यत्वात्सर्वसिद्धीनां उदासीनानामप्यैहिकामुष्मिक-फलं मोक्षश्च सिद्ध्येत् ॥२६॥

इति शारीरकमीमांसाभाष्ये समुदायाधिकरणं समाप्तम्॥३॥