श्रीभाष्यम् 02-04-01 प्राणोत्पत्त्यधिकरणम्

श्रीभगवद्रामानुजविरचते श्रीशारीरकमीमांसाभाष्ये

द्वितीये अविरोधाध्याये चतुर्थः प्राणपादः ॥

पादार्थः – प्राणादीनां जीवोपकरणानां ब्रह्मकार्यत्वचिन्ता

प्राणोत्पत्त्यधिकरणम्॥१॥

अधिकरणार्थः

प्राणशब्दवाच्यानामिन्द्रियाणामपि वियदादिवत् ब्रह्मकार्यता

२६९. तथा प्राणाः ॥ २–४–१ ॥

पादसङ्गतिप्रदर्शनम्

ब्रह्मव्यतिरिक्तस्य वियदादेः कृत्स्नस्य कार्यत्वेनोत्पत्तावुक्तायां जीवस्य कार्यत्वेऽपि स्वरूपान्यथाभावलक्षणोत्पत्तिरपोदिता; तत्प्रसङ्गेन जीवस्वरूपं शोधितम् ॥

सम्प्रति जीवोपकरणानामिन्द्रियाणां प्राणस्य चोत्पत्त्यादिप्रकारो विशोध्यते ।

विचाराङ्गसंशयस्वरूपम्

तत्र किमिन्द्रियाणां कार्यत्वं जीववत्; उत वियदादिवदिति चिन्त्यते ।

अधिकरणद्वयार्थनिगमनम्

किं युक्तम्? जीववदेवेत्याह पूर्वपक्षी तथा प्राणाः – इति। प्राणाः – इन्द्रियाणि । यथा जीवो नोत्पद्यते; तथेन्द्रियाण्यपि नोत्पद्यन्ते। कुतः?

श्रुतेः। यथा जीवस्यानुत्पत्तिः श्रुतेरवगम्यते; तथा प्राणानामप्यनुत्पत्तिः श्रुतेरेवावगम्यते। तथा प्राणा इति प्रमाणमप्यतिदिश्यते ॥

अतिदेशतः सिद्धरूपं श्रुतिप्रमाणम्

का पुनरत्र श्रुतिः? असद्वा इदमग्र आसीत् । तदाहुः किं तदासीदिति ऋषयो वा व ते अग्रे सदासीत् तदाहुः के ते ऋषय इति प्राणा वा व ऋृषयः (शत.६.१.१) इति जगदुत्पत्तेः प्रागिन्द्रियाणां सद्भावः श्रूयते। प्राणशब्दे बहुवचनादिन्द्रियाण्येवेति निश्चीयते।

श्रुतेः अन्यथानेयत्वशङ्का-परिहारौ

न चेयं श्रुतिः वायुश्चान्तिरक्षं चैतदमृतम् (बृ.४.३.३) सैषाऽनस्तमिता देवता यद्वायुः (शतपथ.६.१.१) इतिवच्चिरकालावस्थायित्वेन परिणेतुं शक्या, असद्वा इदमग्र आसीत् (छां.६.२.१) इति कृत्स्नप्रपञ्चप्रलयवेलायामपि अवस्थितत्वश्रवणात्। उत्पत्तिवादिन्यस्तु जीवोत्पत्तिवादिन्य इव नेतव्या इति॥

अधिकरणीयः सिद्धान्तः

एवं प्राप्तेऽभिधीयते – वियदादिवदेव प्राणाश्चोत्पद्यन्ते; कुतः? सदेव सोम्येदमग्र आसीत् (छा.६.२.१) आत्मा वा इदमेक एवाग्र आसीत् (ऐ.१.१.१.१) इत्यादिषु प्राक्सृष्टेरेकत्वावधारणात्, एतस्माज्जायते प्राणो मनस्सर्वेन्द्रियाणि च (मु.२.१.३) इतीन्द्रियाणामुत्पत्तिश्रवणाच्च, प्रागवस्थानासम्भवात् ॥

इन्द्रियोत्पत्तिवादस्य आत्मोत्पत्तिवादवैषम्यम्

न चात्मोत्पत्तिवादवदिन्द्रियोत्पत्तिवादाः परिणेतुं शक्याः, आत्मवदुत्पत्तिप्रतिषेधश्रुतीनां नित्यत्वश्रुतीनां चादर्शनात् ॥

असद्वा इति प्रस्तुतस्य वाक्यस्य परमात्मपरता

असद्वा इदमग्र आसीत् (शत.६.१.९) इत्यादिवाक्येऽपि प्राणशब्देन परमात्मैव निर्दिश्यते। सर्वाणि ह वा इमानि भूतानि प्राणमेवाभिसंविशन्ति प्राणमभ्युज्जिहते (छा.१.११.५) इति प्राणशब्दस्य परमात्मन्यपि प्रसिद्धेः। प्राणा वा व ऋषयः (शत.६.१.१) इति ऋषिशब्दश्च सर्वज्ञे तस्मिन्नेव युज्यते। न त्वचेतनेष्विन्द्रियेषु॥१॥

प्राणर्षिशब्दयोः परमात्मपरत्वे बहुवचनविरोधशमनम्

ऋषयः, प्राणा इति च बहुवचनश्रुतिः कथमुपपद्यत इति चेत् तत्राह;

२७०. गौण्यसम्भवात्तत्प्राक्छ्रुतेश्च ॥ २–४–२ ॥

बहुवचनश्रुतिर्गौणी, बह्वर्थासम्भवात्, तस्यैव परमात्मनः सृष्टेः प्रागवस्थानश्रुतेरेव॥२॥

प्राणशब्दस्य परमात्मपरत्वे उपष्टम्भकम्

२७१. तत्पूर्वकत्वाद्वाचः ॥ २–४–३ ॥

इतश्च प्राणशब्दः परमात्मवचनः; वाचः – परमात्मव्यतिरिक्तविषयस्य नामधेयस्य वाग्विषयभूतवियदादिसृष्टिपूर्वकत्वात्। तद्धेदं तर्ह्यव्याकृतमासीत्तन्नामरूपाभ्यां व्याक्रियत (बृ.३.४.७) इति नामरूपभाजामभावात्तदानीं वागादीन्द्रियकार्याभावाच्च तानि न सन्तीत्यर्थः॥३॥

इति श्रीशारीरकमीमांसाभाष्ये प्राणोत्पत्त्यधिकरणम्॥ १॥