श्रीभाष्यम् 01-04-35 सर्वव्याख्यानाधिकरणम्

श्रीशारीरकमीमांसाभाष्ये सर्वव्याख्यानाधिकरणम्॥८॥

(अधिकरमणार्थः – सर्ववेदान्तगतानां सर्वेषां जगत्कारणत्वपरवाक्यानां, ब्रह्मपरत्वमेव)

(सर्वविद्यासम्बन्धिविचाररूपम्)

१३८. एतेन सर्वे व्याख्याताव्याख्याताः ॥ १–४–२९ ॥

(उक्तेनार्थेन सर्ववेदान्ततात्पर्यनिर्णयः)

एतेन पादचतुष्टयोक्तन्यायकलापेन, सर्ववेदान्तेषु जगत्कारणप्रतिपादनपरास्सर्वे वाक्यविशेषाश्चेतनाचेतनविलक्षणसर्वज्ञसर्वशक्तिब्रह्मप्रतिपादनपरा व्याख्याताः। व्याख्याताः इति पदाभ्यासोऽध्यायपरिसमाप्तिद्योतनार्थः॥ २९॥

इति श्रीशारीरकमीमांसाभाष्ये सर्वव्याख्यानाधिकरणम्॥८॥

इति श्रीभगवद्रामानुजविरचिते शारीरकमीमांसाभाष्ये

प्रथमस्याध्यायस्य चतुर्थः पादः॥४॥

॥ समाप्तश्च प्रथमोऽध्यायः ॥