श्रीभाष्यम् 01-03-26A प्रमिताधिकरणशेष:

(श्रीशारीरकमीमासांभाष्ये प्रमिताधिकरणशेष🙂

(पूर्वेणाधिकरणेन प्रसक्तिः)

तदेवं प्रसक्तानुप्रसक्ताधिकारकथां परिसमाप्य प्रकृतस्याङ्गुष्ठप्रमितस्य भूतभव्येशितृत्वावगत परब्रह्मभावोत्तम्भनं हेत्वन्तरमाह –

१०५. कम्पनात् ॥ १–३–४० ॥

(सूत्रार्थविवृतिः)

अङ्गुष्ठमात्रः पुरुषो मध्य आत्मनि तिष्ठति (कठ.२.४.१२) अङ्गुष्ठमात्रः पुरुषोऽन्तरात्मा (कठ.२.६.१७) इत्यनयोर्वाक्ययोर्मध्ये यदिदं किञ्च जगत्सर्वं प्राण एजति निस्सृतम्। महद्भयं वज्रमुद्यतं य एतद्विदुरमृतास्ते भवन्ति। भयादस्याग्निस्तपति भयात्तपति सूर्यः। भयादिन्द्रश्च वायुश्च मृत्युर्धावति पञ्चमः (कठ.२.६.४,२) इति कृत्स्नस्य जगतोऽग्निसूर्यादीनां चास्मिन्नङ्गुष्ठमात्रे पुरुषे प्राणशब्दनिर्दिष्टे स्थितानां सर्वेषां ततो निस्सृतानां तस्मात्सञ्जातमहाभयनिमित्तम् एजनं कम्पनं श्रूयते। तच्छासनातिवृत्तौ किं भविष्यतीति महतो भयाद्वज्रादिवोद्यतात्कृत्स्नं जगत्कम्पत इत्यर्थः।

(विषयवाक्यस्य योजनायाः अनुशासनात्सिद्धिः)

भयादस्याग्निस्तपति (कठ.सू.२.६.३) इत्यनेनैकार्थ्यात् महद्भयं वज्रमुद्यतम् (कठ.२.६.२) इति पञ्चम्यर्थे प्रथमा। अयञ्च परस्य ब्रह्मणस्स्वभावः एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतः (बृ.५.८.९), भीषाऽस्माद्वातः पवते भीषोदेति सूर्यः। भीषाऽस्मादग्निश्चेन्द्रश्च। मृत्युर्धावति पञ्चमः (तै.आ.८.१) इति परस्य ब्रह्मणः पुरुषोत्तमस्यैवं-विधैश्वर्यावगतेः॥ ४०॥

इतश्चाङ्गुष्ठप्रमितः पुरुषोत्तमः

१०६. ज्योतिर्दर्शनात् ॥ १–३–४१ ॥

(सूत्रार्थविवृतिः, परस्य ब्रह्मणः ज्योतिष्ट्वं च)

तयोरेवाङ्गुष्ठप्रमितविषययोर्वाक्ययोर्मध्ये परब्रह्मासाधारणं सर्वतेजसां छादकं सर्वतेजसां कारणभूतमनुग्राहकं चाङ्गुष्ठप्रमितस्य ज्योतिर्दृश्यते– न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयमग्निः। तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति ॥ (कठ.२.५.१५) इति। अयमेव श्लोक आथर्वणे परं ब्रह्माधिकृत्य श्रूयते। परज्योतिष्ठ्वं च सर्वत्र परस्य ब्रह्मणश्श्रूयते। यथा – परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते (छा.८.१२.२) तं देवा ज्योतिषां ज्योतिरायुर्होपासतेऽमृतम् (बृ.६.४.१६) अथ यदतः परो दिवो ज्योतिर्दीप्यते (छां.३.१३.७) इत्यादिषु। अतो अङ्गुष्ठप्रमितः परं ब्रह्म॥ ४१॥

इति श्रीशारीरकमीमांभाष्ये प्रमिताधिकरणशेषः ॥६॥