श्रीभाष्यम् 01-03-18 द्युभ्वाद्यधिकरणम्

श्रीशारिकमीमांसाश्रीभाष्ये

अन्ययोगव्यवच्छेदत्रिपाद्यन्तर्गतः स्पष्टजीवादिलिङ्गकवेदान्त-

वाक्यार्थविचारात्मकः

तृतीयः पादः

(पादार्थः – ब्रह्मैव सर्वजगत्कारणम्)

प्रथमाध्याये–तृतीयपादे–द्युभ्वाद्यधिकरणम्॥१॥

(अधिकरणार्थः – द्युःपृथिव्यादीनां आयतनं परमात्मैव, न जीवः)

(अक्षरपरब्रह्मविद्या मुण्ड.उ. 1.2)

६६. द्युभ्वाद्यायतनं स्वशब्दात् ॥ १–३–१ ॥

(विषयवाक्यम्)

आथर्वणिका अधीयते – यस्मिन्द्यौः पृथिवी चान्तरिक्षमोतं मनस्सह प्राणैश्च सर्वैः। तमेवैकं जानथात्मानमन्या वाचो विमुञ्चथ अमृतस्यैष सेतुः (मुण्ड.२.२.५) इति।

(अधिकरणाङ्गभूतः संशयः)

तत्र संशयः किमयं द्युपृथिव्यादीनामायतनत्वेन श्रूयमाणो जीवः, उत परमात्मा – इति।

(सयुक्तिकः पूर्वपक्षः)

किं युक्तम्**?** जीव इति। कुतः – अरा इव रथनाभौ संहता यत्र नाड्यस्स एषोऽन्तश्चरते बहुधा जायमानः (मु.२.२.६.) इति परस्मिन् श्लोके पूर्ववाक्यप्रस्तुतं द्युपृथिव्याद्यायतनं यत्र इति पुनरपि सप्तम्यन्तेन परामृश्य तस्य नाड्याधारत्वमुक्त्वा, पुनरपि स एषोऽन्तश्चरते बहुधा जायमानः (मु.२.२.६) इति तस्य बहुधाजायमानत्वं चोच्यते; नाडीसम्बन्धो देवादिरूपेण बहुधाजायमानत्वं च जीवस्यैव धर्मः। अस्मिन्नपि श्लोके ओतं मनस्सह प्राणैश्च सर्वैः (मु.२.२.५) इति प्राणपञ्चकस्य मनसश्चाश्रयत्वमुच्यमानं जीवधर्म एव। एवं जीवत्वे निश्चिते सति द्युपृथिव्याद्यायतनत्वादिकं यथाकथञ्चित्सङ्गमयितव्यम् इति।

(सयुक्तिकः सिद्धान्तः)

एवं प्राप्ते प्रचक्ष्महे – द्युभ्वाद्यायतनं स्वशब्दात् – द्युपृथिव्यादीनामायतनं परं ब्रह्म; कुत**😕** स्वशब्दात् – परब्रह्मासाधारणशब्दात्। अमृतस्यैष सेतुः (मु.२.२.५) इति परस्य ब्रह्मणोऽसाधारणश्शब्दः। तमेवं विद्वानमृत इह भवति। नान्यः पन्था अयनाय विद्यते (पु.सू) इति सर्वत्रोपिनषत्सु स एवामृतत्वप्राप्तिहेतुश्श्रूयते। सिनोतेश्च बन्धनार्थत्वात् सेतुः अमृतस्य प्रापक इत्यर्थः। सेतुरिव वा सेतुः – नद्यादिषु सेतुर्हि कूलस्य प्रतिलम्भकः – संसारार्णवपारभूतस्यामृतस्यैष प्रतिलम्भक इत्यर्थः। आत्मशब्दश्च निरुपाधिकः परस्मिन्ब्रह्मणि मुख्यवृत्तः, आप्नोतीति ह्यात्मा; स्वेतरसमस्तस्य नियन्तृत्वेन व्याप्तिस्तस्यैव सम्भवति। अतस्सोऽपि तस्यैव शब्दः। यस्सर्वज्ञस्सर्ववित् (मु.२.२.७) इत्यादयश्चोपरितनाः परस्यैव ब्रह्मणश्शब्दाः। नाड्याधारत्वं तस्यापि सम्भवति सन्ततं सिराभिस्तु लम्बत्याकोशसन्निभम् (तै.नारा.१३) इत्यारभ्य तस्याश्शिखाया मध्ये परमात्मा व्यवस्थितः (तै.नारा.१३) इति श्रवणात्।

(स्वाधीनः परमात्मनोऽवतारः)

बहुधा जायमानः (मु.२.२.६) इत्यपि परस्मिन् ब्रह्मणि सङ्गच्छते – अजायमानो बहुधा विजायते। तस्य धीराः परिजानन्ति योनिम् (पु.सू) इति देवादीनां समाश्रयणीयत्वाय तत्तज्जातीयरूपसंस्थानगुणकर्मसमन्वितः स्वकीयं स्वभावमजहदेव स्वेच्छया बहुधा विजायते परः पुरुष इत्यभिधानात्। स्मृतिरपि अजोऽपि सन्नव्ययात्मा भूतानामीश्वरोऽपि सन् । प्रकृतिं स्वामधिष्ठाय सम्भवाम्यात्ममायया (भ.गी.४.६) इति। मनःप्रभृतिजीवोपकरणाधारत्वं च सर्वाधारस्य परस्यैवोपपद्यते॥१॥

(मुक्तप्राप्यत्वं परमात्मत्वे लिङ्गम्)

इतश्च परमपुरुषः –

६७. मुक्तोपसृप्यव्यदेशाच्च ॥ १–३–२ ॥

अयं द्युपृथिव्याद्यायतनभूतः पुरुषः संसारबन्धान्मुक्तैरपि प्राप्यतया व्यपदिश्यते – यदा पश्यः पश्यते रुक्मवर्णं कर्तारमीशं पुरुषं ब्रह्मयोनिम्। तदा विद्वान्पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैति (मु.३.१.३) यथा नद्यस्स्यन्दमानास्समुद्रे अस्तं गच्छन्ति नामरूपे विहाय। तथा विद्वान्नामरूपाद्विमुक्तः परात्परं पुरुषमुपैति दिव्यम् (मु.३.२.८) इति। संसारबन्धनाद्विमुक्ता एव हि विधूतपुण्यपापा निरञ्जना नामरूपाभ्यां विनिर्मुक्ताश्च। पुण्यपापनिबन्धनाचित्संसर्गप्रयुक्त-नामरूपभाक्त्वमेव हि संसारः। अतो विधूतपुण्यपापैर्निरञ्जनैः प्रकृतिसंसर्गरहितैः परेण ब्रह्मणा परमं साम्यमापन्नैः प्राप्यतया निर्दिष्टो द्युपृथिव्याद्यायतनभूतः पुरुषः परं ब्रह्मैव॥२॥

(प्रकरणे जीवासाधारणशबदाभावोऽपि ज्ञापकः)

परब्रह्मासाधारणशब्दाादिभिः परमेव ब्रह्मेति प्रसाध्य, प्रत्यगात्मासाधारण शब्दाभावाच्चायं पर एवेत्याह –

६८. नानुमानमतच्छब्दात्प्राणभृच्च ॥ १–३–३ ॥

यथाऽस्मिन्प्रकरणे प्रतिपादकशब्दाभावात्प्रधानं न प्रतिपाद्यम्; एवं प्राणभृदपीत्यर्थः। अनुमीयत इत्यनुमानं परोक्तं प्रधानमुच्यते, अनुमानप्रमितत्वादानुमानमिति वा; अतच्छशब्दात्– तद्वाचिशब्दाभावादित्यर्थः। अर्थाभावे यदव्ययम् इत्यव्ययीभावः॥ ३॥

(श्रुतौ जीवभेदज्ञापकः शब्दः, परमात्मत्वे लिङ्गम्)

इतश्चायं न प्रत्यगात्मा –

६९. भेदव्यपदेशात् ॥ १–३–४ ॥

समाने वृक्षे पुरुषो निमग्नोऽनीशया शोचति मुह्यमानः। जुष्टं यदा पश्यत्यन्यमीशमस्य महिमानमिति वीतशोकः (श्वेत.४.७,मुण्ड.३.१.२) इत्यादिभिर्जीवाद्विलक्षणत्वेनायं व्यपदिश्यते। अनीशया भोग्यभूतया प्रकृत्या मुह्यमानश्शोचति जीवः, अयं यदा स्वस्मादन्यं सर्वस्येशं प्रीयमाणम्, अस्य ईश्वरस्य महिमानं च निखिलजगन्नियमनरूपं पश्यति; तदा वीतशोको भवति॥४॥

७०. प्रकरणात् ॥ १–३–५ ॥

प्रकरणं चेदं परस्य ब्रह्मण इति अदृश्यत्वादिगुणको धर्मोक्तेः (शारी.१.९.२२) इत्यत्रैव प्रदर्शितम्। नाडीसम्बन्धबहुधाजायमानत्वमनःप्राणाधारत्वैश्च प्रकरणविच्छेदाशङ्कामात्रमत्र पर्यहार्ष्म॥५॥

७१. स्थित्यदनाभ्याञ्च ॥ १–३–६ ॥

द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते। तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्यो अभिचाकशीति (श्वे.४.६) इत्येकस्य कर्मफलादनम् अन्यस्य च कर्मफलमनश्नत एव दीप्यमानतया शरीरान्तस्स्थितिमात्रं प्रतिपाद्यते। तत्र कर्मफलमनश्नन्दीप्यमान एव सर्वज्ञोऽमृतसेतुस्सर्वात्मा द्युभ्वाद्यायतनं भवितुमर्हाति, न पुनः कर्मफलमदन् शोचन्प्रत्यगात्मा। अतो द्युभ्वाद्यायतनं परमात्मेति सिद्धम्॥ ६॥

इति श्रीशारीरिकमीमांसाभाष्ये द्युभ्वाद्यधिकरणम्॥१॥