श्रीभाष्यम् 01-02-17 वैश्वानराधिकरणम्

श्रीशारीरकमीमांसाभाष्ये वैश्वानराधिकरणम्॥६॥

अधिकरणार्थः

वैश्वानरशब्दार्थः परमात्मैव, न जाठराग्न्यादिकम्

वैश्वानरविद्या – छा.उ. 5-11

५७. वैश्वानरस्साधारणशब्दविशेषात् ॥ १-२-२५ ॥

विषयवाक्यप्रदर्शनम्

इदमामनन्ति च्छन्दोगाः आत्मानमेवेमं वैश्वानरं सम्प्रत्यध्येषि तमेव नो ब्रूहि (छां.५.११.६) इति प्रक्रम्य यस्त्वेतमेवं प्रादेशमात्रमभिविमानमात्मानं वैश्वानरमुपास्ते (छा.५.१८.१) इति।

संशयस्वरूपम्

तत्र सन्देहः – किमयं वैश्वानर आत्मा, परमात्मेति शक्यनिर्णयः, उत न – इति।

सयुक्तिकः पूर्वपक्षः

किं प्राप्तम् अशक्यनिर्णय इति। कुतः? वैश्वानरशब्दस्य चतुष्वर्थेषु प्रयोगदर्शनात् – जाठराग्नौ तावत् अयमग्निर्वैश्वानरो येनेदमन्नं पच्यते यदिदमद्यते तस्यैष घोषो भवति यावदेतत्कर्णावपिधाय शृणोति स यदोत्क्रमिष्यन्भवति नैनं घोषं शृणोति (बृ.७.९.१) इति; महाभूततृतीये च विश्वस्मा अग्नं भुवनाय देवा वैश्वानरं केतुमह्नामकृणवन् इति देवतायां च वैश्वानरस्य सुमतौ स्याम राजा हि कं भुवनानामभिश्रीः (तै.यजु.१.५.११) इति; परमात्मनि च तदात्मन्येव हृदयेऽग्नौ वैश्वानरे प्रास्यत् (तै.अष्ट.३.१२.८) इति, स एष वैश्वानरो विश्वरूपः प्राणोऽग्निरुदयते (प्रश्न.१.७) इति च। वाक्योपक्रमादिषूपलभ्यमानान्यपि लिङ्गानि सर्वानुगुणतया नेतुं शक्यानीति॥

सिद्धान्तस्वरूपम्

एवं प्राप्तेऽभिधीयते – वैश्वानरस्साधारणशब्दविशेषात् – वैश्वानरः पर एवात्मा, कुतः? साधारणशब्दविशेषात् विशेष्यत इति विशेषः – साधारणस्य वैश्वानरशब्दस्य परमात्मासाधारणैर्धर्मैः विशेष्यमाणत्वादित्यर्थः। तथाहि – औपमन्यवादयः पञ्चेमे महर्षयस्समेत्य को न आत्मा किं ब्रह्म (छां.५.१.१) इति विचार्य उद्दालको ह वै भगवन्तोऽयमारुणिस्सम्प्रतीममात्मानं वैश्वानरमध्येति तं हन्ताभ्यागाच्छाम (छां.५.११.२) इत्युद्दालकस्य वैश्वानरात्मविज्ञानमवगम्य तमभ्याजग्मुः। स चोद्दालक एतान्वैश्वानरात्मजिज्ञासूनभिलक्ष्यात्मनश्च तत्राकृत्स्नवेदित्वं मत्वा तान् होवाच अश्वपतिर्वै भगवन्तोऽयं केकयस्सम्प्रतीममात्मानं वैश्वानरमध्येति तं हन्ताभ्यागच्छाम (छा.५-११-४) इति – ते चोद्दालकषष्ठास्तमश्वपतिमभ्याजग्मुः। स च तान्महर्षीन्यथार्हं पृथगभ्यर्च्य न मे स्तेनः (छा.५.११.५) इत्यादिना यक्ष्यमाणो ह वै भगवन्तोऽहमस्मि (छां.५.११.१) इत्यन्तेनाऽत्मनो व्रतस्थतया प्रतिग्रहयोग्यतां ज्ञापयन्नेव ब्रह्मविद्भिरपि प्रतिषिद्धपरिहरणीयतां विहितकर्मकर्तव्यतां च प्रज्ञाप्य यावदेकैकस्मा ऋत्विजे धनं दास्यामि तावद्भगवद्भ्यो दास्यामि वसन्तु भवन्तः (छां.५.११.५) इत्यवोचत्। ते च मुमुक्षवो वैश्वानरमात्मानं जिज्ञासमानास्तमेवात्मानमस्माकं ब्रूहीत्यवोचन्। तदेवं को न आत्मा किं ब्रह्म (छा.५.११.४) इति जीवात्मनामात्मभूतं ब्रह्म जिज्ञासमानैस्तज्ज्ञमन्विच्छद्भिर्वैश्वानरात्मज्ञसकाशमागम्य पृच्छयमानो वैश्वानरात्मा परमात्मेति विज्ञायते, आत्मब्रह्मशब्दाभ्यामुपक्रम्य पश्चात्सर्वत्रात्मवैश्वानरशब्दाभ्यां व्यवहाराच्च ब्रह्मशब्दस्थाने निर्दिश्यमानो वैश्वानरशब्दो ब्रह्मैवाभिधत्त इति विज्ञायते । किञ्च स सर्वेषु लोकेषु सर्वेषु भूतेषु सर्वेष्वात्मस्वन्नमत्ति (छां.५.१८.१) तद्यथेषीकतूलमग्नौ प्रोतं प्रदूयेतैवं हास्य सर्वे पाप्मानः प्रदूयन्ते (छां.५.२४.३) इति च वक्ष्यमाणं वैश्वानरात्मविज्ञानफलं वैश्वानरात्मनं परं ब्रह्मेति ज्ञापयति॥२५॥

वैश्वानरस्य परमात्मत्वे ज्ञापकान्तरम्

इतश्च वैश्वानरः परमात्मा –

५८. स्मर्यमाणमनुमानं स्यादिति ॥ १-२-२६ ॥

द्युप्रभृतिपृथिव्यन्तमवयवविभागेन वैश्वानरस्य रूपमिहोपदिश्यते। तच्च श्रुतिस्मृतिषु परमपुरुषरूपतया प्रसिद्धम्। तदिह तदेवेदमिति स्मर्यमाणं – प्रत्यभिज्ञायमानं वैश्वानरस्य परमपुरषत्वे अनुमानं – लिङ्गमित्यर्थः; इति शब्दः प्रकारवचनः; इत्थंभूतं रूपं प्रत्यभिज्ञायमानं वैश्वानरस्य परमात्मत्वेऽनुमानं स्यात्। श्रुतिस्मृतिषु हि परमपुरुषस्येत्थं रूपं प्रसिद्धम्। यथा आथर्वणे अग्निर्मूर्धा चक्षुषी चन्द्रसूर्यौ दिशश्श्रोत्रे वाग्विवृताश्च वेदाः। वायुः प्राणो हृदयं विश्वमस्य पद्भ्यां पृथिवी ह्येष सर्वभूतान्तरात्मा (मु.२.१.४) इति। अग्निरिह द्युलोकः, असौ वै लोकोऽग्निः (बृ.८.२.९) इति श्रुतेः। स्मरन्ति च मुनयः द्यां मूर्धानं यस्य विप्रा वदन्ति खं वै नाभिं चन्द्रसूर्यौ च नेत्रे । दिशश्श्रोत्रे विद्धि पादौ क्षितिं च सोऽचिन्त्यात्मा सर्वभूतप्रणेता इति यस्याग्निरास्यं द्यौर्मूर्धा खं नाभिश्चरणौ क्षितिः। सूर्यश्चक्षुर्दिशश्श्रोत्रं तस्मै लोकात्मने नमः (महा.शान्ति.राजधर्मः) इति च।

द्युप्रभृतीनां वैश्वानरावयत्वरूपणम्

इह च द्युप्रभृतयो वैश्वानरस्य मूर्धाद्यवयवत्वेनोच्यन्ते – तथा हि तैरौपमन्यवप्रभृतिभिः महर्षिभिः आत्मानमेवेमं वैश्वानरं सम्प्रत्यध्येषि तमेव नो ब्रूहि (छा.५.११.६) इति पृष्टः केकयस्तेभ्यो वैश्वानरात्मानमुपदिदिक्षुः विशेषप्रश्नान्यथानुपपत्त्या वैश्वानरात्मन्येतैः किञ्चित् ज्ञातं किञ्चिदज्ञातमिति विज्ञाय ज्ञाताज्ञातांशबुभुत्सया तानेकैकं पप्रच्छ । तत्र औपमन्यव कं त्वमात्मानमुपास्से (छां.५.१.६) इति पृष्टे दिवमेव भगवो राजन् (छा.५.१२.१) इति तेन चोक्ते दिवि तस्य पूर्णवैश्वानरात्मबुद्धिं निवर्तयन्वैश्वानरस्य द्यौर्मूधा?? इति चोपदिशंस्तस्या वैश्वानरांशभूताया दिवः सुतेजा इति गुणनामधेयं प्राचिख्यपत्। एवं सत्ययज्ञादिभः आदित्यवाय्याकाशाप्पृथिवीनामेकैकेनैकैकमुपास्यमानतया कथितानां विश्वरूपः, पृथग्वर्त्मा, बहुलो, रयिः, प्रतिष्ठा, इत्येकैकगुणनामधेयानि वैश्वानरात्मनश्चक्षुःप्राणसन्देहवस्तिपादावयवत्वं चोपदिष्टम्। सन्देहो मध्यकाय उच्यते। अत एवम्भूतद्युमूर्धत्वादिविशिष्टं परमपुरुषस्यैव रूपमिति वैश्वानरः परमपुरुष एव॥२६॥

उत्तरसूत्रावतरणम्

पुनरप्यनिर्णयमेवाशङ्क्य परिहरति –

५९. शब्दादिभ्योऽन्तःप्रतिष्ठानाच्च नेति चेन्न

तथा दृष्ट्युपदेशादसम्भवात्पुरुषमपि चैनमधीयते ॥ १-२-२७ ॥

वैश्वानरशब्दस्य परमात्मपरत्वाभावशङ्कनम्

यदुक्तं वैश्वानरः परमात्मेति निश्चीयत इति, तन्न, शब्दादिभ्योऽन्तः प्रतिष्ठानाच्च जाठरस्याप्यग्नेरिह प्रतीयमानत्वात्। शब्दस्तावद्वाजिनां वैश्वानरविद्याप्रकरणे स एषोऽग्निर्वैश्वानरः (प्रश्न.१.७) इति वैश्वानरसमानाधिकरणतयाऽग्निरिति श्रूयते; अस्मिन्प्रकरणे च हृदयं गार्हापत्यो मनोऽन्वाहार्यपचन आस्यमाहवनीयः (छां.५.१८.२) इति वैश्वानरस्य हृदयादिस्थस्याग्नित्रयकल्पनं क्रियते। तद्यद्भक्तं प्रथममागच्छेत्तद्धोमीयं स यां प्रथमामाहुतिं जुहुयात्तां जुहुयात्प्राणाय स्वाहा (छां.५.१९.१) इत्यादिना प्राणाहुत्याधारत्वं च वैश्वानरस्यावगम्यते। तथा वैश्वानरस्यास्मिन्पुरुषेऽन्तः प्रतिष्ठानं वाजसनेयिनस्समामनन्ति स यो हैतमेवमग्निं वैश्वानरं पुरुषविधं पुरुषेऽन्तःप्रतिष्ठितं वेद इति । अतोऽग्निशब्दसामानाधिकरण्यात् अग्नित्रेतापरिकल्पनात् प्राणाहुत्याधारभावादन्तः प्रतिष्ठानाच्च वैश्वानरस्य जाठरत्वमपि प्रतीयत इति नैकान्ततः परमात्मत्वमिति चेत् –

अग्न्याख्यदेवतायाः, तृतीयभूतस्य तेजसश्च वैश्वानरशब्दावाच्यत्वम्

तन्न, तथा दृष्ट्युपदेशात् – पूर्वोक्तस्य त्रैलोक्यशरीरस्य परस्य ब्रह्मणो वैश्वानरस्य जाठराग्निशरीरतया तद्विशिष्टस्योपासनोपदेशात्। अग्निशब्दादिभिर्हि न केवलो जाठरः प्रतिपाद्यते; अपितु जाठराग्निविशिष्टः परमात्मा । कथमिदमवगम्यत इति चेत् – असम्भवात् – जाठरस्य केवलस्य त्रैलोक्यशरीरत्वासम्भवात्। त्रैलोक्यशरीरतया प्रतिपन्नवैश्वानरसमानाधिकरणो जाठरविषयतया प्रतीयमानोऽग्निशब्दो जाठरशरीरतया तद्विशिष्टं परमात्मानमेवाभिदधातीत्यर्थः। यथोक्तं भगवता अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः। प्राणापानसमायुक्तः पचाम्यन्नं चतुर्विधम् (भ.गी.१५.१४) इति जाठरानलशरीरो भूत्वेत्यर्थः। अतस्तद्विशिष्टस्योपासनमत्रोपदिश्यते। किञ्च पुरुषमपि चैनमधीयते वाजसनेयिनः स एषोऽग्निर्वैश्वानरो यत्पुरुषः इति; न हि जाठरस्य केवलस्य पुरुषत्वम्, परमात्मन एव हि निरुपाधिकं पुरुषत्वम्, यथा, सहस्रशीर्षा पुरुषः, पुरुष एवेदं सर्वम् (पुरुषसूक्तं) इत्यादौ॥ २७॥

अग्न्याख्यदेवतायाः तृतीयभूतस्य तेजसश्च वैश्वानरशब्दावाच्यत्वम्

६०. अत एव न देवता भूतञ्च॥ १-२-२८ ॥

उक्तेभ्य एव हेतुभ्यो देवतायाश्च तृतीयस्य महाभूतस्यापि न वैश्वानरत्वप्रसङ्गः॥२८॥

अग्निशब्दादेः अव्यवधानेन भगवद्वाचकता

६१. साक्षादप्यविराधं जैमिनिः ॥ १-२-२९ ॥

सङ्गतिप्रदर्शनम्

वैश्वानरसमानाधिकरणस्याग्निशब्दस्य जाठराग्निशरीरतया तद्विशिष्टस्य परमात्मनो वाचकत्वम्, तथैव परमात्मन उपास्यत्वं चोक्तम्। जैमिनिस्त्वाचार्यो वैश्वानरशब्दवदग्निशब्दस्यापि परमात्मन एव साक्षात् अव्यवधानेन वाचकत्वे न कश्चिद्विरोध इति मन्यते।

शब्दानां परमात्मनि अव्यवहितवृत्तेरुपपादनम्

एतदुक्तं – भवति – यथा वैश्वानरशब्दस्साधारणोऽपि परमात्मासाधारणधर्मविशेषितो विश्वेषां नराणां नेतृत्वादिना गुणेन परमात्मानमेवाभिदधातीति निश्चीयते, एवमग्निशब्दोऽप्यग्रनयनादिना येनैव गुणेन योगाज्ज्वलने वर्तते, तस्यैव गुणस्य निरुपाधिकस्य काष्ठागतस्य परमात्मनि सम्भवादस्मिन्प्रकरणे परमात्मासाधारणधर्मविशेषितः परमात्मानमेवाभिधत्त इति॥२९॥

उत्तरसूत्रोपयोगिनी शङ्का

यस्त्वेतमेवं प्रादेशमात्रमभिविमानम् (छा.५.१८.१) इत्यपरिच्छिन्नस्य परस्य ब्रह्मणो द्युप्रभृतिपृथिव्यन्तप्रदेशसम्बन्धितया मात्रया परिच्छिन्नत्वं कथमुपपद्यते – तत्राह

६२. अभिव्यक्तेरित्याश्मरथ्यः ॥ १-२-३० ॥

परमात्मनः प्रादेशमात्रतावर्णनफलम्

उपासकाभिव्यक्त्यर्थं प्रादेशमात्रत्वं परमात्मन इत्याश्मरथ्य आचार्यो मन्यते। द्यौर्मूर्धा आदित्यश्चक्षुः वायुः प्राणः आकाशो मध्यकायः, आपो वस्तिः, पृथिवी पादौ इति द्युप्रभृतिप्रदेशसम्बन्धिन्या मात्रया परिच्छिन्नत्वम् कृत्स्नमभिव्याप्तवतो विगतमानस्य ह्यभिव्यक्तेरेव हेतोर्भवति॥३०॥

ब्रह्मणः पुरुषविधत्ववर्णनफलम्

मूर्धाप्रभृत्यवयवविशेषैः पुरुषविधत्वं परस्य ब्रह्मणः किमर्थमिति चेत् – तत्राह

६३. अनुस्मृतेर्बादरिः ॥ १-२-३१ ॥

तथोपासनार्थमिति बादरिराचार्यो मन्यते। यस्त्वेतमेवमभिविमानमात्मानं वैश्वानरमुपास्ते स सर्वेषु लोकेषु सर्वेषु भूतेषु सर्वेष्वात्मस्वन्नमत्ति (छा.५.१८.१) इति ब्रह्मप्राप्तये ह्युपासनमुपदिश्यते एतमेवमिति – उक्तप्रकारेण पुरुषाकारमित्यर्थः। सर्वेषु लोकेषु सर्वेषु भूतेषु सर्वेष्वात्मसु वर्तमानं यदन्नं भोग्यं तदत्ति – सर्वत्र वर्तमानं स्वत एवानवधिकातिशयानन्दं ब्रह्मानुभवति। यत्तु सर्वैः कर्मवश्यैरात्मभिः प्रत्येकमनन्यसाधारणमन्नं भुज्यते, तन्मुमुक्षुभिस्त्याज्यत्वादिह न गृह्यते॥३१॥

उरःप्रभृतीनां वेद्यादिरूपताकल्पनप्रजोयनम्

यदि परमात्मा वैश्वानरः, कथं तर्ह्युरःप्रभृतीनां वेद्यादित्वोपदेशः, यावता जाठराग्निपरिग्रह एवैतदुपपद्यत इत्यत्राह-

६४. सम्पत्तेरिति जैमिनिस्तथा हि दर्शयति ॥ १-२-३२ ॥

अस्य परमात्मन एव वैश्वानरस्य द्युप्रभृतिपृथिव्यन्तशरीरस्य समाराधनभूतायाः उपासकैरहरहः क्रियमाणायाः प्राणाहुतेरिग्नहोत्रत्वसम्पादनायायमुरः प्रभृतीनां वेदित्वाद्युपदेश इति जैमिनराचार्यो मन्यते। तथाहि – परमात्मोपासनोचितमेव फलं प्राणाहुत्या अग्निहोत्रसम्पत्तिं च दर्शयतीयं श्रुतिः। स य इदमविद्वानग्निहोत्रं जुहोति यथाङ्गारानपोह्य भस्मनि जुहुयात्तादृक्तत्स्यात् अथ य एतदेवं विद्वानग्निहोत्रं जुहोति तस्य सर्वेषु लोकेषु सर्वेषुभूतेषु सर्वेष्वात्मसु हुतं भवति तद्यथेषीकतूलमग्नौ प्रोतं प्रदूयेतैवं हास्य सर्वे पाप्मानः प्रदूयन्ते (छा.५.२४.१) इति॥ ३२ ॥

परमात्मनः द्युप्रभृतिशरीरकत्वोपपत्तिः

६५. आमनन्ति चैनमिस्मन् ॥ १-२-३३ ॥

एनं परमपुरुषं द्युमूर्धत्वादिविशिष्टं वैश्वानरम् अस्मिन् उपासकशरीरे प्राणाहुत्याधारत्वाय आमनन्ति च तस्य ह वा एतस्यात्मनो वैश्वानरस्य मूर्धैव सुतेजाः (छां.५.१८.२) इत्यादिना। अयमर्थः यस्त्वमेवं प्रादेशमात्रमभिविमानं आत्मानं वैश्वानरमुपास्ते (छां.५.१८.२) इति त्रैलोक्यशरीरस्य परमात्मनो वैश्वानरस्योपासनं विधाय सर्वेषु लोकेषु (छां.५.१८.१) इत्यादिना ब्रह्मप्राप्तिं च फलमुपदिश्य अस्यैवोपासनस्याङ्गभूतं प्राणाग्निहोत्रं तस्य ह वा एतस्य (छा.५.१८.२) इत्यादिनोपदिशति; यः पूर्वमुपास्यतयोपिदष्टो वैश्वानरस्तस्यावयवभूतान् अग्न्यादित्यादीन् सुतेजोविश्वरूपादिनामधेयानुपासकशरीरे मूर्धादिपादान्तेषु सम्पादयति। मूर्धैव सुतेजाः – उपासकस्य मूर्धैव परमात्ममूर्धभूता द्यौरित्यर्थः। चक्षुर्विश्वरूपः – आदित्य इत्यर्थः। प्राणः पृथग्वर्त्मा – वायुरित्यर्थः। सन्देहो बहुलः – उपासकस्य मध्यकाय एव परमात्ममध्यकायभूत आकाश इत्यर्थः। वस्तिरेव रयिः – अस्य वस्तिरेव तदवयवभूता आप इत्यर्थः । पृथिव्येव पादौ – अस्य पादावेव तत्पादभूता पृथिवीत्यर्थः। एवमुपासकः स्वशरीरे परमात्मानं त्रैलोक्यशरीरं वैश्वानरं सन्निहितमनुसन्धाय स्वकीयान्युरोलोमहृदयमनआस्यानि प्राणाहुत्याधारस्य परमात्मनो वैश्वानरस्य वेदिबर्हिर्गार्हापत्यान्वाहार्यपचनौ आहवनीयानग्निहोत्रोपकरणभूतान्परिकल्प्य प्राणाहुतेश्चाग्निहोत्रत्वं परिकल्प्यैवंविधेन प्राणाग्निहोत्रेण परमात्मानं वैश्वानरमाराधयेदिति उर एव वेदिर्लोमानि बर्हिर्हृादयं गार्हापत्यः (छां.५.१८.२) इत्यादिनोपदिश्यते। अतः परमात्मा पुरुषोत्तम एव वैश्वानर इति सिद्धम्॥३३॥

इति श्रीशारीरकमीमांसाश्रीभाष्ये वैश्वानराधिकरणम्॥८॥

इति श्रीभगवद्रामानुजविरचिते शारीरकमीमांसाभाष्ये

प्रथमस्याध्यायस्य द्वितीयःपादः॥