श्रीभाष्यम् 01-02-15 अन्तर्याम्यिधकरणम्

श्रीशारीरकमीमांसाभाष्ये अन्तर्याम्यधिकरणम्॥४॥

अधिकरणार्थः

ब्रह्मणः सर्वान्तर्यामित्वम्, न जीवस्य

अन्तर्यामिविद्या (वृ.उ.5-7)

पूर्वानुवादपुरस्सरं तदुक्तार्थसमर्थनात् सङ्गतिः

स्थानादिव्यपदेशाच्च (ब्र.सू.१.२.१४) इत्यत्र यश्चक्षुषि तिष्ठन् (बृ.५.७.१८) इत्यादिना प्रतिपाद्यमानं चक्षुषि स्थितिनियमनादिकं परमात्मन एवेति सिद्धं कृत्वाऽक्षिपुरुषस्य परमात्मत्वं साधितम्? इदानीं तदेव समर्थयते-

५१. अन्तर्याम्यधिदैवाधिलोकादिषु तद्धर्मव्यपदेशात् ॥ १-२-१९॥

विषयवाक्यप्रदर्शनम्

काण्वा माध्यन्दिनाश्च वाजसनेयिनस्समामनन्ति – यः पृथिव्यां तिष्ठन् पृथिव्या अन्तरो यं पृथिवी न वेद यस्य पृथिवी शरीरं यः पृथिवीमन्तरो यमयत्येष त आत्माऽन्तर्याम्यमृतः (बृ.५.७.३), यः पृथिव्यां तिष्ठन् पृथिव्या अन्तरो यं पृथिवीं न वेद यस्य पृथिवी शरीरं यः पृथिवीमन्तरो यमयत्वेष त आत्माऽन्तर्याम्यमृतः इति। एवमम्ब्वग्न्यन्तरिक्षवाय्वादित्य-द्विचन्द्रतारकाकाश-तमस्तेजस्सु दैवेषु च सर्वेषु भूतेषु प्राणवाक्चक्षुश्श्रोत्रमनस्त्वग्विज्ञान-रेतस्स्वात्मात्मीयेषु च तिष्ठन्तं तत्तदनन्तरभूतं तत्तदवेद्यं तत्तच्छरीरकं तत्तद्यमयन्तं कञ्चिन्निर्दिश्य एष त आत्माऽन्तर्याम्यमृतः (बृह.५.७) इत्युपदिश्यते। माध्यिन्दनपाठे तु यस्सर्वेषु लोकेषु तिष्ठन् (बृ.५.७) यस्सर्वेषु वेदेषु (बृ.५.६.२३) यस्सर्वेषु यज्ञेषु (बृ.५.७.२३) इति च पर्यायाः। यो विज्ञाने तिष्ठन् (बृ.५.७) इत्यस्य पर्यायस्य स्थाने य आत्मनि तिष्ठन् (बृ.५.७.२३) इति पर्यायः। स त आत्माऽन्तर्याम्यमृतः (बृ.५.७.२३) इति च विशेषः।

संशयस्वरूपप्रदर्शनम्

तत्र संशय्यते – किमयमन्तर्यामी प्रत्यगात्मा, उत परमात्मा – इति। कि युक्तम्? प्रत्यगात्मेति। कुतः? वाक्यशेषे द्रष्टा श्रोता (बृ.५.७.२३) इति करणायत्तज्ञानताश्रुतेः। एवं द्रष्टुरेवान्तर्यामित्वोपदेशात्, नान्योऽतोऽस्ति द्रष्टा (बृ.५.७.२३) इति द्रष्ट्रन्तरनिषेधाच्चेति।

सिद्धान्तारम्भः सयुक्तिकः

एवं प्राप्तेऽभिधीयते – अन्तर्याम्यधिदैवाधिलोकादिषु तद्धर्मव्यपदेशात् – अधिदैवाधिलोकादिपदचिह्नितेषु वाक्येषु श्रूयमाणोऽन्तर्याम्यपहतपाप्मा परमात्मा नारायणः। काण्वपाठसिद्धेभ्योऽधिदैवादिमद्भ्यो वाक्येभ्योऽधिकान्यधिलोकादिमन्ति वाक्यानि माध्यन्दिनपाठे सन्तीति ज्ञापनार्थमधिदैवाधिलोकादिष्वित्युभयोरुपादानम्। तदेवमुभयेष्वपि वाक्येष्वन्तर्यामी परमात्मेत्यर्थः। कुतः? तद्धर्मव्यपदेशात्; परमात्मधर्मो ह्ययम्, यदेक एव सन् सर्वलोकसर्वभूतसर्वदेवादीन्नियमयतीति। तथा उद्दालकप्रश्नः – य इमं च लोकं परं च लोकं सर्वाणि च भूतानि योऽन्तरो यमयति (बृ.५.७.१) इत्युपक्रम्य तमन्तर्यामिणं ब्रूहि (बृ.५.७.१) इति, तस्य चोत्तरम् यः पृथिव्यां तिष्ठन् (बृ.५.७.३) इत्यारभ्योक्तम् ॥दे

अन्तर्यामित्वस्य परमात्मासाधारणता

तदेतत्सर्वाल्लोकान् सर्वाणि च भूतानि सर्वान् देवान् सर्वान्वेदान् सर्वांश्च यज्ञानन्तः प्रविश्य सर्वप्रकारनियमनम्, सर्वशरीरतया सर्वस्यात्मत्वं च सर्वज्ञात्सत्यसङ्कल्पात् पुरुषोत्तमादन्यस्य न सम्भवति। तथाहि अन्तःप्रविष्टश्शास्ता जनानां सर्वात्मा (तै.आर.११.२०) तत्सृष्ट्वा, तदेवानुप्राविशत्, तदनुप्रविश्य, सच्च त्यच्चाभवत् (तै.आन.३.६.) इत्यादीन्यौपनिषदानि वाक्यानि परमात्मन एव सर्वस्य प्रशासितृत्वं सर्वस्याऽत्मत्वं इत्यादीनि वदन्ति। तथा सुबालोपिनषदि नैवेह किञ्चनाग्र आसीदमूलमनाधारमिमाः प्रजाः प्रजायन्ते दिव्यो देव एको नारायणः। चक्षुश्च द्रष्टव्यं च नारायणः। श्रोत्रं च श्रोतव्यं च नारायणः (सुबा.६) इत्यारभ्य अन्तश्शरीरे निहितो गुहायामज एको नित्यः यस्य पृथिवी शरीरं यः पृथिवीमन्तरे सञ्चरन् यं पृथिवी न वेद यस्यापश्शरीरम् (सुबा.६) इत्यादि, यस्य मृत्युश्शरीरं यो मृत्युमन्तरे सञ्चरन्यं मृत्युर्न वेद एष सर्वभूतान्तरात्माऽपहतपाप्मा दिव्यो देव एको नारायणः (सुबा.६) इति परस्यैव ब्रह्मणस्सर्वात्मत्वं सर्वशरीरत्वं सर्वस्य नियन्तृत्वं च प्रतिपाद्यते। स्वाभाविकं चामृतत्वं परमात्मन एव धर्मः ॥

परमात्मनः करणायत्तज्ञानराहित्यम्

न च परस्यात्मनः करणायत्तं द्रष्टृत्वादिकम्; अपितु स्वभावत एव सर्वज्ञत्वात्सत्यसङ्कल्पत्वाच्च स्वत एव। तथाच श्रुतिः पश्यत्यचक्षुस्स शृणोत्यकर्णः अपाणिपादो जवनो ग्रहीता (श्वे.३.१९) इति। न च दर्शनश्रवणादिशब्दाश्चक्षुरादिकरणजन्मनो ज्ञानस्य वाचकाः; अपि तु रूपादिसाक्षात्कारस्य। स च रूपादिसाक्षात्कारः कर्मतिरोहितस्वाभाविकज्ञानस्य जीवस्य चक्षुरादिकरणजन्मा; परस्य तु स्वत एव ॥

नान्योऽतः इति द्रष्ट्रन्तरनिषेधसाङ्गत्यम्

नान्योऽतोऽस्ति द्रष्टा (बृ.५.७.२३) इत्येतदपि पूर्ववाक्योदितान्नियन्तुर्द्रष्टुरन्यो द्रष्टा नास्तीति वदति। यं पृथिवी न वेद (सुबा.७) यमात्मा न वेद (सुबा.७) इत्येवमादिभिर्वाक्यैः पृथिव्यात्मादिनियाम्यैरनुपलभ्यमान एव नियमयतीति यत्पूर्वमुक्तम्, तदेव अदृष्टो द्रष्टा अश्रुतश्श्रोता (बृ.५.७.२३) इति निगमय्य नान्योऽतोऽस्ति द्रष्टा (बृ.५.७.२३) इत्यादिना तस्य नियन्तुर्नियन्त्रन्तरं निषिध्यते ॥

व्यतिरेकनिर्देशात् अन्तर्यामिणः पृथक्त्वम्

एष त आत्मा (बृह.५.७.२३) स त आत्मा इति च त इति व्यतिरेकविभक्तिनिर्दिष्टस्य जीवस्य आत्मतयोपदिश्यमानः अन्तर्यामी न प्रत्यगात्मा भवितुमर्हाति॥१९॥

अधिकरणद्वयार्थनिगमनम्

५२. न च स्मार्तमतद्धर्माभिलापाच्छारीरश्च ॥ १-२-२० ॥

स्मार्तं प्रधानम्। शारीरः जीवः। स्मार्तं च शारीरश्च नान्तर्यामी, अतद्धर्माभिलापात्- तयोरसम्भावितधर्माभिलापात्। स्वभावत एव सर्वस्य द्रष्टृत्वम्, सर्वस्य नियन्तृत्वम्, सर्वस्याऽत्मत्वम्, स्वत एवामृतत्वं च तयोर्न सम्भावनागन्धमर्हाति। एतदुक्तं भवति – यथा स्मार्तमचेतनं सर्वज्ञत्वनियन्तृत्वसर्वात्मत्वादिकं नार्हाति, तथा जीवोऽपि, अतद्धर्मत्वात् इति॥

उत्तरसूत्रावतरणम्

अमीषां गुणानां परमात्मन्यन्वयः, प्रत्यगात्मनि व्यतिरेकश्च सूत्रद्वयेन दर्शितः॥२०॥

निरपेक्षं च हेत्वन्तरमाह –

५३. उभयेऽपि हि भेदेनैनमधीयते ॥ १-२-२१ ॥

उभये – माध्यिन्दनाः काण्वाश्च, अन्तार्यामिणो नियाम्यत्वेन वागादिभिरचेतनैस्समम् एनं शारीरमपि विभज्याधीयते – य आत्मनि तिष्ठन्नात्मनोऽन्तरो यमात्मा न वेद यस्याऽत्मा शरीरं य आत्मानमन्तरो यमयति स त आत्माऽन्तर्याम्यमृतः (बृ.५.७.२२) इति माध्यन्दिनाः, यो विज्ञाने तिष्ठन् (बृ.५.७.२२) इत्यादि च काण्वाः, परमात्मनियाम्यतया तस्माद्विलक्षणत्वेनैनमधीयत इत्यर्थः। अतोऽन्तर्यामी प्रत्यगात्मनो विलक्षणोऽपहतपाप्मा परमात्मा नारायण इति सिद्धम्॥२१॥

इति श्रीशारीरकमीमांसाभाष्ये अन्तर्याम्यिधकरणम्॥४॥